Friday, July 18, 2008

अलम् अधिकप्रचारेण

प्रसारमाध्यमानां प्रभावः अगाधः । प्रतिदिनं वयं वृत्तपत्रिकाः अन्तर्जालवार्तापत्रिकाः वा पठामः दूरदर्शनं पश्यामः च प्रायः । एतेषां साहाय्येन देशस्य विभिन्नेषु प्रदेशेषु घटितानां घटनानां विषये ज्ञातुं शक्नुमः । न केवलं देशस्य, परन्तु विश्वस्य कस्मिन्नपि कोणे घटितायाः घटनायाः वार्ताः अपि क्षणेषु एव प्राप्तुं शक्यम् । अस्माकम् अन्यत् इन्द्रियमिव वर्तन्ते एतानि माध्यमानि । एभिः वयं जगत् ईक्षामहे । एतेभ्यः प्राप्ताभिः वार्ताभिः कमपि विषयम् अधिकृत्य अस्माकम् अभिप्रायः रचितः भवति । अतः सुविदितस्य जनसमूहस्य रचनायां प्रसारमाध्यमानां महत् पात्रम् अस्ति ।
अनया महत्या शक्त्या काचित् विलक्षणा स्थितिः जनिता अस्ति । अन्तर्जालादिभिः माध्यमैः सहस्राणां जनानां सम्पर्कं कर्तुं शक्यम् । काचिद्वार्ता शीघ्रमेव प्रसिद्धताम् आप्तुम् अर्हति । सर्वस्य अपि “अहं प्रसिद्धः भवेयम्” इति इच्छा भवति प्रायः । मम वार्ता प्रसारमाध्यमेषु प्रकाशिता भवतु इति सर्वे वाञ्छन्ति । केचन स्युः ये कथञ्चित् अपि प्रसिद्धतां साधयितुम् अभिलषन्ति । तदर्थं विचित्राणि कार्याणि क्रियन्ते कदाचन । प्रसारमाध्यमानि अपि विचित्रायै घटनायै आद्यतां यच्छन्ति । अतः जनाः विचित्रतरं कार्यं कर्तुं प्रयतन्ते । केषाञ्चन चिन्तनम् इत्थं प्रायः -

घटं भिन्द्यात् पटं छिन्द्यात्
कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण
प्रसिद्धः पुरुषो भवेत् ॥

कथञ्चित् प्रसिद्धेन पुरुषेण भवितव्यम् । तदर्थं घटं भिन्द्यात् अथवा पटं (वस्त्रं) छिन्द्यात् । ततोऽपि विचित्रं कार्यं कुर्यात् आवश्यकतायां सत्याम् । रासभस्य (गर्दभस्य) आरोहणं कृत्वा वा प्रसिद्धतां प्राप्नुयात् !! Youtube जालस्थाने विद्यमानानां चलच्चित्राणां दर्शनेन ईदृशाः जनाः सन्ति इति तु प्रमाणितं भवति ।
कदाचित् संस्थाः स्वकार्यस्य प्रचारार्थं माध्यमानाम् उपयोगं कुर्वन्ति । तत्र तु नास्ति दोषः । परन्तु यदि प्रचारः एव संस्थायाः मुख्यः ध्येयः भवेत्, तदर्थमेव अधिकः श्रमः क्रियते चेत् ? सत्यं यत् जनानाम् आकर्षणार्थं प्रचारः आवश्यकः । प्रचारं विना तस्य कार्यस्य लाभम् अधिकाः न प्राप्नुयुः । आसक्ताः अपि अज्ञानात् संस्थायाः कार्यक्रमेषु भागं वोढुं न शक्नुयुः । किन्तु प्रचारार्थं क्रियमाणस्य श्रमस्य काचित् सीमा भवतु । प्रारम्भे अवश्यं प्रचारः क्रियतां परन्तु कार्यस्य एव सर्वदा आद्यता स्यात् । ईषत् अपि साधितं चेत् तस्य प्रचारः करणीयः इति नास्ति । कश्चित् शिशुः यदा प्रथमवारं पद्भ्यां चलति तदा सर्वे तद्दृष्ट्वा आनन्दिताः भवन्ति, प्रोत्साहं कुर्वन्ति च । परन्तु एकवर्षानन्तरम् अपि सः बालः पद्भ्यां चलति इति वार्तां को वा श्रोतुम् इच्छेत् ?
अल्पस्य अपि कार्यस्य प्रचारं श्रुत्वा जनाः जुगुप्सिताः अपि भवेयुः । कथ्यते ननु -
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वं
गुणैर्विहीनाः बहु जल्पयन्ति ॥

यथा सम्पूर्णः कुम्भः शब्दं न करोति, तथैव ज्ञानी विद्वान् अपि अधिकं गर्वं न करोति । गुणैः विहीनाः एव अर्धः घटः इव अधिकं शब्दं कुर्वन्ति, अधिकं भाषन्ते च ।
कार्यम् उत्कृष्टं चेत् प्रचारः तु भवति एव । यः जनः संस्थायाः कार्यक्रमे भागं वहति सः अन्यान् सूचयति । एवं सूचिताः प्रायः अग्रिमकार्यक्रमे भागं वहन्ति । ते पुनः अन्यान् सूचयन्ति । एवं जनमुखेन प्रचारस्य यावान् प्रभावः भवितुम् अर्हति अन्येन केनापि माध्यमेन तावन्तं प्रभावं साधयितुं कठिनम् । ईदृश्याः viral marketing योजनायाः उदाहरणानि अनेकानि विद्यन्ते । यदा google संस्थया gmail ई-पत्र-साधनम् आरब्धं तदा एवमेव कृतम् । यः कश्चित् तत् प्राप्तुं न अशक्नोत् । केवलं तस्य साधनस्य उपयोक्ता कश्चित् निमन्त्रणं प्रेषयति चेत् एव तत् प्राप्तुं शक्यम् । तथापि अद्य तस्य उपयोगिनः अनेके । अत्र सूक्ष्मः अंशः अस्ति - यदि तस्य साधनस्य उपयोक्त्रे तत् साधनं न रोचते तर्हि सः अन्येभ्यः निमन्त्रणपत्रं न प्रेषयति । तत् साधनम् उत्तमं चेत् एव प्रेषयति ननु ? एवं यदि वस्तु उत्कृष्टं, कार्यक्रमः उत्कृष्टः तर्हि जनमुखेनैव तस्य प्रचारः भवति । तदर्थम् अधिकः प्रयासः न आवश्यकः । विचित्राणि प्रचारकार्याणि न आवश्यकानि । कार्यस्य, सेवायाः च विषये अवधानं दीयताम् ।
अस्माभिः संस्कृतच्छात्राणां प्रोत्साहः करणीयः इति चिन्तयित्वा पत्रिकाप्रकाशनेन यत् प्रथमं पदं स्थापितं तस्य प्रचारः जातः । बहवः अस्मान् प्रोत्साहितवन्तः अपि । तदर्थं वयं कृतज्ञाः । परन्तु तदेव स्मरन्तः अजागरूकाः न भवेम । इदानीम् अनया पत्रिकया एकसंवत्सरः समापितः । बाल्यावस्था अतीता इति मन्यामहे । अग्रे एतस्याः विकासः भवतु । जनानां या अपेक्षा अस्ति तां पूरयितुं प्रयतामहे । तदर्थम् अस्मिन् (व्यासपूर्णिमावसरे) गुरुपूर्णिमावसरे गुरुज्येष्ठानाम् आशीर्वादाः याच्यन्ते । सर्वेषाम् अपि साहाय्यं याच्यते । यदि पत्रिकायाः गुणवत्तां वर्धयितुं भवतां सूचनाः सन्ति, तर्हि कृपया ताः vishvavani [at speaksanskrit [dot] org सम्पर्कसूत्रं प्रति प्रेषयन्तु । यदि भवद्भ्यः पत्रिका रोचते तर्हि भवतां मित्राणि सूच्यन्ताम् !


