Saturday, March 8, 2008

सुभाषितम्

न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥


न कश्चित् कस्यचित्-मित्रम् न कश्चित् कस्यचित्-रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवः-तथा ॥

न कस्यचित् मित्रं कश्चित् न कस्यचित् रिपुः कश्चित् । कारणेन हि मित्राणि तथा रिपवः जायन्ते । कारेणेन विना कोऽपि अन्यस्य मित्रं वा रिपुः वा न भवति एव । यदि किमपि कारणम् अस्ति, तर्हि एव मित्राणि च शत्रवः च जायन्ते ।

सहजं भाषासामर्थ्यम्

प्रायः अस्माभिस्सर्वैः श्रूयते यत् अस्माकम् अपत्यैः सह संस्कृतेन सम्भाषणम् अत्यधिकलाभदायकमिति । बालाः यथा तेषां मातृभाषां जानन्ति तथा एव संस्कृतमपि जानन्तु इति । एतेन न केवलं बालानां भाषाज्ञानाधिक्यं भवति, परन्तु संस्कृतभाषायाः पालन-पोषण-संरक्षणादीनि कार्याण्यपि भवन्तीत्यपि श्रूयते । एतत् कथं शक्यमिति कस्यचित् पुस्तकस्य पठनेन ज्ञातुं शक्नुमः । Language Instinct इति पुस्तके बालानां भाषायाः अवगमनं कथं भवति इति विषयः सम्यक् विवृतः अस्ति । तदनुसृत्य अस्मिन् लेखने अस्माकं प्रस्तुतविषयस्य चिन्तनं कृतमस्ति । किमर्थम् अस्माकं बालैः सह संस्कृतेन वार्तालापः करणीयः इति प्रश्नस्य उत्तरम् अत्र चर्चितमस्ति ।


बालाः कामपि भाषां कथं जानन्तीति विषयः अत्र मुख्यः । उपरिसूचितपुस्तके लेखकः तर्कयति यत् सर्वाः भाषाः निसर्गजाः सन्ति, न कश्चिदपि पिता तस्य अपत्यानां कृते प्राथमिकभाषां पाठयति, बोधयति वा । बालाः दैनन्दिकव्यवहारे यानि यानि वाक्यानि, यान् शब्दान् च शृण्वन्ति केवलं तान् एव अनुवदन्ति इत्यपि न । परन्तु तेषां मनसि भाषायाः उत्पादनार्थं निसर्गजं ज्ञानमस्ति, यस्मात् कारणात् तैः कस्यामपि भाषायां सामर्थ्यं शीघ्रम् एव प्राप्तुं शक्यते । अत्र न केवलं स्वाभाविकज्ञानं, परन्तु दैनन्दिकव्यवहारप्रभावः अपि कारणम् इति अंशः गणनीयः । ते कस्याः अपि भाषायाः वैशिष्ट्यादीनि केवलं व्यवहारात् जानन्ति । परन्तु अधिकतया भाषायां ये नियमाः सन्ति ते व्यवहारप्रभावं विना एव ज्ञायन्ते ।



उदाहरणार्थम्, अस्य पुस्तकस्य लेखकः कांश्चन प्रयोगान् विवृणोति । कश्चन विज्ञानसंशोधकः त्रिवर्षीयान् बालकान् उद्दिश्य विग्रहवाक्यम् एकम् उक्त्वा तस्य समस्तपदम् अपि सूचयति । अनन्तरं सः पुनः अन्यत् विग्रहवाक्यं वदति । एतत् श्रुत्वा ते बालकाः स्वनिर्मितं समीचीनं समस्तपदं वदन्ति । पुनः सः संशोधकः अन्यत् विग्रहवाक्यं वदति । तदनुसृत्य बालकाः पुनः स्वनिर्मितं निर्दोषसमस्तपदं प्रतिवदन्ति । पदवाक्यनिर्माणे यत्र सूक्ष्मनियमाः अनुसरणीयाः तत्र ते तथैव कुर्वन्ति । उदाहरणार्थम् - नूतनसंस्कृत-छात्राः सामान्यतया "जानीमः" इति विशेषक्रियापदरूपम् अज्ञात्वा जानामः इति वदन्ति । परन्तु बालाः नियमान् अश्रुत्वा, केवलं पदप्रयोगं श्रुत्वा, नियमान् अज्ञात्वा एव सहजतया सुलभतया च समीचीनं रूपं वदन्ति ।


