Sunday, December 2, 2007

विकटकविः

पूर्वं भारतदेशे आन्ध्रप्रदेशे तेनालिरामनाम्ना एकः बालकः वसति स्म । सः प्रज्ञाशाली, परन्तु कुलहीनः, दरिद्रः, इति कारणतः कोऽपि तं न अध्यापितवान् । अतः तस्य माता दुःखिता आसीत् । तेनालिरामः प्रतिज्ञां कृतवान् - ``अहं विद्याभ्यासं करिष्यामि'' इति । सः अनेकान् शिक्षकान् पृष्टवान्, परन्तु अपमानमेव प्राप्तवान् । एकस्मिन् दिने दुःखितं रामं दृष्ट्वा एकः योगी उक्तवान् - ``पुत्र ! धैर्यं मा जहीहि । अत्र समीपे कालीमन्दिरम् अस्ति । तत्र गत्वा मया उपदिष्टं मन्त्रं जप, परन्तु काली माता प्रकटिता भविष्यति चेत् तस्याः भयङ्कररूपं दृष्ट्वा भीतः मा भव । तस्याः वरदानेन त्वं महापण्डितः भवेः'' इति । मन्त्रोपदेशं कृतवान् च ।
अतः रामः वनं गत्वा कालीमातरं सम्पूर्णहृदयेन उपासितवान् । बहुदिनानन्तरं काली माता सन्तुष्टा अभवत् । तेनालिरामस्य पुरतः भयङ्कररूपिणी सा आविर्भूता । परन्तु आश्चर्यम् ! तां दृष्ट्वा तेनालिरामः भीतः न अभवत् । अपि तु हसितुम् आरब्धवान् । माता क्रोधेन पृष्टवती - ``किमर्थं हससि, बालक'' ? ``मातः क्षम्यताम् ! परन्तु भवत्याः सहस्रासु नासिकासु पीनसः (cold) भवेत् चेत् बहुकष्टकरं किल? मम एकस्याम् अपि नासिकायाम् एव भवति चेत् क्लेशः अनुभूयते !'' इति उक्त्वा रामः पुनः पुनः हसितवान् । काली माता अपि हसितवती । रामस्य तीक्ष्णया बुद्ध्या धैर्येण च प्रसन्ना अभवत् । सा उक्तवती - ``पुत्र! चिन्ता मास्तु । त्वं सर्वेषु शास्त्रेषु पण्डितः भविष्यसि । विकटकविनाम्ना प्रसिद्धः भविष्यसि'' । एतत् श्रुत्वा रामः उक्तवान् - ``धन्योऽस्मि मातः ! उत्तमः वरः अस्ति । `विकटकवि' पदस्य अर्थः विदूषकः अस्ति । तथा दक्षिणतः वामं च वामतः दक्षिणं पठामः चेत् अर्थः एकः एव'' !
माता रामस्य धिया अतिप्रसन्ना अभवत्, सा उक्तवती - ``पुत्र ! तव ज्ञानेन कीर्तिं प्राप्स्यसि, राजमन्दिरे त्वं सर्वैः श्लाघितः भविष्यसि । अहम् अन्यम् एकं वरम् अपि ददामि । अत्र पश्य ! मम हस्तयोः द्वे पात्रे स्तः । एकस्मिन् पात्रे ज्ञानपायसम् अस्ति, द्वितीयपात्रे धनपायसम् अस्ति । प्रथमस्य पानेन ज्ञानं लभ्यते, अपरेण धनं लभ्यते । एकं पात्रं चित्वा पायसं पिब'' ।
रामः सन्तुष्टः अभवत् । अचिन्तयत् च - ``द्वे अपि उपकारिणी पायसे स्तः । किं चिनोमि?'' इति । नम्रतया मातरम् उक्तवान् - ``किं पायसं रुचितरम् इति न जानामि । प्रथमं द्वे अपि किञ्चित् किञ्चित् पीत्वा आस्वादयामि'' इति । यावत् माता किमपि वदेत् रामः झटिति तस्याः हस्ताभ्यां द्वे पात्रे स्वीकृत्य पायसे पीतवान्, बालकसहजया लज्जया नमस्कृतवान् ।
काली माता क्रुद्धा अभवत् परन्तु रामस्य मुखं दृष्ट्वा ज्ञातवती यत् - ``एतत् सर्वं मम वरेण अभवत् किल ! रामः मम वरेण एव माम् अपि मोहितवान् ! सः अतीवचतुरः अस्ति'' । ``सुखी भव!'' इति उक्त्वा सा अदृश्या अभवत् ।
कालेन तेनालिरामः श्रीकृष्णदेवरायस्य राजमन्दिरे कविविदूषकरूपाभ्यां कीर्तिं प्राप्तवान् ।

- लावण्या मर्ला

सुभाषितम्

गुणदोषौ बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥

गुणदोषौ बुधः गृह्णन्-इन्दुक्ष्वेडौ-इव-ईश्वरः ।
शिरसा श्लाघते पूर्वं परं कण्ठे नियच्छति ॥


बुधः गुणदोषौ ईश्वरः इन्दुक्ष्वेडौ इव गृह्णन् पूर्वं शिरसा श्लाघते परं कण्ठे नियच्छति ।