-- संपादकः
अविनाशः वर्णः

यत्स्वल्पमपि तद्बहु

एकस्मिन् ग्रामे रामः श्यामः इति मित्रद्वयं वसति स्म । रामस्य पिता कृषकः आसीत् । श्यामस्य पिता ग्रामे धनिकतमः व्यापारी आसीत् । रामश्यामौ तयोः बाल्यकाले सर्वदा मिलित्वा एव पठतः स्म क्रीडतः स्म च । प्राथमिक-विद्याभ्यासानन्तरं श्यामः उन्नतविद्याभ्यासार्थं ग्रामात् प्रस्थितवान् । परन्तु निर्धनस्य गृहे परिपोषितः रामः उन्नतविद्यालयं गन्तुं न शक्तवान् । तस्मिन् समये कुटुम्बपोषणस्य दायित्वम् अपि तेन वोढव्यम् आसीत् । अतः सः सर्वकारीय-कार्यालये लिपिकार-वृत्तिं प्राप्य जीवनं निर्वहति स्म ।
कानिचित् वर्षाणि अतीतानि । श्यामः उन्नतविद्याभ्यासं समाप्य एकां संस्थां व्यवस्थापितवान् । श्यामः व्यापारे निपुणः एव । तथापि यथा कथञ्चित् प्रगतिः साधनीया इति मत्वा व्यापारे दुर्नीतेः प्रयोगात् न अपसृतवान् । प्रभृतिकाले तस्य संस्था प्रभूतलाभान् प्राप्य बहुराष्ट्रिय-संस्थायां (multi-national company) पर्यवर्तत । श्यामस्य बन्धुमित्रगणं तस्य धनम् अधिकारं च दृष्ट्वा एव तस्य गौरवं करोति स्म, न तु स्नेहात् । व्यापारकारणतः व्यस्तः सन् श्यामः स्वपुत्रयोः पोषणे श्रद्धां न अददात् । अतः तौ भ्रष्टौ जातौ ।
रामस्य जीवनं तु भिन्नरीत्या प्रचलति स्म । सः कालान्तरं पदोन्नतिं प्राप्य ग्रामाधिकारी अभवत् । ग्रामजनाः तं “सज्जनः धर्मबद्धः” इति अश्लाघन्त । याचकः मित्रं वा शत्रुः वा इति अचिन्तयन् एव सः साहाय्यं करोति स्म । तस्य औदार्यं ग्रामे विख्यातम् । पितुः संरक्षणे संवर्धितौ रामस्य पुत्रौ सदाचारौ आस्ताम् । यद्यपि तस्य गृहे धनलक्ष्मीः बहुवारं न आगच्छत् तथापि संतोषलक्ष्मीः तु सर्वदा अतिष्ठत् ।
परन्तु कदाचित् रामः अनुतापम् अनुभूतवान् - “मम मित्रं श्यामः महाकार्याणि कृतवान् । तस्य नाम जगद्विख्यातम् । मां तु कूपस्थं मण्डूकमिव मम ग्रामजनान् विहाय अन्यः कोऽपि न जानाति । मम जीवनस्य सार्थकता नास्ति । मम निर्धनतायाः कारणात् मम पत्नी पुत्रौ च कष्टान् अनुभवेयुः । ते मनसि मह्यं क्रुध्येयुः” इति विचिन्त्य अखिद्यत ।
केभ्यश्चन वर्षेभ्यः अनन्तरं रामश्यामौ वृद्धौ अभवताम् । कालक्रमेण श्यामस्य भ्रष्टाचाराः विश्वविदिताः अभवन् । तस्य व्यापारः धनं कीर्तिः च क्षीणाः अभवन् । तस्य बान्धवाः वा मित्राणि वा तस्य साहाय्यं न कृतवन्तः । पत्न्या पुत्राभ्याम् अपि तिरस्कृतः सः स्वग्रामं पुनरागत्य एकाकी उषितवान् । रामः तु पुत्रपौत्रैः सह सगौरवं वार्धक्यं यापयति स्म । श्यामस्य अवस्थां ज्ञात्वा रामः अखिद्यत । मित्रं सान्त्वयितुं, तस्य साहाय्यं कर्तुं च सः एकस्मिन् दिने श्यामस्य गृहं गतवान् ।
मित्रं दृष्ट्वा श्यामः अवदत् - “मया दोषः कृतः । अहं धनेन जीवनं सार्थकं भवेत् इति चिन्तितवान् । परन्तु तत् अनृतम् इति आवयोः जीवनं दृष्ट्वा अवगतम् । सन्मार्गे गच्छन् नरः यथाशक्ति स्वल्पमेव साधयेत् अपि तत् बहु । दुष्टान् परितोषयित्वा, भ्रष्टाचारान् कृत्वा, अन्यान् पीडयित्वा महाकार्याणि कुर्याम चेदपि अन्ते कृतानां दुष्क्रियाणां फलानि अनुभवेम एव_।” मित्रस्य वचनैः अनुतापात् निवृत्तः रामः तृप्त्या गृहं गतवान् ।

अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं यत् स्वल्पमपि तद्बहु ॥


-- मैथिली वुटुकुरु

सङ्गणकेषु देवनागर्या कथं लिख्यते ?

विविधेषु प्रसङ्गेषु एषः प्रश्नः पृच्छ्यते अनेकैः । सङ्गणकेषु देवनागर्या लेखितुं अनेके तन्त्रांशाः (softwares) विद्यन्ते । तेषु केचन अत्र निरूप्यन्ते :
१. ITRANS नाम काचित् वर्णव्यवस्था निर्मिता अस्ति । बहवः तन्त्रांशाः एतां व्यवस्थाम् अनुसृत्य आङ्ग्लभाषायाः वर्णान् देवनागर्यां परिवर्तयन्ति । तेषु प्रायः प्रमुखः ॐकारानन्दाश्रमस्य Itranslator अस्ति । (http://www.omkarananda-ashram.org/sanskrit/itranslator2003.htm)
२. Baraha नाम तन्त्रांशेन अपि देवनागर्या लेखितुं शक्यते । एतस्य किञ्चित् भिन्ना वर्णव्यवस्था अस्ति । (http://www.baraha.com)
एतयोः द्वयोः वर्णव्यवस्थयोः सङ्ग्रहः अत्र अस्ति - http://www.speaksanskrit.org/other/transliteration.pdf
३. बहुषु O/S-तन्त्रांशेषु किमपि साधनम् उपलब्धम् एव भवति । अधिकविवरणार्थं पश्यताम् - http://en.wikipedia.org/wiki/Help:Multilingual_support_(Indic)