केचन जनाः चिन्तयन्ति यत् ते बालाः ईदृशान् विशेषप्रयोगान् पूर्वं कदापि श्रुतवन्तः स्युः इति । परन्तु मातापितरः बालैः सह यदा वार्तालापं कुर्वन्ति तस्मिन् समये तेषां वाक्येषु विशेषसमस्तपदानां प्रयोगाः अधिकतया न श्रूयन्ते एव । तैः लघुवाक्यानि एव उच्यन्ते इति भासते । अतः बालानां भाषायाः अवगमनज्ञानं स्वाभाविकं, निसर्गजं च, न तु व्यवहारप्रभावादिति वक्तुं वयं शक्नुमः ।


एतस्य कथनस्य सारांशः कः ? बालानाम् ईदृशं स्वाभाविकसामर्थ्यं प्रथमषड्वर्षपर्यन्तं भवति । तावत्पर्यन्तं ते अधिकपरिश्रमं विना भाषासामर्थ्यं प्राप्नुवन्ति । वयं केषाञ्चन त्रिवर्षीयबालानां सम्भाषणे व्याकरणस्य अंशान् परिशीलयामः चेत्, व्याकरणशुद्धता सम्यक् एव दृश्यते । येषां भाषाव्यवहारे लिङ्गसहितपदप्रयोगाः सन्ति ते तदन्वितदोषान् न कुर्वन्ति । या भाषा तेषां तृतीयवयसः पूर्वं श्रूयते तस्यां भाषायां तैः नैपुण्यं प्राप्यते । तर्हि षष्ठवर्षादनन्तरं किं भवति ? तेषां भाषाग्रहणशक्तिः न्यूना भवति । यथा मानवशरीरे निसर्गज-स्पन्दनाः (reflexes) एकस्मिन् निर्दिष्टसमये उद्भूय पुनः अदृश्यतां प्राप्नुवन्ति तथा एव मस्तिष्कमपि भाषाज्ञानप्राप्त्यर्थम् एकस्मिन् निर्दिष्टसमये एव योग्यं भवति । सः अवकाशः मनुष्याणां कृते प्रथमषड्वर्षपर्यन्तम् एव अस्ति । तदनन्तरं तैः अधिकतया केवलम् अवगतभाषायाः उपयोगः करणीयः भवति । तदर्थं मस्तिष्के अधिकनैपुण्यं भवति । परन्तु भाषाज्ञानप्राप्तेः कापि अवश्यकता नास्ति इति अतः सा शक्तिः अनन्तरं न्यूना भवति । अस्माकं यौवने, प्रौढवयसि वा नूतनभाषां ज्ञातुम् अस्माभिः शक्यते एव । परन्तु सा शक्तिः बाल्यवयसि यथा भवति तथा न ।


वयं चिन्तयामः ``अस्तु, मम किञ्चित् संस्कृतभाषाज्ञानम् अस्ति, वक्तुमपि शक्नोमि, अज्ञानेन अहम् अनेकान् दोषान् कुर्याम् । मम बालैः सह संस्कृतेन सम्भाषणं करोमि चेत् दोषभरितवाक्यानि एव वदामि, अतः मम बालाः अपि तादृशमेव वदेयुः । एवमेव मम पाठनेन संस्कृतस्य अधोगतिः एव भवेत्'' इति । परन्तु तादृशी स्थितिः न भवति इति भाति । अन्यस्मिन् समये केषुचन प्रयोगेषु केचन मूकबालकाः दृष्टाः येषां मातापितरौ संज्ञाभाषां (sign language) सम्यक् न ज्ञातवन्तौ । तेषां मातापित्रोः संज्ञाभाषा दोषसहिता आसीत् । परन्तु मूकबालकानां संज्ञाभाषायां दोषाः न आसन् एव । यद्यपि मातापित्रोः भाषाशुद्धिः नास्ति तथापि बालकानां वचनानि दोषरहितानि एव भवन्ति । ते अश्रुतपूर्वनियमानपि अनुसृत्य नैपुण्येन एव भाषन्ते । एतत् कथं साध्यमिति पृष्टे सति उत्तरं न लभ्यते एव । परन्तु संक्षिप्तरूपेण वक्तुं शक्नुमः यत् तेषां भाषाग्रहणशक्तिः निसर्गजा एव, अतः अत्यल्पकाले स्वल्पप्रयत्नेन स्वाभाविकतया भाषाज्ञानं, सामर्थ्यं च प्राप्नुवन्तीति ।