ईश्वरः चन्द्रं विषं च गृह्णाति । सः ईश्वरः चन्द्रं शिरसा वहति । कण्ठे विषं स्थापयति । तथैव पण्डितः कस्यापि गुणान् दोषान् च ज्ञात्वा सः शिरःकम्पनेन गुणानाम् अभिनन्दनं करोति, कण्ठे दोषाणाम् नियन्त्रणं करोति ।

बुधः - पण्डितः
इन्दुः - चन्द्रः
क्ष्वेडः - विषः
श्लाघते - प्रशंसां करोति
नियच्छति - स्थापयति

पदबन्धः - १



वामतः दक्षिणम्:

१) सरिति जाता एषा कमला एव (३)
३) पयसः इदम् अतिमधुरम् (३)
४) बृहस्पत्युः पत्न्याः
सप्तमीविभक्तिबहुवचनरूपम् (३)
६) आमलकस्य रुचिः सम्बोधने (३)
८) महान् अपराधः (३)
९) गाढः अन्धकारः (३)

उपरिष्टात् अधः

१) रसयुक्तम् इदम् । सम्बोधने
विपरीतत्त्वेऽपि न परिवर्त्यते (३)
२) पुत्र्याः पतिः (३)
३) नलश्च भीमश्च निपुणौ ___वृत्तौ (३)
५) सुखं ददाति एषः (३)
७) विसर्गहीनः नहुषपुत्रः देवयान्याः पतिः महाराजः (३)
८) ताडनमिदं हारयुक्तः किम् ? (३)

प्रदीपयेम जगत्सर्वम्

संस्कृतवाङ्मयं नाम किञ्चन महत् ज्ञानभण्डारम् । जनानां संस्कृतशिक्षणं नाम जनेभ्यः ज्ञानभण्डारस्य कुञ्चिकाप्रदानम् इव । वयं संस्कृतभाषया ज्ञानवितरणं कर्तुम् इच्छामः । तेन ज्ञानप्रकाशेन सर्वं जगत् प्रदीपयेम इति अस्माकं लक्ष्यम् अस्ति ।

आधिभौतिकी समृद्धिः आध्यात्मिकी समृद्धिः, आधिदैविकी समृद्धिः इति त्रिविधा समृद्धिः व्यक्तिजीवने राष्ट्रजीवने विश्वजीवने च भवेत् इति अस्माकं विचारः । तच्च कार्यं वयं संस्कृतभाषायाः माध्यमेन साधयेम ।

संस्कृतेन सदैव वैश्विकं चिन्तनम् एव कृतम् । ``वसुधैव कुटुम्भकम्'' ``कृण्वन्तो विश्वमार्यम्'' ``आ नो भद्राः यन्तु क्रतवो विश्वतः'' इत्येवम्प्रकारेण अस्माकं पूर्वजानां ये आदर्शाः सन्ति तदनुसारम् अद्यापि अस्माभिः सर्वस्य जगतः प्रदीपनं चिन्तनीयम् ।

अद्य विश्वे सर्वत्र योगस्य, वेदान्तस्य, भगवद्गीतायाः, आयुर्वेदस्य, ज्योतिषस्य, अन्यासां भारतीयानां विद्यानां प्रचारकारणतः तत्तद्विषयमूलग्रन्थाः संस्कृतेन सन्ति, तेषाम् अनुवादानां पठनेन तृप्तिः न जाता इति कारणतः च विश्वे शताधिकदेशेषु जनाः संस्कृतपठनं आरब्धवन्तः । अतः संस्कृतभाषा अद्य अत्यन्तं वेगेन वर्धमाना विश्ववाणी अस्ति । एषा पत्रिका अपि विश्ववाणी । संवर्धताम् अभिवर्धतां विश्ववाणी ।

भाषायाः विकासः भाषितभाषारूपेण साहित्यरूपेण च भवेत् । भाषाभ्यासे श्रवणपठनयोः यथा तथा पठनलेखनयोः अपि महत्त्वमस्ति । एताभिः सर्वाभिः दृष्टिभिः विश्ववाणी प्रमुखभूमिकां निर्वहेत् । गीर्वाणी सुरवाणी एषा जनवाणी, विश्ववाणी च भवेत् । संस्कृतजगतः वाण्या विश्ववाण्या एतया वयं ``प्रदीपयेम जगत्सर्वम्'' ।