पदबन्धः - ३



वामतः दक्षिणम्


१) मधोः वंशे जातः कृष्णः सम्बोध्यताम् ।
३) कुबेरस्य राजधानी ।
४) एषा अस्ति सहोदरी
६) जरासन्धस्य राज्यम् ।
८) पर्वतस्य पुत्री पार्वती ।
९) एषः शब्दः सुलभः एव ।

उपरिष्टात् अधः


१) अनया माप्यते ।
२) विसर्गहीनः ईदृशः पतिः लभते ?
३) नीचः सम्बोध्यताम् ।
५) नीरे जाता कमलम् ।
७) पलाशाश्वत्थखदिराः - एते विपर्यस्ताः विद्यन्ते ।
८) अनिलस्य मित्रम् अग्निः ।

पदबन्धस्य साधु उत्तरं जुलै मासान्त्यात् पूर्वं येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।

‘पदबन्धः - २’ इत्यस्य साधूत्तर-प्रेषकौ -

१. मुकुन्दः (सिंगपोर्)
२. जि. एस्. एस्. मूर्तिः (बेङ्गळूरु)






'पदबन्धः-२' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) त्रियामा ३) रावणः ४) वीथिका ६) वरद ८) मेनका ९) जननी
उपरिष्टात् अधः -
१) त्रिकोणः २) मायावी ३) राघवः ५) काशिका ७) दनुज ८) मेदिनी

सुभाषितम्

साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः ।
तीर्थं फलति कालेन सद्यः साधुसमागमः ॥

पदविभागः - साधूनाम्, दर्शनम्, पुण्यम्, तीर्थभूताः, हि, साधवः, तीर्थम्, फलति, कालेन, सद्यः, साधुसमागमः ।

अन्वयः - साधूनां दर्शनं पुण्यं [यतः] साधवः तीर्थभूताः हि । तीर्थं फलति कालेन [परन्तु] साधुसमागमः फलति सद्यः ।

तात्पर्यम् - जनाः तीर्थयात्रां कृत्वा पुण्यं प्राप्नुवन्ति । तथैव सज्जनैः सह मिलित्वा पुण्यं प्राप्नुवन्ति । तीर्थस्य फलं नाम पुण्यं बहुकालानन्तरं वा अग्रिमजन्मनि वा एव प्राप्यते । सज्जनानां दर्शनेनैव पुण्यं सहसा लभ्यते । अतः सज्जनानां दर्शनं वरम् ।

प्रहेलिका

अद्य कः वासरः?

कश्चन पुरुषः - चिन्तयामः तस्य नाम सुधीरः इति । सः सप्ताहे एकस्मिन् दिने एव सत्यं वदति । अन्येषु षट्-दिनेषु असत्यं वदति । तस्य वाक्यत्रयं पश्यतु ।

परह्यः - अहं मङ्गलवासरे बुधवासरे च असत्यं वदामि ।
ह्यः - अद्य शुक्रवासरः वा भानुवासरः वा सोमवासरः वा अस्ति ।
अद्य - अहं गुरुवासरे शनिवासरे च असत्यं वदामि ।

सुधीरः कस्मिन् दिने सत्यं वदति ? अद्य कः वासरः ?

-- अरुणः शङ्करः

मुद्रिकारहस्यम्

(गते अङ्के)
घुण्डीराजः प्रस्तावं स्वीकृतवान् ।
चतुराक्षमाहूय चोक्तवान् - एतत्सर्वं नाधिगच्छामि । शकुन्तला सत्यं कथयति, अथवा राजानं पाशयितुं स्त्रीचरित्रं करोति । यद्येषा न मायां करोति तर्हि न जाने क इदं करोति । कदाचित् कण्व एव स्यात् । दुष्यन्तः शकुन्तलां किमर्थं न स्मरति । सत्यमेव स तां विस्मृतोऽथवा नाटयति । अपीयं सैव शकुन्तला यां स आश्रमे विवाहितवान् । अप्ययं स एव दुष्यन्तः ? यदि नायं स एव दुष्यन्तः, तर्हि कण्वाश्रमं गत्वास्याः कन्यायाः कौमार्यं भङ्क्त्वा को निवृत्तः ? किन्तु सोऽभिज्ञारूपेण मुद्रिकामपि तु दत्तवान् ! सा मुद्रिका कुत्रास्ति ? सम्भाव्यते शकुन्तलां दुष्यन्तस्य राजगृहं प्रस्थितं दृष्ट्वा स एव जनस्तां मुद्रिकामप्यपहृतवानिति । अस्माभिरियं समस्या सर्वप्रकारैश्चिन्तनीया भविष्यति । त्वं गच्छ, राजभवनाद्यथाकथञ्चिदपि ज्ञानं कुरु यदि कतिपयदिवसपूर्वं राजा कण्वाश्रमं गत आसीन्न वेति ।
राज्ञः सारथिश्चतुराक्षस्य परिचित आसीत् । तं सारथिमवलोक्य चतुराक्षोऽपृच्छत् - त्वं राजानं सदैव मृगयार्थं नयसि, कदाचिदृषीणामाश्रमानपि नयसि न वा ।
किमर्थमेवं पृच्छसि ।
केचित् साधवो गतदिवसे भषन्ते स्म यद्राजा मृगयाव्यसनी, न मुनीन् कदापि पश्यति ।
सर्वथा मिथ्यां भषन्ते ते । सिद्धयोगिनो मठे तु स पक्ष एकवारं गच्छत्येव ।
कुत्रायं मठः ?
कण्वाश्रमपथ्येव तु वर्तते । त्रिचतुर्मासपूर्वं राजा कण्वाश्रममपि गतवनासीत् । ऋषिस्तत्र नासीत् ।
कतिपयप्रहरांस्तत्र यापयित्वा स रात्रौ सिद्धयोगिनो मठे शयनमकरोत् । स आश्रमो राजानमत्यर्थमप्रीणात् । तत एव कालाद्राजा तमाश्रमं प्रायशो गच्छति । एते मुनयोऽसत्यं भषन्ते राजा न तान् पश्यतीति ।
दुष्टा एते साधव इत्युक्त्वा चतुराक्षः प्रस्थितः ।
यद्यपि राज्ञः कण्वाश्रमगमनं सिद्धमासीत्, तथापि घुण्डीराजः सूक्ष्मान्वेषणदृष्ट्या कण्वाश्रमं मध्याह्ने गतः । काश्चित् कन्याः स्मेराननाः परस्परं जल्पन्त्यो वृक्षान् सिञ्चन्ति स्म । वस्तुतस्त्वेताः कन्याः स्वभावप्रेरिताः यं कञ्चिदप्याश्रममागच्छन्तं पुरुषमवलोक्य वृक्षसिञ्चनव्याजेन कण्वमुनेर्दृष्टिमन्धीकृत्य सहजभावाननाटयन् । कञ्चित् कालं ताः कन्या मधुरं प्रेक्ष्य घुण्डीराजोऽपृच्छत् - हे सुन्दर्यः, अप्ययमेव कण्वाश्रमः ?
कस्यापरस्याश्रमोऽस्मिन् भीषणवने स्यात् - इति प्रियंवदोष्णं निःश्वस्य शास्त्रीयोपायैर्नयनबाणान् प्रक्षिपन्त्यब्रवीत्_। अहं घुण्डीराजः कण्वर्षिं द्रष्टुमागतः ।