यदा काचन भाषा लुप्ता भवति तदा तत्सम्बन्धि-संस्कृतिरपि नश्यति । तस्याः वैशिष्ट्यमपि नश्यति । अतः इदानीं संस्कृतभाषाप्रगत्यर्थं, संस्कृतभाषाभिवृद्ध्यर्थं क्रियमाणेषु कार्येषु बालानां पात्रमपि बहु मुख्यमेव । तेषां मनः भाषाप्राप्त्यर्थं बाल्ये एव सिद्धमस्ति । तैः यस्मिन् प्रकारे भाषा श्रुता भवति तदेव अनुसृत्य ते तस्यां भाषायां प्रावीण्यमपि प्राप्नुवन्ति । अतः संस्कृतस्य विषये अस्माकं स्वल्पा अपि चिन्ता न भवेत् । वयम् अस्माकम् अपत्यानां जननकालात् आरभ्य तान् संस्कृतमाध्यमेन लालयाम, पालयाम, पोषयाम च । ते बाल्यकालतः एव संस्कृतभाषां जानन्तु । एतेन माध्यमेन संस्कृतस्य, अस्माकं संस्कृतेः च प्रगतिः अभिवर्धताम् ।


रचयेम संस्कृतभुवनम् ।


सम्पादिका सौम्या जोयिसा
UPenn स्नातका


* स्थलाभावात् अत्र सम्पूर्णानि विवरणानि न दत्तानि । ये अधिकं ज्ञातुम् इच्छन्ति, ते पुस्तकं पठेयुः ।
Pinker, S. , “The Language Instinct”, Harper Collins Publishers, New York, 1994.

पदबन्धः २


वामतः दक्षिणम्


१) यामत्रयं युक्ता रात्रिः (३)
३) लङ्कापतिः अयम् (३)
४) का अस्ति अस्यां वीथ्याम् ? (३)
६) वरं ददाति एषः सम्बोध्यताम् (३)
८) अप्सरासु सुन्दरी शकुन्तलायाः माता (३)
९) जनानां माता एषा (३)

उपरिष्टात् अधः


१) त्रिभुजस्य अस्य नामान्तरम् (३)
२) मायां रचयति एषः (३)
३) रघुकुले जातः रामः सम्बोध्यताम् (३)
५) अष्टाध्याय्याः प्रसिद्धा वृत्तिः (३)
७) दनोः जातः सम्बोध्यताम् (३)
८) वराहस्य पत्नी भूदेवी (३)

पदबन्धस्य साधु उत्तरं प्रथमतया येन प्रेष्यते तस्य नाम अग्रिमाङ्के प्रकाशिष्यते । उत्तरम् vishvavani@speaksanskrit.org प्रति प्रेष्यताम् ।


'पदबन्धः-१' इत्यस्य उत्तराणि


वामतः दक्षिणम् -
१) सरोजा ३) पायसम् ५) तारासु ६) कषाय ८) प्रमादः ९)तिमिरः
उपरिष्टात् अधः -
१) सरसम् २) जामाता ३) पाचक ५) सुखदः ७) ययाति ८) प्रहारः

