Saturday, July 28, 2007

सम्पादकीयम्

प्रायः सर्वेषां मनसि एकः प्रश्नः उद्भवेत् एव यत् इदानीं किमर्थम् एषा पत्रिका इति । कस्याः अपि क्रियायाः आरम्भात् पूर्वम् अस्माभिः चिन्तनीयं यत् वयं किमर्थम् एतां क्रियां कुर्मः इति । अतः एव एतत्पत्रिकाप्रकाशनार्थं प्रयोजनं वयं वदामः ।

प्रधानतया वयम् एतस्मिन् देशे विश्वविद्यालयविद्यार्थिषु संस्कृतभाषाभिरुचिं वर्धयितुम् इच्छामः । कीदृशी एषा अभिरुचिः ? संस्कृतभाषायाः श्रवणं, वचनं, पठनं, लेखनं च इति सर्वासु दिक्षु आभिरुचिः । अर्थात् संस्कृतभाषायां सकलव्यवहाररुचिः । तर्हि सा कथं वर्धयितव्या? प्रथमतया वयं सर्वेभ्यः प्रदर्शयामः यत् संस्कृतभाषायां सम्भाषणं सरलतया कर्तुं शक्यते । तथा च इदम् अपि प्रदर्शयामः यत् स्वसदृशाः विश्वविद्यालयविद्यार्थिनः संस्कृतभाषां शृण्वन्ति, वदन्ति, पठन्ति, लिखन्ति च इति । (एकदा मम संस्कृतभाषाभाषकमित्रस्य गृहं गत्वा, तस्य मित्राणां सम्मुखे तेन सह अहं संस्कृतभाषायाम् अभाषे । तत् श्रुत्वा सर्वे अपि चकिताः यत् संस्कृतभाषायां तथा एव वक्तुं शक्यं यथा हिन्दीकन्नडतेलुगुभाषासु ।)

तर्हि कथं विद्यार्थिनां सुप्तां संस्कृतभाषाभिरुचिं प्रकटयितुं शक्नुमः? एनया पत्रिकया शक्नुमः इति अस्माकं मतम् । यदि कोऽपि विद्यार्थी पत्रिकां पश्यति, तर्हि सः एवं चिन्तयति - भिन्नभिन्नविद्यालयेषु मम समवयस्केषु संस्कृतभाषाजिज्ञासा अस्ति, तेषु संस्कृतभाषाप्रीतिः अपि अस्ति । अहम् अपि एतं संस्कृतसख्यपरिवारम् अनुभवितुम् इच्छामि, अतः संस्कृतभाषायां व्यवहर्तुं किञ्चित् प्रयते इति । अपि च येषां संस्कृतभाषायां जिज्ञासा इदानीम् एव अस्ति, तेभ्यः संस्कृतभाषायां लेखितुं, चर्चयितुं, पोषयितुं च एतत् एकं स्थानं स्थापितं पत्रिकारूपेण अस्माभिः ।

द्वितीयं प्रयोजनम् अपि अस्ति यत् अमेरिकादेशे संस्कृतप्रचारणार्थं वयम् एकां पत्रिकां लेखितुम् इच्छामः। प्रत्येकः चिन्तयति यदा वृद्धः भविष्यामि, तदा भारतं गत्वा, संस्कृतभाषायाः अध्ययनं करोमि, संस्कृतभाषायाः विषये चिन्तयामि च इति । पत्रिकायाः रचनया जनाः जानीयुः यत् अस्मिन् देशे एव संस्कृतभाषायां व्यवहारः शक्यः । कुत्रापि गमनम् आवश्यकं नास्ति! भारत्ं विना अन्यत्र संस्कृतभाषा न जीवति इति केनापि न चिन्तनीयम् । एतस्मिन् देशे संस्कृतव्यवहारः भवितुम् अर्हति, इदानीं भवति च इति एतत्पत्रिकाप्रकाशनेन प्रदर्शयामः।

विश्ववाणीपत्रिकापठनेन भवताम् आनन्दः भवतु इति अस्माकम् आशा । यदि कस्मिन्नपि विषये कोऽपि स्वस्य अभिप्रायम् लेखितुम् इच्छति, अथवा प्रकाशनार्थं किमपि लेखनं दातुम् इच्छति, कृपया अस्मभ्यम् प्रेषयतु ।

पत्रिकाप्रकाशने अस्माकं प्रत्यक्षपरोक्षरूपेण साहायां दत्तवद्भ्यः सर्वेभ्यः विशेषतया रामप्रिय धनञ्जयाभ्यां धन्यवादाः ।

रचयेम संस्कृतभुवनम् ।

- सम्पादिका
(सौम्या जोयिसा)

सुभाषितम्

चिंतायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते ।
चिता दहति निर्जीवं चिंता दहति जीवितम् ॥

एतस्मिन् सुभाषिते चिंता (worry) शब्दस्य चिता (funeral pyre) शब्देन सह तुलनां कृत्वा चिंतायाः दुष्प्रयोजनं बोधितम् । यथा लेखने द्वयोः शब्दयोः मध्ये बिन्दुमात्रम् एव भेदः भवति तथैव अर्थस्य विषये अपि ईषद् एव भेदः भवति । यथा चिता मृतं दहति, तथा चिंता जीवितं पीडयति दाहवत् । अतः चिंता हानिकारी भवति इति वयं जानीमः ।

- मैथिली

विनोदिका

अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् । भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स" अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)