- चमू कृष्ण शास्त्री

महामन्त्री, संस्कृतभारती

संरक्ष्यतां परिसरः

अस्मिन् वर्षे ``नोबेल्-शान्ति-पुरस्कारः'' अन्तर्सर्वकारीय परिसर-परिवर्तन-समित्यै (Intergovernmental Panel on Climate Change IPCC) च आल्बेर्ट् गोर् महोदयाय च दत्तः । मानवीयैः कार्यैः जायमानस्य परिसरपरिवर्तनस्य विषये जनजागृतेः निर्माणाय दत्ता इयं प्रशस्तिः । IPCC समितिः तु परिसरस्य परिवर्तनस्य विज्ञान-परिणाम-शमनविषयेषु संशोधनं कुर्वती अस्ति । संशोधनस्य सारांशान् प्रतिपञ्चवर्षेषु प्रकटयति । समित्याः कार्येण मानवीयकार्याणां परिसरपरिवर्तनस्य च सम्बन्धः स्पष्टः जायमानः अस्ति । सम्बन्धं निरूपयितुं प्रमाणानि अपि सज्जीकृतानि समित्या । गोर् महोदयः तु जनजागृतेः निर्माणाय विविधप्रदेशान् गत्वा भाषणानि दत्तवान् अस्ति । एतद्विषये तेन `अननुकूलसत्यम्' (An Inconvenient Truth) नाम पुस्तकं लिखितं, चलनचित्रं च कृतम् । पुरस्कारदाने नोबेल्-समित्याः इच्छा इत्थं - `` परिसरपरिवर्तनस्य सूचनाः न उपेक्षणीयाः । जागरूकतया अवधानेन च विषयः अयं चिन्तनीयः । महत्परिसरपरिवर्तनेन मानवकुलस्य जीवनम् एव कष्टकरं स्यात् '' इति ।

अनेन पुरस्कारदानेन परिसरसंरक्षणे निरतानां कार्यकर्तॄणां प्रोत्साहः भवेत् । तेषां कार्याय काचित् मान्यता प्राप्ता इव । अस्मिन् विषये वैज्ञानिकजगति राजकीयजगति च महती चर्चा प्रचलती अस्ति । किं मानवानां कार्याणि परिसरं परिवर्तयन्ति ? केषाञ्चन विज्ञानीनां अभिप्रायः - ``आम् । परिसरे दृश्यमानानि परिवर्तनानि मानवैः कृतस्य प्रदूषणस्य परिणामाः । विश्वस्य उष्णता वर्धमाना अस्ति । अनेन चण्डमारुतादयः नैसर्गिकविकोपाः अधिकतया दृश्यन्ते'' इति । केचन वदन्ति - ``नैसर्गिकप्रक्रियाभिः एव परिसरपरिवर्तनं भवति । तत्र मानवीयकार्याणां प्रभावः अत्यल्पः'' इति । इदानीम् अपि ऐकमतं नास्ति विज्ञानजगति । राजकीयजगति अपि एवं पक्षद्वयम् अस्ति ।

हानिः अत्यल्पा वा भवतु तथापि किम् अर्हामः वयं परिसरप्रदूषणं कर्तुम् ? प्रकृत्याः पालनं पोषणं चापि अस्माकं दायित्त्वम् । निधिरेषा ईश्वरेण दत्ता न व्ययीकर्तुं प्रत्युत रक्षणाय । अस्माकं पौत्रादयः अपि परिशुद्धं वायुं निर्मलं जलं च प्राप्नुयुः इति किं न इष्यते अस्माभिः ? अपत्यजननादारभ्य तस्य विद्याभ्यासादीनां कृते उच्चशिक्षणार्थं वा mutual funds रूपेण योजनाः क्रियन्ते । विविधैः रूपैः सम्पत् रक्ष्यते धनं सङ्गृह्यते च । परन्तु `परिसर' नाम महानिधेः संरक्षणे किमर्थम् उदासीनता ?

परिसरस्य संरक्षणार्थं महान् त्यागः करणीयः न भवति । तदर्थं नैमित्तिकजीवने लघुकार्याणि कर्तुं शक्नुमः निश्चयेन । अस्मासु प्रत्येकः जनः यदि प्रतिदिनं एकचषकपरिमितस्य जलस्य व्यर्थव्ययं न करोति तेनापि महान् लाभः भवति । हस्तक्षालनार्थं यदा उपाहारगृहेषु कागदानि स्वीक्रियन्ते तदा अधिकं स्वीकृत्य अवकरिकायां न क्षिपामः । यदि प्रकोष्ठात् बहिः गच्छामः तर्हि दीपं निर्वाप्य गच्छामः । पात्रप्रक्षालनार्थं dishwasher सम्पूर्य चालयामः । एवं लघुकार्यैः अपि परिसरसंरक्षणं शक्यम् ।

सर्वकारीयस्तरे अपि परिवर्तनानि जायमानानि सन्ति इति तु महते सन्तोषाय । क्यालिफोर्निया-राज्यसर्वकारेण परिसरपरशासनानि बहूनि कृतानि । न्यूयार्क्-नगरसर्वकारेणापि परिसररक्षणार्थं जनाः प्रेर्यमाणाः सन्ति । न्यूयार्क्-नगरे उष्णतावर्धकाणाम् अनिलानाम् उत्पत्तिः ३०% न्यूनीकर्तुं योजना अस्ति । जागतिकस्तरे जनजागरणाय IPCC इत्यादयः समितयः कार्यं कुर्वत्यः सन्ति । परन्तु यावत् पर्यन्तं स्वप्रेरणया जनैः परिसरविषये अवधानं न दीयते तावत् पर्यन्तं प्रकृत्याः अधोगतिः प्रवर्तते एव । निसर्गरक्षणार्थं अस्माभिः प्रत्येकैः रामसेतुनिर्माणे चिक्रोडसेवा (squirrel) इव यथाशक्तिः प्रयत्नः करणीयः एव । अनेन सुन्दरपरिसरं निर्मातुम् शक्यते । किं नवमन्वन्तरशिल्पिनः भवेम?