सत्यकामी नरेन्द्रः

``अम्ब! अद्य शालायां मां प्रति अन्यायः जातः । अहं अध्यापकस्य प्रश्नस्य सत्यम् एव प्रत्युत्तरं दत्तवान् आसं किन्तु सः तत् असत्यं मत्त्वा मां दण्डितवान् । अहं किं करोमि अम्ब?'' रुदन् उक्तवान् नरेन्द्रः । माता भुवनेश्वरीदेवी पुत्रं प्रीत्या पश्यन्ती अवदत् ``वत्स! निराशो मा भव । सत्यं किम् इति कोऽपि न जानाति चेत् अपि सत्यमेव जयते । नित्यं सत्यस्य अनुसरणम् एव कुरु'' इति । जनन्या उक्तम् एतं हितोपदेशं नरेन्द्रः आजीवनम् अनुसृतवान् । एतं बालकं भारतदेशस्य आधुनिककालस्य अतिश्रेष्ठेषु महापुरुषेषु एकं जगत्प्रख्यातं विवेकानन्दस्वामीति नाम्ना वयं जानीमः । संन्यासजीवनारम्भात् पूर्वं विवेकानन्दस्य नाम नरेन्द्रनाथः इति आसीत् । तस्य जन्म १८६३ संवत्सरस्य जनवरि-मासस्य द्वादशदिनाङ्के पुण्ये मकरसङ्क्रान्ति-पर्वदिने परमपवित्रगङ्गनदीतीरे कोल्कता-नगरे अभवत् ।


बालकः नरेन्द्रः अतीवगुणशीलः बुद्धियुक्तः चतुरः च आसीत् । ततोऽपि अधिकः चञ्चलः चेष्टालुः च । तस्य मित्रेषु सः एव नायकः । तेषां प्रिया क्रीडा आसीत् यत् प्रतिवेशिनः वृक्षम् आरुह्य फलानां चयनम् । वानराः इव तत्र कोलाहलं कुर्वतः बालकान् दृष्ट्वा वृक्षस्य अधिपतिः क्रुद्धः अभवत् । कोपेन बालकान् उक्तवान् ``वृक्षस्य उपरि एकस्य राक्षसस्य गृहम् अस्ति । यदि सः पश्येत् सर्वेषां कण्ठान् विदारयेत् एव'' इति । एतत् श्रुत्वा बालकाः भयभीताः अभवन् । किन्तु नरेन्द्रः भयं विना पुनः वृक्षम् आरूढः । ततः मित्राणि परिहासेन अवदत् ``भवन्तः सर्वे मूर्खाः ! अत्र कोऽपि राक्षसः वा प्रेतः वा नास्ति । यावत् सत्यं प्रत्यक्षं न पश्यन्ति तावत् कस्मिन्नपि विश्वासं मा कुर्वन्तु'' इति । ततः परं यदा नरेन्द्रः विवेकानन्दरूपेण धर्मप्रचारं करोति स्म तदापि एषा एवतस्य प्रथमा सूक्तिः यत् ``प्रत्यक्षं सत्यं पश्य । मया उक्तम् इति केवलम् एतस्मात् कारणात् विश्वासं मा कुरु'' ।



कालेन नरेन्द्रः युवकः जातः । सर्वविद्या-क्रीडा-कलासु प्रावीण्यं सः बहुसुलभतया प्राप्तवान् । पाठशालायां सर्वश्रेष्ठः विद्यार्थी क्रीडाङ्गणे अत्युत्तमः क्रीडाकारः सङ्गीते उत्तमः गायकः वादकः चापि सः । किन्तु तथापि सन्तुष्टिः न प्राप्ता । तस्य मनः साधारणविषयेभ्यः विरक्तं सत् आध्यात्मिकविषयेषु तृप्तिं प्राप्तुम् आरब्धवान् । सत्यान्वेषणाय भारतीयान् पाश्चात्यान् च तत्त्वशास्त्रसम्बन्धीनि अनेकानि पुस्तकानि सः पठितवान् । तस्मिन् काले भारतदेशे युवकेषु सुप्रसिद्धं ब्रह्मसमाजम् अपि सः गच्छति स्म । किन्तु नरेन्द्रः प्रत्यक्षं सत्यदर्शनेन विना कथं सन्तुष्टः भवेत् ? सच्चिदानन्दस्वरूपः भगवान् अस्माभिः द्रष्टुं शक्यते वा ? यदि शक्यते कोऽपि तं पश्यति वा ? तत् ज्ञानं मह्यं दातुं कोऽपि शक्नोति वा ? एते एव तस्य निरन्तरप्रश्नाः । तस्मिन् काले महापण्डिताः केशवचन्द्रसेनः, देवेन्द्रनाथटगोर्, ईश्वरचन्द्रविद्यासागरः इत्यादयः अपि नरेन्द्रस्य एतेषां प्रश्नानां सम्यक्
प्रत्युत्तरं दातुम् अशक्ताः एव आसन् ।