हाय्, हाय्, भवान् घुण्डीराजः ! आः मृतास्मि । भवतो विषये बहु श्रुतम् । चलतु, तत्र लतागुल्मेषु विहरिष्यावः - इति घटमेकतः प्रक्षिप्य प्रियंवदा घुण्डीराजसमीपमागता ।
गन्धर्वविवाहाय इदानीं मम कालो नास्ति ।
यदि न गन्धर्वविवाहश्चेदपरः कश्चिद्विवाहविधिर्भवतु । किन्तु चलतु । भवान् राक्षसविधौ विश्वसिति न वा यत्र कन्येच्छामपृष्ट्वैव बलात् ...ऐँ...
नहि नहि, अहमत्रर्षिं द्रष्टुमागतः ।
यद्येवं तर्हि प्रतीक्षा करणीया भविष्यति । ऋषिर्बहिर्गतः ।
अयं तत्रभवान् ऋषिस्सदैवाश्रमाद्बहिरेव वसति । यदा दुष्यन्त आगतस्तदापि स बहिरेवासीत् ।
शकुन्तलायाः सौभाग्येन अन्यथा अयं वृद्धस्तु नास्मान् कञ्चिदपि द्रष्टुं ददाति ।
सौभाग्यमथवा दौर्भाग्यम् ? अपि न जानीषे दुष्यन्तः शकुन्तलामस्वीकृतवान् ?
अरे दुष्यन्तस्य पितापि स्वीकरिष्यति ताम् । शकुन्तला तं विधुविष्यति । कण्वाश्रमस्य कन्यास्ति, नायं विनोदविषयः । दुष्यन्तसदृशा बहव आगता गन्धर्वविवाहं कृत्वा तदस्वीकरणेच्छवः, किन्तु न कोऽपि मुक्तः । एकवारं कण्ठेऽवलम्बिता चेद्याव?वनं न त्यक्षति । दुष्यन्त आत्मानं किं मन्यते !
घुण्डीराजस्तासां मुखमालोक्याचिन्तयत् - पीतकौशेयवस्त्रकुण्डलादिधारिणीनामासामाश्रमसंवृद्धानां स्वस्थदेहानां कन्यानां मण्डलान्न कश्चित् पुरुष आत्मानं सुखं मोचयितुं प्रभवति ।
सहसैव कण्वर्षिमागच्छन्तमालोक्य कन्या इतो निलीनाः।


(अनुवर्तते)

परिसरप्रेमी


सृष्टिकार्यस्य षष्ठे दिने भगवान् मानवसृष्टिं कृत्वा - ‘यत् मया एतावत् पर्यन्तं सृष्टं तत्सर्वं भवतः उपयोगार्थमेव, गच्छतु, अनुभवतु’ इति अवदत् इति बाइबल्-ग्रन्थे लिखितम् अस्ति । प्रातःकाले उत्थाय “विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे” इति चिन्त्यमाणेभ्यः भारतीय-विचारेभ्यः एषः कियान् भिन्नः अस्ति इति चिन्तनं कदाचित् करोति मनः ।
यदा अहं कार्बेट् महोदयस्य कथां प्रथमवारं मम पितामहात् श्रुतवान् तदा एषः अपि भारतीय-विचारान् केवलं कुतूहलदृष्ट्या पश्यत्सु पाश्चात्त्येषु अन्यतमः इति मम चिन्तनम् आसीत् । वयं सर्वे भारते जिम् कार्बेट् राष्ट्रिय-उद्यानस्य (Jim Corbett National Park) विषयं श्रुतवन्तः । अस्मासु केचन तत्र गतवन्तः स्युः अपि । आङ्ग्लभाषीयः जिम् कार्बेट् जन्मनः भारतीयः । नैनीताल-प्रदेशे तस्य वर्धनम् अभवत् । बाल्ये एव सः प्रकृत्याम् अनुरक्तः । यदा सः द्वादश-वर्षीयः आसीत् तदा एव पक्षिणां मृगाणां च विषये तस्य महत् ज्ञानम् आसीत् । कुतूहली, धैर्यवान् च कार्बेट् बालकः सन् अपि दण्डकारण्ये एकाकी एव अहोरात्रं सञ्चरति स्म । तस्मिन् समये नरभक्षकाः व्याघ्राः कुमाऊँ प्रदेशे जनान् पीडयन्ति स्म । तेषां संहारार्थं कृतस्य कार्यस्य अनुभवाः कथारूपेण लिखितम् अस्ति कार्बेट्-महोदयेन । तासु कथासु रुद्रप्रयागस्य नरभक्षकस्य कथा विश्वप्रसिद्धा, बह्वीषु भाषासु अनूदिता च अस्ति । रुद्रप्रयागस्य नरभक्षकव्याघ्रः सम्पूर्णकुमाऊँ प्रदेशं अष्टवर्षाणि यावत् अपीडयत् । शताधिकजनाः हताः तेन । प्रतिदिनं तस्य व्याघ्रस्य वार्ताः जगतः प्रमुख-वार्तापत्रिकासु प्रकटिताः भवन्ति स्म । मृतेषु बहवः बदरीनाथ-केदारनाथ-तीर्थस्थले गच्छन्तः यात्रिकाः आसन् । स्वप्राणान् अगणयन् कार्बेट् व्याघ्रं हन्तुं त्रिवारं प्रयत्नं कृतवान् । अन्ते १९२६ वर्षे सः सफलः अभवत् ।
परन्तु केवलं पीडानिवारणार्थं मृगया करणीया इति तस्य अभिमतम् आसीत् । जीवनस्य परार्धे सः गोलिकास्त्रं (gun) त्यक्त्वा चित्रग्राहकयन्त्रम् उपयुज्य मृगयां कर्तुम् आरब्धवान् । जीवनपर्यन्तं सः तत्रत्यानां जनानां जीवनपरिवर्तनार्थं प्रकृति-संरक्षणार्थं च प्रयत्नं कृतवान् । तस्य मरणादनन्तरमपि बहुकालपर्यन्तं तत्रत्याः जनाः कार्बेट् आगत्य तेषां कष्टनिवारणं करोति इति चिन्तयन्ति स्म । इदानीमपि कार्बेट् महोदयेन लिखितानि पुस्तकानि जनेषु प्रकृति-प्रेम जनयन्ति । कथम् अस्माभिः कृतैः दोषैः व्याघ्राः नरभक्षकाः भवन्ति इति तेषु पुस्तकेषु सः रमणीयशैल्या विवृणोति । भारतीय-आचारविचारेषु ज्ञानं गौरवं च दृश्येते तेन लिखितेषु पुस्तकेषु । तस्य स्मारकरूपेण १९५४ संवत्सरे भारतीयसर्वकारेण तदा उत्तरप्रदेशे स्थिताय अरण्याय जिम् कार्बेट् राष्ट्रिय-उद्यानम् इति नाम दत्तम् ।
लोके साहसिनः सन्ति बहवः । कल्पनासामर्थ्येन रोमाञ्चकारिणीं कथां लेखितुं समर्थाः लेखकाः अपि सन्ति । परन्तु साहसिनः तथा मनोरञ्जक-लेखकाः जनाः विरलाः । जिम् कार्बेट् तेषु एकः ।