मिलित्वा रचयेम संस्कृतभुवनम्

- सम्पादकः
अविनाशवर्णः

क्षेत्रज्ञः

दक्षिणभारते प्रचलितः कर्णाटकशास्त्रीयसङ्गीतप्रकारः भारतदेशस्य वैविध्यमयसङ्गीतसम्प्रदायस्य एका शाखा । कर्णाटकसङ्गीतस्य द्वौ अंशौ स्तः - कल्पितसङ्गीतं कल्पनासङ्गीतं च । कल्पितसङ्गीतम् इत्यत्र विविधेषु रागेषु अनेकैः वाग्गेयकारैः विरचितानां कृतीनाम् उल्लेखः । एताः कृतयः अमूल्याः सन्ति यतः न केवलं ताः श्रोतुं मधुराः सन्ति परन्तु तासाम् अध्ययनेन सङ्गीतच्छात्राः रागस्वरूप-रागभाव-स्वरसञ्चार-विशेषप्रयोग-विषयान् ज्ञातुं शक्नुवन्ति । कल्पनासङ्गीते अथवा मनोधर्मसङ्गीते गायकः स्वयं नूतनसङ्गीतं सृष्ट्वा तस्य प्रतिभां कौशल्यं च प्रदर्शयति । नूनं कल्पनासङ्गीतमपि कल्पितसङ्गीतेन अतीव प्रभावितं भवति । एवमेव सङ्गीतपरम्परा विकसति ।

यद्यपि शास्त्रीयसङ्गीतस्य सामवेदादारभ्य प्राचीनचरित्रम् अस्ति तथापि १४तम शताब्द्याः आरभ्य एव कर्णाटकसङ्गीतं वर्तमानरूपं समवाप्नोत् । एतस्मिन् समये बहवः वाग्गेयकाराः कर्णाटकसङ्गीतं धन्यं कृतवन्तः । सामान्यतः सर्वे सङ्गीतश्रोतारः "कर्णाटकसङ्गीतत्रिमूर्तिम्" (श्रीत्यागराज-मुत्तुस्वामीदीक्षितर्-श्यामशास्त्री-महाशयान्) जानन्त्येव । अद्यतन सङ्गीतकार्यक्रमेषु अधिकरूपेण तेषां कीर्तनानामेव गायनं भवति । अन्ये केचन आधुनिकवाग्गेयकाराः अपि प्रसिद्धाः सन्ति परन्तु अनेकानाम् उन्नतवाग्गेयकाराणां कृतयः अद्य नैव श्रूयन्ते । ईदृशः एकः महान् वाग्गेयकारः आसीत् क्षेत्रज्ञः ।

आन्ध्रदेशे "मुव्व" इति ग्रामे ~१६००तमे वर्षे क्षेत्रज्ञः (अथवा क्षेत्रय्य) कविः सञ्जातः। तस्य मूलं नाम वरदय्य इति आसीत् । सः क्षेत्रे क्षेत्रे भ्रामन् भ्रामन् गीतानि अगायत्, ततः सः क्षेत्रय्य इति प्रसिद्धोऽभवत् । मुव्व-ग्रामस्य देवस्य गोपालस्य भक्तः क्षेत्रज्ञः तस्य कृतिषु "मुव्वगोपाल" इति मुद्राम् उपयुक्तवान् । सः "पदम्" नाम गीतरूपस्य रचने निपुणः आसीत् । अद्यापि क्षेत्रज्ञस्य पदानि अद्वितीयानि । यद्यपि तेलुगुभाषायां तेन चतुस्सहस्राद् अधिकानि पदानि विरचितानि इति केषाञ्चन मतम्, अद्यपर्यन्तं तानि सर्वाणि न लभ्यन्ते । तस्य पदानां द्वे लक्षणे स्तः - प्रथमं तेषां विलम्बगतिः तथा गमकवैशिष्ट्यम् । अतः तेलुगुभाषाज्ञानरहिताः अपि रसिकाः एतेषां सौन्दर्यम् अनुभवितुं शक्नुवन्ति। द्वितीयलक्षणं तेषां शृङ्गाररसप्राधान्यम् । विशेषतः बहुषु पदेषु विप्रलम्भ(वियोग)शृङ्गाररसः प्रभवति यत्र कथावस्तु परित्यक्तायाः नायिकायाः कामना नायकस्य सङ्गार्थम् । क्षेत्रज्ञस्य नायकः भगवान् मुव्वगोपालः । अतः एतेषु पदेषु मधुरभक्तिभावः वर्तते । नायिकायाः स्पृहा जीवात्मनः परमात्मना सह ऐक्यस्य कामनां द्योतयति इति केषाञ्चन पण्डितानाम् अभिप्रायः । शृङ्गाररसप्राधान्यात् भरतनाट्ये अपि पदानां प्रामुख्यमस्ति ।

उदाहरणार्थं क्षेत्रज्ञस्य ఎవ్వడె (एव्वडे) इति पदस्य अनुवादः अधः लिखितः । अत्र नायिका सख्या सह सम्भाषणं करोति यत्र सा नायकस्य विषये आक्षेपं करोति -
(रागं शङ्कराभरणम् । तालः मिश्रछापु)

कः सः? हे सखि, सः कः?
सः कः (यः) यदाहं शयिता
पुष्पबाणं क्षिप्त्वा मां क्षोभयित्वा गतः - सः कः?