एवं सत्यान्वेषणे निमग्नेन नरेन्द्रेण श्रीरामकृष्णेति नाम्नः एकस्य परमहंसस्य विषये श्रुतम् । रामकृष्णः महायोगी कालीमातुः महाभक्तः तत्त्वदर्शी ऋषिः च इति सर्वे जानन्ति स्म । कोल्कता-नगरात् किञ्चित् दूरे दक्षिणेश्वरग्रामे निवसति स्म रामकृष्णः । कस्यापि सूचनया तं महापुरुषं मेलितुम् आध्यात्मिकान् प्रश्नान् प्रष्टुं चापि नरेन्द्रः निश्चयम् अकरोत् । यदि तत्रापि उत्तरं न लभ्यते तर्हि नास्तिकः भविष्यामि इति चिन्तयन् दक्षिणेश्वरं गतवान् आसीत् । तत्र नरेन्द्रस्य प्रश्नानां उत्तराणि लब्धानि किम् इति अग्रे पश्यामः ।



(अनुवर्तते)


हरि चन्दन् मन्त्रिप्रगड
CMU

मुद्रिकारहस्यम्

प्रातःकालस्य मनोरमा वेला । ब्राह्मणाः पवित्रसरित्सु स्नात्वा नित्यवद् भिक्षाटनार्थं निष्क्रान्ताः । अद्य कस्यां दिशि केन शत्रुणा योद्धव्यमिति चिन्तयन्तः क्षत्रियाः स्वासीन् शीशांसन्ति स्म । वैश्यजनाश्च तुलास्तुलयन्ति स्म । शूद्रजनाश्च शासनं परिक्रोशन्तः परिमार्जने व्यस्ता आसन् । केवलं रात्रिश्रमपरिश्रान्ता गणिकाश्चोराश्चैतद्वेलापर्यन्तं शयनमकुर्वन् । एवंविधे काले नित्यवत् स्नानादिप्रातःकर्माणि कृत्वा चतुरचतुरो गुप्तचरशिरोमणिर्घुण्डीराजः कौशेयवस्त्राणि श्वेतचम्पाकुसुममालां धृत्वा स्वस्थभुजयोश्च कङ्कणे बद्ध्वा कक्षे स्वासने विराजमानः कामदेवशचीपत्योः सहावतार इव दृश्यमान आसीत् । मृदुशुभ्रासने विराज्य सद्य एव स्वं प्रियसहचरं चतुराक्षमाहूयाकथयत् - ``भो चतुराक्ष, गतदिवसे नगरे यदपि घटितं तत्सर्वं मम निवेदय ।''
चतुराक्षस्तु पूर्वमेव कथयितुमाकुल आसीत् । करौ निबध्याब्रवीत् - ``स्वामिन्, गतदिवसे महाराजदुष्यन्तस्य राजसभायां विचित्रं घटितम् । एका शकुन्तलानाम्नी युवती कण्वाश्रमे संवृद्धा कैश्चित् निष्कुटुम्बैर्मुनिभिः सह राजसभायामागता । सा राजानमुक्तवती - भवान् मम पतिः, तस्मान्मां भार्यामङ्गीकुरु।''
``एवं कथम् ?''
``त्वया कण्वाश्रममागत्य मया सह गन्धर्वविवाहः कृत इति तया कथितम् ।''
``राज्ञा किमुक्तम् ?''
``तेनोक्तम् - हे देवि, कथमेवं विषमं ब्रवीषि, अहं तु त्वामद्य प्रथमवारमेव पश्यामि !''