--सिन्धूरः गणपतिः

नरेन्द्रात् विवेकानन्दः

(गते अङ्के)
सत्यान्वेषणाय नरेन्द्रः श्रीरामकृष्ण-परमहंसेन सह मेलितुं दक्षिणेश्वरग्रामं गतवान् । श्रीरामकृष्णः कोऽपि वृद्धः महासंन्यासी भवेत् इति चिन्तयन् कुतूहलेन रामकृष्णस्य गृहं प्राप्तवान् सः । किन्तु तत्र तु कालीकीर्तनानि शृण्वन् उन्मत्तः इव नृत्यन् एकः सामान्यः पुरुषः एव दृष्टः । “एषः वा तत्त्वज्ञानी?” इति नरेन्द्रः आश्चर्येण चिन्तितवान् । तस्य पुरुषस्य समीपं गत्वा “श्रीमन्, भवता भगवद्दर्शनं प्राप्तं किम्?” इति विनयेन पृष्टवान् नरेन्द्रः । श्रीरामकृष्णः झटिति प्रत्युत्तरं दत्तवान् । “आं वत्स । मया भगवद्दर्शनं प्राप्तम् । यथा अहं भवन्तम् इदानीं पश्यन् अस्मि ततोऽपि अधिकया स्पष्टतया भगवन्तं पश्यामि । सर्वे भगवन्तं द्रष्टुं शक्नुवन्ति । तेन सह वक्तुम् अपि शक्नुवन्ति । किन्तु भगवतः विचारं कः वा करोति? सर्वे पत्नी पुत्राः धनम् इत्यादीनां कृते बहूनि अश्रूणि स्रावयन्ति किन्तु भगवतः विषये कस्य वा चिन्तनम् ? यदि भगवद्दर्शनं प्राप्तुं कोऽपि रोदिति निश्चयेन तत् प्राप्स्यते” इति अतीवस्पष्टतया उक्तवान् रामकृष्णः । एतं वृत्तान्तं श्रुत्वा नरेन्द्रः चकितः अभवत् । ततः पूर्वम् एवं विश्वासेन वदन्तं कमपि सः नैव दृष्टवान् आसीत् । गम्यं प्राप्तम् ।

कालेन नरेन्द्रः रामकृष्णस्य अत्युत्तमः शिष्यः अभवत् । किन्तु तत्पूर्वं सः रामकृष्णस्य चरित्रम् अतीव-सूक्ष्मतया परीक्षते स्म । यथा सः बाल्यात् परिशीलनं विना कस्मिन्नपि विषये विश्वासं न करोति स्म तथैव रामकृष्णस्य चरित्रं बोधनानि चापि परिशील्य एव तं गुरुरिति अङ्गीकृतवान् । रामकृष्णः परमहंसः संन्यासी च । तस्य मनः वैराग्यभरितम् । “मम धनाय काचिदपि न प्रीतिः । अपि तु धनस्य अथवा लोहस्य स्पर्शेनापि मम शरीरे काचित् असहनीया प्रतिक्रिया भवति” इति रामकृष्णेन एकदा उक्तम् । एतत् वस्तुतया सत्यम् उत न इति नरेन्द्रः कथं वा जानीयात् ? एकः उपायः तस्य मनसि आगतः । यदा रामकृष्णः अन्यत्र आसीत् तदा तस्य मञ्चे एकं नाणकं नरेन्द्रः गोपितवान् । एतत् अज्ञात्वा रामकृष्णः मञ्चे उपविष्टवान् । झटिति तस्य शरीरं शिला इव शीनम् अभवत् । नरेन्द्रस्य श? भग्ना जाता । यद्यपि रामकृष्णः बाधितः तथापि सः न कुपितः । सः इच्छति स्म तस्य शिष्याः तं परीक्षेरन् इति ।
किन्तु तत्र न केवलं शिष्येण गुरोः परीक्षा अपि तु गुरुणा छात्रस्य परिशीलनम् अपि प्रचलति स्म । कदाचित् रामकृष्णः नरेन्द्रं पृष्टवान् “वत्स! भवतः श्रद्धानिष्ठाप्रगतीः दृष्ट्वा अतीवप्रसन्नः अभवम् । भवते काश्चित् योगशक्तीः ददामि । ताः उपयुज्य इह यत् इच्छति तत् प्राप्नोति । स्वीकरोति वा?” इति । “ताभिः शक्तिभिः मोक्षः प्राप्स्यते किम्?” इति पृष्टवान् नरेन्द्रः । रामकृष्णः अवदत् यत् “नैव । किन्तु मोक्षं विहाय सर्वं लभते” । “तर्हि मह्यं शक्तयः नैव आवश्यक्यः” इति स्फुटीकृतवान् नरेन्द्रः । शिष्यस्य एतेन उत्तरेण अतीव-आनन्दितः गुरुः । योगशक्तिं त्यक्त्वा मोक्षमार्गे चलनं महायोगिनः लक्षणम् ।
गुरुशिष्ययोः सम्बन्धः बहुप्रेमपूर्णः आसीत् । विचित्रः अपि । रामकृष्णः अनक्षरः ग्रामीणः सरलमनाः च । नरेन्द्रः तु अनेकविद्याशिक्षितः नागरिकः तर्कप्रेमी च । यद्यपि नरेन्द्रः शिष्येषु श्रेष्ठः तथापि सः अतिकठिनः अपि ! किन्तु कालेन सः गुरोः चरणयोः संपूर्णतया शरणं याचितवान् । क्रमशः अनेकान् आध्यात्मिकानुभवान् प्राप्तवान् च । गुरोः सन्निधौ शिष्यस्य आध्यात्मिकविकासः प्रवृद्धः जातः । “वत्स! जीवनस्य लक्ष्यं मोक्षः एव । किन्तु ततोऽपि श्रेष्ठा गतिः अस्ति यत् सर्वेषु जीवेषु भगवान् निवसति इति ज्ञानम् । जीवः शिवः इति भावयन् सर्वेषां सेवा करणीया । स एव वेदान्तसारः” इति प्रियशिष्यं नरेन्द्रं शिक्षितवान् सद्गुरुः परमहंसः रामकृष्णः । नरेन्द्रस्य सेवाभावः अभिवृद्धः । भविष्यति तस्यापि एषा एव मुख्यसूक्तिः ।