यः दिवा आगत्य बहुधैर्येण मे गृहम्
मम हस्तौ गृहीत्वा आलिङ्गनं कृत्वा
ओष्ठाभ्यां दृढचुम्बनं दत्त्वा गतः - सः कः?

किमहं तस्य सम्पत्तिः? किं तेन परिचितसम्बोधनम् उचितम् ?
यदा मम पुरुषः नगरे नासीत् सायङ्काले
मधुरशब्दान् जपित्वा चुम्बित्वा गतः - सः कः?

नीलमेघश्यामलाङ्गः पीताम्बरधृतः
अहं षोडशसहस्रगोपस्त्रीप्रियः
मुव्वगोपालः इत्युक्त्वा गतः - सः कः, हे सखि, सः कः?।



विंशतितमशताब्द्यां बृन्दा मुक्ता नाम सहोदर्यौ तयोः कार्यक्रमेषु अनेकानि पदानि अतीवरमणीयरूपेण गायतः स्म । तयोः कुटुम्बे अन्याः अपि गायिकाः वादकाश्च आसन् ये पदानां गायने वादने वा प्रबुद्धाः आसन् । परन्तु अधुना बृन्दामुक्तयोः मरणानन्तरं ये क्षेत्रज्ञस्य पदानि गायन्ति ते गायकाः बहुविरलाः । किं कारणम् आधुनिककर्णाटकसङ्गीते एतेषां पदानाम् उपेक्षायाः ? केचन पारङ्गताः वदन्ति पाश्चात्त्यसंस्कृतेः दूरदर्शनस्य च प्रभावात् क्षेत्रज्ञस्य विलम्बगतेः सङ्गीतं श्रोतुम् अद्यतन-सङ्गीतरसिकाणां सहना नास्ति इति । किन्तु एतत् असत्यम् इत्यहं मन्ये । मम अनेकानि मित्राणि सन्ति ये ईदृशसङ्गीतम् आस्वादयन्ति । एतत् सङ्गीतं कठिनमस्ति, तत् गातुं कठिनसाधना आवश्यकी, परन्तु अद्यतन गायकाः ईदृशसाधनां कर्तुम् उत्सुकाः न भवन्ति इति केषाञ्चन विदुषाम् अभिप्रायः । अपि च ईदृशानि शृङ्गारभरितानि पदानि सार्वजनिकवेदिकायां न गातव्यानि इति केचन गायकाः रसिकाश्च चिन्तयन्ति । कारणं यत्किमपि भवेत्, अद्य दुर्भाग्यवशात् वयम् इदम् अद्भुतसङ्गीतं न श्रोतुं शक्नुमः ।

यदि बहवः गायकाः वादकाश्च सङ्गीतकार्यक्रमेषु एतानि पदानि गास्यन्ति तर्हि एव नूतनरसिकाः तैः आकर्षिताः भविष्यन्ति । परन्तु सामान्यतः गायकाः तादृशसङ्गीतमेव गायन्ति यत् श्रोतारः श्रोतुमिच्छन्ति । अतः यद् इदं सङ्गीतं लुप्तं न भवेत् तथा दीर्घकालं रसिकान् आकर्षयेत् तन् न केवलं गायकानां परन्तु सङ्गीतरसिकाणामपि उत्तरदायित्वमस्ति।


-नरेश सत्यनः

चेतःकर्षणम्



चेतः क्रष्टुमजानतस्तव खिलं क्षेत्रं स्थितं जीवितं ।
कृष्टिर्यद्यभविष्यदेव कनकं तत्र त्वमाप्स्यः फलम् ।
कालीनामवृतिं कुरुष्व परितः सस्यं तु सा त्रैष्यते ।
कालेनापि न लङ्घ्यते दृढतमा सा मुक्तकेश्याः वृतिः ॥ १ ॥

वर्षाणां शतकात् परं नु ह्रियते क्षेत्रं तु यन्नाचिरात् ।
यच्छक्यं खलु सङ्गृहाण सुफलं चोप्त्वा ततस्त्वं विभोः ।
दिव्यं नाम गुरुप्रदत्तमनघं प्रेमाम्भसा सिञ्च रे ।
साहाय्याय तु चेत् सुदुष्करमिदं रामप्रसादं ह्वय ॥ २ ॥


अन्वयः :

१. चेतः, क्रष्टुम् अजानतः तव क्षेत्रं जीवितं खिलं स्थितम् । यदि एव तत्र कृष्टिः अभविष्यत् त्वं कनकं फलम् अवाप्स्यः । (क्षेत्रस्य) परितः काली-नाम-वृतिं कुरुष्व । सा तु सस्यं त्रैष्यते । सा दृढतमा मुक्तकेश्याः वृतिः कालेन अपि न लङ्घ्यते ।