``ततः किमभवत् ?''
``ततः सा रूपगर्विता आश्चर्यमभिव्यज्य स्वभाग्यं क्रोशन्ती प्रलपन्ती अवोचत् - हन्त हन्त, मम भर्तैवाद्य मां तिरस्करोति ।''
``अपि राज्ञा किञ्चित् प्रमाणं याचितम् ?''
``याचितम्, किन्तु युवती शकुन्तला प्रत्युक्तवती - अधुना तु ममोदरगर्भ एव प्रमाणम्, यतस्त्वया दत्ता मुद्रिका विलुप्ता ।''
``गर्भस्तु प्रमाणं न भवति । स तु यस्य कस्यचिदपि भवेत् ।''
``राज्ञापि तदेवोक्तम् ।''
घुण्डीराजचतुराक्षयोः जल्पतोरेव सेवक आगत्य न्यवेदयत् - ``वल्कलवस्त्रधारिणी काचिद्युवती भवन्तं दिदृक्षते इति ।''
``पश्य चतुराक्ष, सैवेयमागता यामावां चर्चयावः । अतः शेषकथां तस्या एव श्रोष्यामि । त्वया सावधानेन ज्ञातव्यमिदानीं राजा किं करिष्यति किंविधं च प्रवादं नगरे प्रसारयति ।''
``यद्देव आज्ञापयति'' इत्युक्त्वा चतुराक्षो निष्क्रान्तः ।
तदनन्तरं घुण्डीराजः कञ्चुकीमाहूयादिदेश - ``युवतीं कक्षमागमय आसनं च तस्यै प्रतिपादय ।'' शकुन्तला आगत्य प्रणम्योपविष्टा । घुण्डीराजः शकुन्तलायाः सौन्दर्यं निरीक्ष्य वञ्चित इव स्थितो विचारे मग्नः - ``कण्वाश्रम एवंविधा सम्पत्तिः पूरिता चेत्तत्रावश्यमेकवारं गन्तव्यमिति ।''
``भवती चिन्तिता दृश्यते ।''
``भवान् सत्यं ब्रूते । चिन्तयैव भवतः साहाय्यप्राप्त्यर्थमागतास्मि ।''
``निर्भयं चिन्ताकारणं कथय ।''
``मम नाम शकुन्तला, अहं च कण्वाश्रमे संवृद्धा ।''
``कौ ते मातापितरौ ?''
``मेनका मम माता, सा इन्द्रस्य राजसभायां नृत्यति । पिता च विश्वामित्रः । तस्य तपसि रतस्य मम मात्रा...''
``भवतु, भवतु । तत्काण्डं, मया श्रुतम् । भवत्या मातुस्तु महती चर्चा जनेषु वर्तते । भवतु, स्वविषये कथयतु ।''
``कतिपयमासपूर्वं राजा दुष्यन्त आगतः । स च मां गन्धर्वविवाहं प्रास्तौत् । मुनिस्तत्र नासीत्, प्रतीक्षाया अपि कालो नासीत् । ततः प्रस्तावो मयाङ्गीकृतः ।''
``अस्मिन्नायुषि प्रायश एवं भवत्येव'' - घुण्डीराज आह ।
``आवयोर्विवाहोऽभवत् । ह्यः यदाहं कण्वाश्रमात् पतिगृहमागता तदादुष्यन्तो मम परिचयमपि अपजानीतवान् । ''