किन्तु १८८४ वर्षे नरेन्द्रस्य पिता दिवङ्गतः । परिवारस्य संरक्षणं नरेन्द्रस्य दायित्वम् अभवत् । कुटुम्बस्य पोषणे अनेकान् कष्टान् अनुभूतवान् । संसारे ईदृशानि दुःखानि भवन्ति इति सः न जानाति स्म । दैवीकृपया गुरोः आधारेण च कथमपि कुटुम्बपोषणं कृतवान् । किन्तु तस्य मनः संन्यासम् अन्विच्छति स्म । परिवारस्य परिरक्षणार्थं व्यवस्थां कृत्वा गुरोः सन्निधौ अन्यशिष्यैः सह संन्यासं स्वीकृतवान् । १८८६ संवत्सरे रामकृष्णः अपि दिव?तः । तत्पूर्वम् अनौपचारिकरूपेण नरेन्द्रस्य नेतृत्वे शिष्याणाम् एकः स?ः रामकृष्णेन एव रचितः । भविष्यति रामकृष्णमठस्य आधारः अयं स?ः एव प्रायः । गुरुरामकृष्णेन ज्वालितेन वैराग्याग्निना सर्वे शिष्याः कोल्कता-नगरे बारानगरप्रदेशे एकस्मिन् अतीवपुरातने भवने निवसन्ति स्म । तत्रैव तेषाम् आश्रमः । ततः पारिव्रजकरूपेण इतस्ततः युवसंन्यासिनः देशसञ्चारं कुर्वन्ति स्म । नरेन्द्रः अपि लोकसञ्चारनिमित्तम् आरब्धवान् । अनेकानि पुण्यस्थानानि अभिगतवान् । बहून् ग्रामान् दृष्टवान् । अनेकैः पण्डितैः राजभिः सामन्यजनैः सह च मिलितवान् । प्रवासे कदापि विवेकानन्दः इति नाम तेन स्वीकृतम् । काश्मीरतः कन्याकुमारीपर्यन्तं विवेकानन्दस्य यात्रा । अधिकतया पादचालनेन एव तस्य विहारः । अनेके जनाः तस्य अनुचराः अभवन् । वर्षत्रयस्य परिक्रमे भारतस्य पुरातन-संस्कृतिं दृष्टवान् । संस्कृतेः पराभवः अपि तेन दृष्टः । मुख्यतया जनानां दुःस्थितिं, ततोऽपि अधिकतया सामान्यजनान् प्रति समाजस्य धनिकानां शिक्षितानां युवकानाञ्च औदासीन्यं दृष्ट्वा विवेकानन्दः अतीव दुःखितः अभवत् । यत्र यत्र गच्छति स्म तत्र तत्र पुण्यभारतीयसंस्कृतेः ग्लानिरेव दृष्टा । एकत्र पाश्चात्त्यपद्धत्या शिक्षितयुवकानां भारतं प्रति अवाख्या । अन्यत्र लघुचेतसां पण्डितानां प्रजापीडनम् । जातिकुलभेदैः समाजस्य क्षयः । सर्वत्र तमः व्याप्तम् । विवेकानन्दस्य अपारदयास्वभावेन भारतस्य एतस्याः दीनस्थितेः परिहारस्य अन्वेषणम् आरब्धम् । अन्धकारे निम?तस्य भारतस्य सनातनधर्मस्य च पुनर्निर्माणं कथं भवेत् इत्येव तस्य निरन्तरचिन्तनम् । जनाः अभिवर्धनं कथं वा प्राप्नुयुः ? एवं चिन्तने निमग्नः विवेकानन्दः कन्याकुमारीं प्राप्तवान् । हिन्दुमहासमुद्रे एका शिला तेन दृष्टा । यावत्भारतस्य दक्षिणतमा शिला सा । सागरे तरित्वा शिलाम् आरुह्य भरतखण्डम् अभिमुखं कृत्वा उपविष्टवान् । तेन प्रवासे यत् यत् अनुभूतं तत् सर्वं स्मृतवान् । जनानां दुःस्थितिः धर्मस्य पराभवः सहृदयस्य अभावः इत्यादयः सर्वाः चिन्ताः तम् अबाधन्त । सः तीव्रध्याने निमग्नः अभवत् । भारतस्य संपूर्णचरित्रं भविष्यमार्गं च स्पष्टम् आलोचितवान् । समस्यानां परिहारः स्फुटः दृष्टः । भारतस्य दुःस्थितेः कारणं धर्मः न परन्तु धर्मस्य अभावः जनानाम् अविद्या च । पुनः सर्वे धार्मिकाः विद्यापूर्णाः सेवाभाविकाः च भवन्तु । तत्रैव समस्यायाः विमोचनम् । “जीवः शिवः” इति गुरुसूक्तेः अनुचरणेन एव सनातनधर्मस्य अभिवृद्धिः । सर्वे त्यागचेतसा जीवानां सेवां कुर्वन्तु । एतादृशानि चिन्तनानि विवेकानन्दस्य मनसि उद्भूतानि । किन्तु तेषां प्रचारः कथं वा करणीयः ? सः तु समाजे अनामिकः अपरिचितः संन्यासी । तस्य अनुचराः अपि युवकाः । ते प्रचारं कुर्वन्ति चेदपि के तान् श्रोतुम् इच्छन्ति? एकः उपायः तेन चिन्तितः “एतस्मिन् वर्षे अमेरिका-देशे ‘parliament of religions’ इति एकं बृहत् सम्मेलनं भविष्यति । यदि तत्र हिन्दुधर्मस्य प्रतिनिधिरिव गत्वा साफल्यं लभेय तर्हि तस्य प्रभावः भारते निश्चयेन दृश्यते ।” एवं चिन्तयन् अनुचराणां साहाय्येन अमेरिका-देशं प्रति मई ३१ १८९३ दिने यात्राम् आरब्धवान् । तत्र किम् अभवत् सर्वे जानन्ति एव । तां कथाम् अग्रिमा? पश्यामः ।

(अनुवर्तते)


--हरिः चन्दन् मन्त्रिप्रगड

प्रहेलिकायाः उत्तरम्

१) चिन्तयतु वाक्यत्रयमपि असत्यम् इति । परह्यः उक्तं वाक्यम् असत्यं चेत् सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । तथा एव अद्यतनं वाक्यम् असत्यं चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । परन्तु सः एकस्मिन् दिने एव सत्यं वदति । अतः द्वयमपि असत्यं न ।
निगमनम् (conclusion) - १ ---> प्रथम-तृतीयवाक्ययोः एकं सत्यम् एकम् असत्यम् ।

२) प्रथमम् अथवा तृतीयं वाक्यं सत्यम् अस्ति ।
अतः निगमनम् २ - द्वितीयवाक्यं निश्चयेन असत्यम् अस्ति - ह्यः शुक्रवासरः वा भानुवासरः वा सोमवासरः वा नास्ति ।

३) चिन्तयतु परह्यः सत्यम् उक्तं सुधीरेण इति । तर्हि अद्य उक्तं वाक्यम् असत्यम् । तथा चेत् तेन गुरुवासरे वा शनिवासरे वा सत्यं वक्तव्यम् । यतः तेन परह्यः सत्यम् उक्तं, परह्यः गुरुवासरः वा शनिवासरः वा अस्ति । तर्हि ह्यः शुक्रवासरः वा भानुवासरः वा अस्ति । परन्तु निगमनम् २ अनुसृत्य तत् अशक्यम् । अतः "प्रथमवाक्यं सत्यम्" इति अस्माकं चिन्तनं सम्यक् नास्ति ।
अतः निगमनम् ३ - प्रथमवाक्यं सत्यं नास्ति । अतः निगमनम् १ अनुसृत्य तृतीयवाक्यं सत्यम् अस्ति ।

४) तृतीयवाक्यं सत्यं चेत् प्रथमं वाक्यम् असत्यम् । तर्हि सुधीरेण मङ्गलवासरे वा बुधवासरे वा सत्यं वक्तव्यम् । अतः अद्य मङ्गलवासरः वा बुधवासरः वा अस्ति । यदि अद्य म?लवासरः अस्ति तर्हि ह्यः सोमवासरः । परन्तु निगमनम् २ अनुसृत्य तथा भवितुं न अर्हति ।
निगमनम् ४ - अतः अद्य बुधवासरः अस्ति । परह्यः सोमवासरः अस्ति । ह्यः मङ्गलवासरः अस्ति ।