२. क्षेत्रम् अचिरात् वर्षाणां शतकात् परं (वा) तु ह्रियते नु । यत् शक्यं सुफलं खलु सङ्गृहाण । ततः, रे, त्वं विभोः अनघं दिव्यं गुरु-प्रदत्तं नाम उप्त्वा प्रेमाम्भसा सिञ्च । इदं तु सुदुष्करं चेत् साहाय्याय राम-प्रसादं ह्वय ।


-सन्दीप वर्मा

सत्यवाक्यम्

सत्यं ब्रूयात् प्रियं ब्रूयात् ।
न ब्रूयात् सत्यमप्रियम् ॥
प्रियञ्च नाऽनृतं ब्रूयात् ।
एष धर्मः सनातनः ॥

एषः बहुपुरातनश्लोकः । एतस्य अर्थं तु सर्वे जानन्ति एव । किञ्चित् अधिकं चिन्तनं कुर्मः चेत् केचन विशेषविषयाः ज्ञायन्ते । प्रथमं सत्यमेव अनितरं वक्तव्यम् इति अत्र उक्तम् । परन्तु बहुषु समयेषु सत्यं मनुष्येभ्यो न रोचते । अतः सर्वकालेषु सर्वावस्थासु सर्वत्र च सत्यवाक्पालनं सफलं न भवेत् । तादृशसन्दर्भेषु सत्यं न वक्तव्यम् ।
"सत्यं सफलं भवेत् वा न वा इति अस्य निर्धारणं किमर्थम् ? सत्यं तु मानवानाम् इष्टानिष्टाभ्याम् अतीतम् । तस्य विषये इष्टानिष्टयोः चर्चा न कर्तव्या किल ?" इति पृष्टे "किञ्चिदत्रैव वक्तव्यं यत्रोक्तं सफलं भवेत्" इति वाक्यम् एव अस्य निर्धारणाय उपयोक्तव्यम् । सत्यवाक्यं कदापि निष्प्रयोजनं न भवेत् इति सूत्रम् अपि अत्र निक्षिप्तम् । अतः यत्र सत्यवाक्पालनं सफलं न भवेत् तत्र व्यर्थप्रयत्नः न कर्तव्यः ।
सत्यं किमर्थं मनुष्येभ्यो न रोचते इति प्रश्नस्य उत्तरं तु न सुलभम् । मानवानां स्वभावः इत्थं - यत् सत्यं दुःखकारकं तस्य स्थाने सुखकारकम् अन्यत् किमपि भवेत् इति चिन्तनम् । दुःखकारकं सत्यं न श्रोतुम् इच्छन्ति । अतः तादृशाय सत्यवाक्यकथनं निष्फलं भवेत् । तस्मात् दुःखनिवारणं न भवेत् । कोऽपि लाभः अपि न भवेत् । अतः "न ब्रूयात् सत्यम् अप्रियम्" इति उक्तम् ।


- बालादित्यः

Saturday, July 28, 2007

सम्पादकीयम्

प्रायः सर्वेषां मनसि एकः प्रश्नः उद्भवेत् एव यत् इदानीं किमर्थम् एषा पत्रिका इति । कस्याः अपि क्रियायाः आरम्भात् पूर्वम् अस्माभिः चिन्तनीयं यत् वयं किमर्थम् एतां क्रियां कुर्मः इति । अतः एव एतत्पत्रिकाप्रकाशनार्थं प्रयोजनं वयं वदामः ।

प्रधानतया वयम् एतस्मिन् देशे विश्वविद्यालयविद्यार्थिषु संस्कृतभाषाभिरुचिं वर्धयितुम् इच्छामः । कीदृशी एषा अभिरुचिः ? संस्कृतभाषायाः श्रवणं, वचनं, पठनं, लेखनं च इति सर्वासु दिक्षु आभिरुचिः । अर्थात् संस्कृतभाषायां सकलव्यवहाररुचिः । तर्हि सा कथं वर्धयितव्या? प्रथमतया वयं सर्वेभ्यः प्रदर्शयामः यत् संस्कृतभाषायां सम्भाषणं सरलतया कर्तुं शक्यते । तथा च इदम् अपि प्रदर्शयामः यत् स्वसदृशाः विश्वविद्यालयविद्यार्थिनः संस्कृतभाषां शृण्वन्ति, वदन्ति, पठन्ति, लिखन्ति च इति । (एकदा मम संस्कृतभाषाभाषकमित्रस्य गृहं गत्वा, तस्य मित्राणां सम्मुखे तेन सह अहं संस्कृतभाषायाम् अभाषे । तत् श्रुत्वा सर्वे अपि चकिताः यत् संस्कृतभाषायां तथा एव वक्तुं शक्यं यथा हिन्दीकन्नडतेलुगुभाषासु ।)

