Saturday, July 28, 2007

रामेश्वरेऽर्जुनगर्वभङ्गम्

स्वभक्तानां कपीनांश्च तारणाय महार्णवे ।
सेतुबन्धनसन्नद्धं राघवं तन्नमाम्यहम् ॥ १ ॥

राममेवंविधा ध्यायन् रामं मनसि चिन्तयन् ।
सूर्ये चास्तमये प्राप रामेश्वरमथार्जुनः ॥ २ ॥

रामेश्वरं तथा नत्वा जगामासौ धनुर्धरः ।
रामेनैवाश्रितं स्थानं तीरं रत्नाकरस्य च ॥ ३ ॥

अपश्यत्तत्र सेतुं तन्निर्मितं वानरादिभिः ।
तन्निर्माणकथां ध्यायन्नवदत्स महारथी ॥ ४ ॥

धनुर्विद्यासमर्थेन राघवेन महात्मना ।
शक्यस्स्यान्ननु निर्मातुं सेतुरेष शरैरपि ॥ ५ ॥

स्वयं कोदण्डपाणिश्च साहाय्यं सेतुबन्धने ।
वानराणां मृगाणां च किमर्थं सोऽप्ययाचत ॥ ६ ॥

कार्येऽस्मिन् फलतामाप्तुं शक्तस्स्यामहमेव हि ।
एतच्छ्रुत्वा वचस्तस्य समीपस्थः कपीश्वरः ॥ ७ ॥

अपृच्छदर्जुनं वीरं धनुर्धर भवान् तु कः ।
समर्थं वेत्ति चात्मानं दुष्करस्यास्य साधने ॥ ८ ॥

पाण्डुपुत्रः पृथासूनुः द्रोणशिष्योऽहमर्जुनः ।
इत्यवदत्स गाण्डीवी महागर्वसमन्वितः ॥ ९ ॥

असाध्यं खलु कार्यं तच्छताधिकजनैरपि ।
वानरैश्च सहस्रैश्च मृगवृन्दैश्च निर्मितम् ॥ १० ॥

अशक्यं भवताप्येतदिति प्राह स वानरः ।
श्रुत्वेदं वचनं पार्थो वानरं पुनरब्रवीत् ॥ ११ ॥

परन्त्वहमसामान्य इन्द्रेणाप्यपराजितः ।
अवश्यं साधयिष्यामि कार्यमेतत्तु वानर ॥ १२ ॥

इत्युक्त्वा तु तदा पार्थो रतोऽभूत्सेतुबन्धने ।
सेतुर्योजनपर्यन्तं क्षणेष्वेव हि निर्मितः ॥ १३ ॥

आश्चर्येण तु तद्दृष्ट्वा तिष्ठत्वित्याह वानरः ।
परीक्षेऽहमिमं सेतुं भारं वहति किं मम ॥ १४ ॥

स्पर्शेन कपिपादस्य भग्नोऽभूत्सव्यसाचिना ।
रचितश्शरसेतुश्च चकितोऽभूत्स पाण्डवः ॥ १५ ॥

रचयामि पुनस्तर्हि क्षणमेकं हि तिष्ठ भोः ।
इत्युक्त्वा तु पुनर्यत्नमकरोदर्जुनस्तदा ॥ १६ ॥

रचितस्तेन सेतुश्च कपिभग्नो पुनःपुनः ।
बहुधाप्येवमेवाभूज्जगादान्ते तमर्जुनः ॥ १७ ॥

न शक्नोमि शरैस्सेतुं निर्मातुं वानराधिप ।
प्राणान् महोदधावस्मिन्नहङ्कारी त्यजाम्यहम् ॥ १८ ॥

प्राणत्यागाय सन्नद्धमर्जुनं वानरोऽब्रवीत् ।
लभसे किमनेन त्वं तिष्ठ हे पुरुषर्षभ ॥ १९ ॥

अहङ्कारविमुक्तस्त्वमीश्वरं राममाश्रय ।
सर्वाणि तव कार्याणि साधयिष्यस्यनेन हि ॥ २० ॥

किं वा साध्यं बलिष्ठेन रामस्यानुग्रहं विना ।
किं वाऽसाध्यं मृगैश्चापि राघवानुग्रहे सति ॥ २१ ॥

भवता सत्यमुक्तं वै मदान्धेन मया कथम् ।
रामेणाशक्यमित्येतत् कार्यमस्तीति चिन्तितम् ॥ २२ ॥

नौम्यहं राघवं राममशक्याद्भुतसाधकम् ।
यस्यापि नाममात्रेण शिला तरति सागरे ॥ २३ ॥

महात्मन्ननुगृह्णातु दासोऽहं भवतस्सदा ।
दण्डवत्प्राणमत्पार्थ उक्त्वैवं वानरं तदा ॥ २४ ॥

सोऽब्रवीन्मन्दहासेन पार्थाजेयस्सदा भव ।
तुष्टोऽहं तव वीर्येणोत्तिष्ठ हे भरतर्षभ ॥ २५ ॥

पताकस्थो भविष्यामि हनूमानहमेव हि ।
कपिध्वजेति प्रख्यातं पामि त्वां सर्वदा युधि ॥ २६ ॥

पार्थस्य गर्वभङ्गं तु कृतमेवं हनूमता ।
अहङ्कारविमुक्तिं नस्सोऽनुगृह्णातु सर्वदा ॥ २७ ॥

(परिष्कृतवद्भ्यां प्रोत्साहञ्च दत्तवद्भ्यां रामप्रियधनञ्जयाभ्यां धन्यवादाः ।)

- अविनाशः

2 comments:

Karthik Raman said...

अति उत्तमम्. ऎतत् कस्मिन् पुराणॆ भवति?

अविनाशः said...

नमांसि ।
पूर्वं महाभारते कुत्रचित् श्रुता कथा एषा ।