चातुर्मास्यकथा

पुरासीत् ग्रेगोरीनाम क्रैस्तानां गुरुसत्तमः ।
पञ्चा? येन रचितः सर्वत्राद्योपयुज्यते ॥१॥

वर्षान्ते तस्य पञ्चा? त्वस्ति मासचतुष्टयम् ।
नाम्नां तेषां तु मासानां उद्भवस्य कथां श्रुणु ॥२॥

रचयित्वा स पञ्चाङ्गं सौरमानं पुरातनम् ।
ग्रेगोरी गुरुवर्योऽसौ चिन्तामग्नोऽभवत्ततः ॥३॥

"वर्षस्य द्वादशा मासाः ते सन्त्यद्याप्यनामिकाः ।
समीचीनानि नामानि तेषां दद्यामहं कथम्" ॥४॥

चिन्तामग्नं गुरुं दृष्ट्वा शिष्यश्रेष्ठोऽवदद्वचः ।
"एतस्य सुलभो मार्गः इदानीं दृश्यते मया ॥५॥

भवतो यद्यनुज्ञाऽस्ति तं मार्गं दर्शयाम्यहम्" ।
ततस्स गुरुणाऽऽज्ञप्तः शिष्यस्तमिदमब्रवीत् ॥६॥

"जगतस्सर्वदेशेभ्यः ज्योतिश्शास्त्रविशारदान् ।
वाग्विदश्च समाहूय समुदायो विधीयताम् ॥७॥

ये प्रदास्यन्ति मासेभ्यः सूक्तान्यप्युत्तमानि च ।
नामानि तेषां दीयन्तां विशेषाः पारितोषकाः" ॥८॥

एतच्छ्रुत्वा गुरुः प्रीतः तथैवास्त्वित्युवाच सः ।
सन्देशानथ पप्रेषुः तच्छिष्याः सर्वदिक्षु च ॥९॥

"मासनामान्वेषणार्थं समुदायो भवेदिह ।
सुनामजनकेभ्यस्तु पारितोषः प्रदीयते ॥१०॥

आयान्तु रोमनगरं ज्योतिर्वाक्शास्त्रकोविदाः ।
यत्र पञ्चा?सम्बन्धी समुदायो भविष्यति" ॥११॥

एतत्स?षणं श्रुत्वा विदुषस्सर्वदेशजाः ।
प्रययू रोमनगरं पारितोषककाङ्क्षिणः ॥१२॥

तथैव भारते जाताः दाक्षिणात्या बहुश्रुताः ।
रामपुर्या रोमपुरीं जग्मुस्तीर्त्वा महोदधिम् ॥१३॥

तेषां मध्ये महानासीत् रङ्गाचार्य इति श्रुतः ।
विदुषां भारतीयानां नेतृत्वे च प्रतिष्ठितः ॥१४॥

उद्घाटनसमारम्भम् अभूत्तत्र विजृम्भितम् ।
सम्मेलनं समुद्दिश्य ग्रेगोरीगुरुरब्रवीत् ॥१५॥

"भवन्तः पण्डितास्सर्वे नानादिग्भ्यस्समागताः ।
स्वीकुर्वन्तु ममातिथ्यं वसन्त्वत्र सुखेन हि ॥१६॥

अस्य मासस्य नामास्ति चक्रवर्तेरगस्टसः ।
अन्यमासाभिधानानि रचयन्त्विह पण्डिताः ॥१७॥

एकं संवत्सरं त्वस्मिन् वसन्तः पुटभेदने ।
मासे मासे सम्मिलित्वाऽन्वर्थनाम प्रदीयताम्" ॥१८॥

ताः श्रुत्वा ग्रेगोरेर्वाचः विदुषस्तु ननन्दिरे ।
तेभ्यस्तेभ्यस्तेन दत्तान् निवासान् प्रययुस्ततः ॥१९॥

भारतीयाश्च विद्वांसो मासमागस्त्यनामकं ।
ततस्संस्मृत्य संस्मृत्य समहृष्यन् मुहुर्मुहुः ॥२०॥

ततो द्वितीयमासान्ते पुनस्सम्मिलिता जनाः ।
अन्वर्थनाम त्वेतस्य किं भवेदिति चिन्तिताः ॥२१॥

र?चार्यस्ततोत्थाय पण्डितांस्तानुवाच ह ।
"दुस्सहं शैत्यमद्यास्ति मया षड्वस्त्रधारिणा ॥२२॥

सोढुं शक्नोमि तच्छैत्यं यद्यहं सप्तवस्त्रधृत् ।
तस्मात् सप्तांबरं नाम मासायास्मै प्रदीयताम्"॥२३॥

श्रुत्वेदं पण्डितास्सर्वे साधुसाध्विति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै पारितोषकमुत्तमं ॥२४॥

तत आगतमासे तु वायौ पवति शीतले ।
सर्ववृक्षेषु पर्णानि हरिद्वर्णं तु तत्यजुः ॥२५॥

पीतवर्णानि रक्तानि रक्तपीतानि वै बभुः ।
तन्मासस्यान्तकाले च पुनर्मिलितपण्डिताः ॥२६॥

केन नाम्ना तु मासोऽयं अन्वर्थेनाभिधीयते ।
इति चिन्तानिमग्नास्ते वदन्ति स्म परस्परम् ॥२७॥

रङ्गाचार्यो महाविद्वान् पुनरागतवान् भृशम् ।
मासोऽयं शीतलतरः गतसप्ताम्बरादपि ॥२८॥

सप्तवस्त्रधरस्सोढुं न शक्नोमि महाजनाः ।
सोढुं शक्नोमि तच्छैत्यं यद्यहं त्वष्टवस्त्रधृत् ॥२९॥

तस्मादष्टाम्बरं नाम मासायास्मै प्रदीयताम् ।
इति बुद्धिमतो वाक्यं श्रुत्वा पण्डितपु?वाः ॥३०॥

करताडनमार्गेणाश्लाघयंस्तं पुनः पुनः ।
ग्रेगोरी चापि सुप्रीतः प्रददौ पारितोषकम् ॥३१॥

तत आगतमासे तु प्रबलेन च वायुना ।
शुष्कानि पेतुः पर्णानि वृक्षांस्त्यक्त्वा ततो भुवि ॥३२॥

अन्ते तस्य च मासस्य मिलिता घनपण्डिताः ।
किं नामास्य तु दातव्यं इत्याहुस्ते परस्परम् ॥३३॥

पुनरायान्महाविद्वान् रङ्गाचार्यो जगाद च ।
एतेन वायुना शैत्यं प्रबलेनाधिकीकृतम् ॥३४॥

अष्टवस्त्रधृतेनापि न शक्यं सोढुमीदृशम् ।
तस्मान्नवमवस्त्रेणावृतो भूत्वा सहाम्यहम् ॥३५॥

नवाम्बरं हि नामास्य मासस्येत्येव मे मतम् ।
सर्वे निशम्य तद्वाक्यं चक्रुश्च करताडनम् ॥३६॥