तर्हि कथं विद्यार्थिनां सुप्तां संस्कृतभाषाभिरुचिं प्रकटयितुं शक्नुमः? एनया पत्रिकया शक्नुमः इति अस्माकं मतम् । यदि कोऽपि विद्यार्थी पत्रिकां पश्यति, तर्हि सः एवं चिन्तयति - भिन्नभिन्नविद्यालयेषु मम समवयस्केषु संस्कृतभाषाजिज्ञासा अस्ति, तेषु संस्कृतभाषाप्रीतिः अपि अस्ति । अहम् अपि एतं संस्कृतसख्यपरिवारम् अनुभवितुम् इच्छामि, अतः संस्कृतभाषायां व्यवहर्तुं किञ्चित् प्रयते इति । अपि च येषां संस्कृतभाषायां जिज्ञासा इदानीम् एव अस्ति, तेभ्यः संस्कृतभाषायां लेखितुं, चर्चयितुं, पोषयितुं च एतत् एकं स्थानं स्थापितं पत्रिकारूपेण अस्माभिः ।

द्वितीयं प्रयोजनम् अपि अस्ति यत् अमेरिकादेशे संस्कृतप्रचारणार्थं वयम् एकां पत्रिकां लेखितुम् इच्छामः। प्रत्येकः चिन्तयति यदा वृद्धः भविष्यामि, तदा भारतं गत्वा, संस्कृतभाषायाः अध्ययनं करोमि, संस्कृतभाषायाः विषये चिन्तयामि च इति । पत्रिकायाः रचनया जनाः जानीयुः यत् अस्मिन् देशे एव संस्कृतभाषायां व्यवहारः शक्यः । कुत्रापि गमनम् आवश्यकं नास्ति! भारत्ं विना अन्यत्र संस्कृतभाषा न जीवति इति केनापि न चिन्तनीयम् । एतस्मिन् देशे संस्कृतव्यवहारः भवितुम् अर्हति, इदानीं भवति च इति एतत्पत्रिकाप्रकाशनेन प्रदर्शयामः।

विश्ववाणीपत्रिकापठनेन भवताम् आनन्दः भवतु इति अस्माकम् आशा । यदि कस्मिन्नपि विषये कोऽपि स्वस्य अभिप्रायम् लेखितुम् इच्छति, अथवा प्रकाशनार्थं किमपि लेखनं दातुम् इच्छति, कृपया अस्मभ्यम् प्रेषयतु ।

पत्रिकाप्रकाशने अस्माकं प्रत्यक्षपरोक्षरूपेण साहायां दत्तवद्भ्यः सर्वेभ्यः विशेषतया रामप्रिय धनञ्जयाभ्यां धन्यवादाः ।

रचयेम संस्कृतभुवनम् ।

- सम्पादिका
(सौम्या जोयिसा)

सुभाषितम्

चिंतायाश्च चितायाश्च बिन्दुमात्रं विशिष्यते ।
चिता दहति निर्जीवं चिंता दहति जीवितम् ॥

एतस्मिन् सुभाषिते चिंता (worry) शब्दस्य चिता (funeral pyre) शब्देन सह तुलनां कृत्वा चिंतायाः दुष्प्रयोजनं बोधितम् । यथा लेखने द्वयोः शब्दयोः मध्ये बिन्दुमात्रम् एव भेदः भवति तथैव अर्थस्य विषये अपि ईषद् एव भेदः भवति । यथा चिता मृतं दहति, तथा चिंता जीवितं पीडयति दाहवत् । अतः चिंता हानिकारी भवति इति वयं जानीमः ।

- मैथिली

विनोदिका

अस्ति एका "अद्वैतवादिनी" लता नाम । एकदा सा चिन्तितवती, मया अद्वैतसिद्धान्तस्य प्रचारः करणीयः इति । तस्याः गृहस्य भित्त्यां सा लिखितवती - "सोऽहम्" । परन्तु तस्याः सहोदरी, सीता, द्वैतवादिनी आसीत् । भित्त्यां लिखितं सन्देशं दृष्ट्वा सा चिन्तितवती, मया अपि द्वैतसिद्धान्तस्य प्रचारः करणीयः इति । सा तत्र गत्वा "दा" इति अक्षरं योजितवती । अतः तत् वचनं "दासोऽहम्" इति अभवत् ।

अग्रिमदिने लता स्वलिखितं सन्देशं द्रष्टुम् आगतवती । परन्तु पदस्य परिवर्तनं दृष्ट्वा सा विस्मिता अभवत् । "एतत् तु मम सहोदर्या लिखितं निश्चयेन । मया किमपि करणीयम्" । सा पदात् पूर्वम् अन्यम् एकं "स" अक्षरम् योजितवती । "सदासोऽहम्" इति । तद्दिने सायङ्काले, सीता पुनः पदस्य परिवर्तनं कृतवती - "दासदासोऽहम्" । एवमेव प्रतिदिनं, पदस्य परिवर्तनं जातम् । अन्ते किम् अभवत् इति भवन्तः एव पूरयन्तु :)

- अरुणः

रामेश्वरेऽर्जुनगर्वभङ्गम्

स्वभक्तानां कपीनांश्च तारणाय महार्णवे ।
सेतुबन्धनसन्नद्धं राघवं तन्नमाम्यहम् ॥ १ ॥

राममेवंविधा ध्यायन् रामं मनसि चिन्तयन् ।
सूर्ये चास्तमये प्राप रामेश्वरमथार्जुनः ॥ २ ॥