- अरुणः

रामेश्वरेऽर्जुनगर्वभङ्गम्

स्वभक्तानां कपीनांश्च तारणाय महार्णवे ।
सेतुबन्धनसन्नद्धं राघवं तन्नमाम्यहम् ॥ १ ॥

राममेवंविधा ध्यायन् रामं मनसि चिन्तयन् ।
सूर्ये चास्तमये प्राप रामेश्वरमथार्जुनः ॥ २ ॥

रामेश्वरं तथा नत्वा जगामासौ धनुर्धरः ।
रामेनैवाश्रितं स्थानं तीरं रत्नाकरस्य च ॥ ३ ॥

अपश्यत्तत्र सेतुं तन्निर्मितं वानरादिभिः ।
तन्निर्माणकथां ध्यायन्नवदत्स महारथी ॥ ४ ॥

धनुर्विद्यासमर्थेन राघवेन महात्मना ।
शक्यस्स्यान्ननु निर्मातुं सेतुरेष शरैरपि ॥ ५ ॥

स्वयं कोदण्डपाणिश्च साहाय्यं सेतुबन्धने ।
वानराणां मृगाणां च किमर्थं सोऽप्ययाचत ॥ ६ ॥

कार्येऽस्मिन् फलतामाप्तुं शक्तस्स्यामहमेव हि ।
एतच्छ्रुत्वा वचस्तस्य समीपस्थः कपीश्वरः ॥ ७ ॥

अपृच्छदर्जुनं वीरं धनुर्धर भवान् तु कः ।
समर्थं वेत्ति चात्मानं दुष्करस्यास्य साधने ॥ ८ ॥

पाण्डुपुत्रः पृथासूनुः द्रोणशिष्योऽहमर्जुनः ।
इत्यवदत्स गाण्डीवी महागर्वसमन्वितः ॥ ९ ॥

असाध्यं खलु कार्यं तच्छताधिकजनैरपि ।
वानरैश्च सहस्रैश्च मृगवृन्दैश्च निर्मितम् ॥ १० ॥

अशक्यं भवताप्येतदिति प्राह स वानरः ।
श्रुत्वेदं वचनं पार्थो वानरं पुनरब्रवीत् ॥ ११ ॥

परन्त्वहमसामान्य इन्द्रेणाप्यपराजितः ।
अवश्यं साधयिष्यामि कार्यमेतत्तु वानर ॥ १२ ॥

इत्युक्त्वा तु तदा पार्थो रतोऽभूत्सेतुबन्धने ।
सेतुर्योजनपर्यन्तं क्षणेष्वेव हि निर्मितः ॥ १३ ॥

आश्चर्येण तु तद्दृष्ट्वा तिष्ठत्वित्याह वानरः ।
परीक्षेऽहमिमं सेतुं भारं वहति किं मम ॥ १४ ॥

स्पर्शेन कपिपादस्य भग्नोऽभूत्सव्यसाचिना ।
रचितश्शरसेतुश्च चकितोऽभूत्स पाण्डवः ॥ १५ ॥

रचयामि पुनस्तर्हि क्षणमेकं हि तिष्ठ भोः ।
इत्युक्त्वा तु पुनर्यत्नमकरोदर्जुनस्तदा ॥ १६ ॥

रचितस्तेन सेतुश्च कपिभग्नो पुनःपुनः ।
बहुधाप्येवमेवाभूज्जगादान्ते तमर्जुनः ॥ १७ ॥

न शक्नोमि शरैस्सेतुं निर्मातुं वानराधिप ।
प्राणान् महोदधावस्मिन्नहङ्कारी त्यजाम्यहम् ॥ १८ ॥

प्राणत्यागाय सन्नद्धमर्जुनं वानरोऽब्रवीत् ।
लभसे किमनेन त्वं तिष्ठ हे पुरुषर्षभ ॥ १९ ॥

अहङ्कारविमुक्तस्त्वमीश्वरं राममाश्रय ।
सर्वाणि तव कार्याणि साधयिष्यस्यनेन हि ॥ २० ॥

किं वा साध्यं बलिष्ठेन रामस्यानुग्रहं विना ।
किं वाऽसाध्यं मृगैश्चापि राघवानुग्रहे सति ॥ २१ ॥

भवता सत्यमुक्तं वै मदान्धेन मया कथम् ।
रामेणाशक्यमित्येतत् कार्यमस्तीति चिन्तितम् ॥ २२ ॥

नौम्यहं राघवं राममशक्याद्भुतसाधकम् ।
यस्यापि नाममात्रेण शिला तरति सागरे ॥ २३ ॥

महात्मन्ननुगृह्णातु दासोऽहं भवतस्सदा ।
दण्डवत्प्राणमत्पार्थ उक्त्वैवं वानरं तदा ॥ २४ ॥

सोऽब्रवीन्मन्दहासेन पार्थाजेयस्सदा भव ।
तुष्टोऽहं तव वीर्येणोत्तिष्ठ हे भरतर्षभ ॥ २५ ॥

पताकस्थो भविष्यामि हनूमानहमेव हि ।
कपिध्वजेति प्रख्यातं पामि त्वां सर्वदा युधि ॥ २६ ॥

पार्थस्य गर्वभङ्गं तु कृतमेवं हनूमता ।
अहङ्कारविमुक्तिं नस्सोऽनुगृह्णातु सर्वदा ॥ २७ ॥

(परिष्कृतवद्भ्यां प्रोत्साहञ्च दत्तवद्भ्यां रामप्रियधनञ्जयाभ्यां धन्यवादाः ।)

- अविनाशः