समीचीनं तदन्वर्थं साधूक्तमिति तेऽब्रुवन् ।
ग्रेगोरी च ददौ तस्मै तृतीयं पारितोषकम् ॥३७॥

तत आगतमासे तु संयुते दीर्घरात्रिभिः ।
वृक्षास्सर्वे रिक्तपर्णाः तस्थुस्ते विगतौजसः ॥३८॥

हिमावृता बभौ भूमिः श्वेताम्बरधरोपमा ।
सदा हरिद्भिः पर्णैश्च तोरणैश्चाप्यल?ताः ॥३९॥

बभुर्दीपावलीभिश्च रोमपुर्यास्सुवीथयः ।
क्रिस्तजन्मसमारम्भोत्सुक्तगाननिनादिताः ॥४०॥

सम्मेलनं पण्डितानां वैशिष्ट्येन ततोऽभवत् ।
ल्याटिन् मन्त्रैस्सुघोषस्तत् ग्रेगोरी ह्युदघाटयत् ॥४१॥

सभामुद्दिश्य पप्रच्छ "सन्ति के ह्यत्र पण्डिताः ।
ये शुभायास्य मासस्य नाम दातुं समुद्यताः?" ॥४२॥

त्रीणि नामानि मासानां श्रुतवन्तो हि पण्डिताः ।
नेत्राणि चालयामासुः रङ्गाचार्यमुखं प्रति ॥४३॥

र?चार्य एव ततः उत्थाय पुनरब्रवीत् ।
"नेत्रयोर्मधुरं दृश्यं हिमं श्वेताम्बरोपमम् ॥४४॥

पुरा मया नैव दृष्टं एतावन्मम जीवने ।
परन्त्वशक्यं सोढुं तत् शैत्यं वस्त्रैर्नवैरपि ॥४५॥

यदा धरामि दशमं सोढुं शक्तो भवाम्यहम् ।
तस्मात् दशाम्बरं नाम मासस्यास्य प्रदीयताम्" ॥४६॥

र?चार्यस्त्वेवमुक्त्वा ततस्तूष्णीं बहूव ह ।
पण्डिता उथ्थितास्सर्वे चक्रुस्ते करताडनम् ॥४७॥

विद्वन्मणिं तं ग्रेगोरी त्वभिनन्द्य पुनः पुनः ।
"नाम्नां चतुष्टयं दत्वा महत्कार्यं कृतो भवान् ॥४८॥

एवं हि सर्वमासानां नामान्यपि ददातु भोः" ।
र?चार्यस्तु तच्छ्रुत्वा ग्रेगोरीं पुनरब्रवीत् ॥४९॥

"अत्र स्थातुं न शक्नोमि पुर्यसौ अतिशीतला ।
भारतं प्रतियास्यामि यद्यनुज्ञा प्रदीयते ॥५०॥

मासस्तु शीतलतरः शीघ्रमेवागमिष्यति ।
जनवीरा हि ये शक्ताः सोढुं शैत्यमितःपरम्" ॥५१॥

सप्ताम्बराष्टाम्बरमासनामनी
रङ्गार्यदत्तेऽद्य जगत्प्रसिद्धे ।
नवाम्बरं चापि दशाम्बरं च
स्थास्यन्ति यावद्गिरयश्च नद्यः ॥५२॥



टिप्पण्यः

यथा भारतसञ्जातः शेषप्पय्यर् इति श्रुतः ।
एवान्नदीतटस्थां तु स्ट्राट्फ़ड्‌र्नाम्नीं पुरीम् गतः ॥

महाकविस्ततो भूत्वा नानानाटककारकः ।
स्वीकृत्य षेक्स्‌पियर्‌नाम विश्वे ख्यातिमवाप ह ॥

यथा जिगण्यां सञ्जातः चक्रपाणिसुनामकः ।
यौवने भारतं त्यक्त्वा गत्वा चामेरिकां ततः ॥

विख्यातां आपणश्रेणिं "जेसी पेन्नी" इति श्रुताम् ।
स्थापयित्वा च सर्वत्र धनवान् सम्बभूव ह ॥

तथैव र?चार्यश्च गत्वा रोमपुरीं पुरा ।
ग्रेगोरेस्समुदाये सः मासनामानि दत्तवान् ॥

सप्ताम्बरः कथं भवति?
इत्यादयः प्रश्नाः भवन्ति चेत् ...

कौपीनं अन्तर्युतकं युतकं चोरुकं तथा ।
पादस्यूतौ प्रावरकं धृत्वा सप्ताम्बरो भवेत् ॥

एवं सप्ताम्बरो भूत्वा कण्ठावरणमप्यतः ।
धरन् शैत्यं यस्सहति स त्वष्टाम्बर उच्यते ॥

एवमष्टाम्बरो भूत्वा शिरस्त्राणं धरन्नरः ।
शैत्यं यतति यस्सोढुं स नवाम्बर उच्यते ॥

एवं नवाम्बरो भूत्वा शैत्यं सोढुं न शक्नुवन् ।
प्रप्रावरकधारी तु दशाम्बर इति स्मृतः ॥

-- हम्. क. रामप्रियन्

सूक्तिः

संस्कृतवाङ्मये सुभाषितस्थलम् अनिवार्यम् । सर्वैः संस्कृतपरिचितैः कानिचन श्रुतानि एव । किन्तु, सामान्य-व्यवहार-समये सुभाषितं श्रुतिपथे न आयाति । सुभाषितम् उक्तं चेदपि तस्य विवरणम् आवश्यकं स्यात् । हास्यसमये एवं न अपेक्षितम् । अतः सुभाषितस्य बीजमात्रं (श्लोकस्य अर्धं पादं वा) पर्याप्तं स्यात् ,यथा -- सत्यमेव जयते, वसुधैवकुटुम्बकम् । सूक्तिः इति कथ्यते । हास्यसन्दर्भे उदाहरणं पश्यामः --
एकस्मिन् कुटुम्बे सहोदर्यौ नलिनी शालिनी च । नलिनी तु जन्मनः अतिसुन्दरी, विशालाक्षी, सुमध्यमा । बाल्येऽपि स्वसा शालिनी गुणवती, किन्तु न तथा रम्या । कुटुम्ब-मित्रं किञ्चन विदेशं गतम् । तस्य द्वौ पुत्रौ सुरेशः राजेशः च । सर्वैः प्राप्ते यौवने सति, पुनः सर्वेषां परिचयः जातः ।
सुरेशः तु शालिन्यां विस्मितः । सः भ्रातरं वदति -- प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- इति । सद्यः, अन्या सामान्या युवती पार्श्वे गता, सुरेशस्य दृष्टिः अपि तत्र अनुगता । तदा ज्येष्ठेन राजेशेन उक्तम् -- सत्यं, सर्वमपि तव षोडशवर्षीय-मनसि...प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् ।

गर्दभी -- स्त्री गर्दभः, कुरूपी इत्यर्थः ।
अप्सरा -- दिव्य-स्त्री, अतिसुन्दरी इत्यर्थः।
प्राप्ते तु षोडशे वर्षे गर्दभी ह्यप्सरा भवेत् -- काऽपि कुरूपी, युवती भूत्वा, अतिसुन्दरी स्यात् इत्यर्थः ।

--अजितः कृष्णन्