रामेश्वरं तथा नत्वा जगामासौ धनुर्धरः ।
रामेनैवाश्रितं स्थानं तीरं रत्नाकरस्य च ॥ ३ ॥

अपश्यत्तत्र सेतुं तन्निर्मितं वानरादिभिः ।
तन्निर्माणकथां ध्यायन्नवदत्स महारथी ॥ ४ ॥

धनुर्विद्यासमर्थेन राघवेन महात्मना ।
शक्यस्स्यान्ननु निर्मातुं सेतुरेष शरैरपि ॥ ५ ॥

स्वयं कोदण्डपाणिश्च साहाय्यं सेतुबन्धने ।
वानराणां मृगाणां च किमर्थं सोऽप्ययाचत ॥ ६ ॥

कार्येऽस्मिन् फलतामाप्तुं शक्तस्स्यामहमेव हि ।
एतच्छ्रुत्वा वचस्तस्य समीपस्थः कपीश्वरः ॥ ७ ॥

अपृच्छदर्जुनं वीरं धनुर्धर भवान् तु कः ।
समर्थं वेत्ति चात्मानं दुष्करस्यास्य साधने ॥ ८ ॥

पाण्डुपुत्रः पृथासूनुः द्रोणशिष्योऽहमर्जुनः ।
इत्यवदत्स गाण्डीवी महागर्वसमन्वितः ॥ ९ ॥

असाध्यं खलु कार्यं तच्छताधिकजनैरपि ।
वानरैश्च सहस्रैश्च मृगवृन्दैश्च निर्मितम् ॥ १० ॥

अशक्यं भवताप्येतदिति प्राह स वानरः ।
श्रुत्वेदं वचनं पार्थो वानरं पुनरब्रवीत् ॥ ११ ॥

परन्त्वहमसामान्य इन्द्रेणाप्यपराजितः ।
अवश्यं साधयिष्यामि कार्यमेतत्तु वानर ॥ १२ ॥

इत्युक्त्वा तु तदा पार्थो रतोऽभूत्सेतुबन्धने ।
सेतुर्योजनपर्यन्तं क्षणेष्वेव हि निर्मितः ॥ १३ ॥

आश्चर्येण तु तद्दृष्ट्वा तिष्ठत्वित्याह वानरः ।
परीक्षेऽहमिमं सेतुं भारं वहति किं मम ॥ १४ ॥

स्पर्शेन कपिपादस्य भग्नोऽभूत्सव्यसाचिना ।
रचितश्शरसेतुश्च चकितोऽभूत्स पाण्डवः ॥ १५ ॥

रचयामि पुनस्तर्हि क्षणमेकं हि तिष्ठ भोः ।
इत्युक्त्वा तु पुनर्यत्नमकरोदर्जुनस्तदा ॥ १६ ॥

रचितस्तेन सेतुश्च कपिभग्नो पुनःपुनः ।
बहुधाप्येवमेवाभूज्जगादान्ते तमर्जुनः ॥ १७ ॥

न शक्नोमि शरैस्सेतुं निर्मातुं वानराधिप ।
प्राणान् महोदधावस्मिन्नहङ्कारी त्यजाम्यहम् ॥ १८ ॥

प्राणत्यागाय सन्नद्धमर्जुनं वानरोऽब्रवीत् ।
लभसे किमनेन त्वं तिष्ठ हे पुरुषर्षभ ॥ १९ ॥

अहङ्कारविमुक्तस्त्वमीश्वरं राममाश्रय ।
सर्वाणि तव कार्याणि साधयिष्यस्यनेन हि ॥ २० ॥

किं वा साध्यं बलिष्ठेन रामस्यानुग्रहं विना ।
किं वाऽसाध्यं मृगैश्चापि राघवानुग्रहे सति ॥ २१ ॥

भवता सत्यमुक्तं वै मदान्धेन मया कथम् ।
रामेणाशक्यमित्येतत् कार्यमस्तीति चिन्तितम् ॥ २२ ॥

नौम्यहं राघवं राममशक्याद्भुतसाधकम् ।
यस्यापि नाममात्रेण शिला तरति सागरे ॥ २३ ॥

महात्मन्ननुगृह्णातु दासोऽहं भवतस्सदा ।
दण्डवत्प्राणमत्पार्थ उक्त्वैवं वानरं तदा ॥ २४ ॥

सोऽब्रवीन्मन्दहासेन पार्थाजेयस्सदा भव ।
तुष्टोऽहं तव वीर्येणोत्तिष्ठ हे भरतर्षभ ॥ २५ ॥

पताकस्थो भविष्यामि हनूमानहमेव हि ।
कपिध्वजेति प्रख्यातं पामि त्वां सर्वदा युधि ॥ २६ ॥

पार्थस्य गर्वभङ्गं तु कृतमेवं हनूमता ।
अहङ्कारविमुक्तिं नस्सोऽनुगृह्णातु सर्वदा ॥ २७ ॥

(परिष्कृतवद्भ्यां प्रोत्साहञ्च दत्तवद्भ्यां रामप्रियधनञ्जयाभ्यां धन्यवादाः ।)

- अविनाशः