``अपि न भवती तमस्मारयत् ? राजानो यात्रासु यत्र-तत्र विवाहान् कुर्वन्ति, किन्तु राजधानीमागत्य विस्मरन्ति । किन्तु भवत्सदृशां सुन्दरीमेकवारमवलोक्य कश्चिद्विस्मरेदिति सहसा न विश्वसिमि''।
``न केवलं दृष्टास्मि, विवाहितास्मि तस्य, तस्यैव च भविष्यतः शिशोर्माता ।''
``अतिदुःखदः प्रसङ्गः । अपि भवत्याः सविधे न किञ्चित् प्रमाणं विवाहस्य ?''
``एका मुद्रिका राज्ञा दत्तासीत्, सा विलुप्ता।''
किञ्चित्कालं विचार्य घुण्डीराज आह - ``उच्यताम्, मया कथं भवती सेवनीया ।''
``त्वं सिद्धो गुप्तचरः । नैकाः समस्यास्त्वया सुधारिताः । कण्वाश्रमशिष्या वेदपाठं विहाय तव कथाः सोल्लासं कथयन्ति । त्वं ज्ञास्यसि किमर्थं मां राजा तिरस्करोतीति, तथा च मां तस्य साम्राज्ञीं कारयिष्यसि चेन्मुखयाचितं धनं दास्यामि ।''
घुण्डीराजः प्रस्तावं स्वीकृतवान्।


(अनुवर्तते)



मूलम् - शरद् जोशी

भारतीयः गणितसम्प्रदायः

भारतदेशे गणितशास्त्रस्य व्युत्पत्तिः प्रथमतया कल्पज्यौतिषादीनां वेदाङ्गशास्त्राणाम् अध्ययनाय अनुष्ठानाय च साधनरूपेण अभवत् । उदाहरणार्थं कल्पसूत्रेषु यज्ञार्थं विविधाकारवतां यज्ञकुण्डानां निर्माणाय निर्देशाः दत्ताः । तेषु सूत्रेषु सुप्रसिद्धं बौधायनशुल्वसूत्रम् एव भारतीयगणितनिबन्धेषु प्राचीनतमम् । एवं वैदिकाध्ययनादारभ्य द्विसहस्रवर्षीयः महान् गणितसम्प्रदायः संवर्धितः अभवत् । अस्मिन् सम्प्रदाये न केवलं शून्यं, दशकगणनपद्धतिः च उपज्ञातौ , अपि तु यूरोप्-देशेषु बहुकालादनन्तरं प्राप्तानि प्रमेयानि अपि उपज्ञातानि ।


भारतीयगणितेतिहासस्य भागचतुष्टयं कर्तुं शक्नुमः । यथा -


(१) वैदिककालः (५०० B.C.E. पर्यन्तम्) - एतद्काले विरचितेषु शुल्वसूत्रेषु Pythagoreas theorem (भुजा-कोटि-कर्ण प्रमेयम्) इति विख्यातस्य प्रमेयस्य प्रस्तावाः सन्ति । द्वयोः वर्गमूलस्य(Square-root) आसन्नमूल्यम् अपि दत्तमस्ति इत्थं -"प्रमाणं तृतीयेन वर्धयेत्तच्च चतुर्थेनात्मचतुस्त्रिंशोनेन । सविशेषः ।" (बौधायनशुल्वसूत्रम् १.६१-६२)(अथ विशेषः (Diagonal) = 2^(1/2) = 1 + 1/3 + 1/(3 x 4) - 1/(3 x 4 x 34) = 1.41412156)वेदाङ्गसूत्रेषु पिङ्गलस्य छन्दस्सूत्रम् अपि गणितप्रबन्धरूपेण प्रसिद्धम् अस्ति । अत्र तु द्विपदप्रमेयं (Binomial Theorem), मेरुप्रस्तारः (Pascal's triangle), गुणसङ्कलितं (Sum of a Geometric Series) इत्यादयः विषयाः चर्चिताः । अपि च शून्यस्य प्रातिपदिक रूपेण प्रयोगं कृत्वा सङ्ख्यानां द्विमयरूपं (Binary Representation) लिखितमस्ति ।


(२) जैनगणितज्ञानां कालः (४०० C.E पर्यन्तम्) - जैनगणितज्ञानां बहवः ग्रन्थाः इदानीं न उपलब्धाः, अतः तेषां साधनाः ग्रन्थानां भाष्येभ्यः एव वयं जानीमः । स्थानाङ्गसूत्रं, तत्वार्थादिगमसूत्रभाष्यम् इत्यादिषु ग्रन्थेषु चर्चिताः विषयाः - विकल्पशास्त्रं (Theory of Permutation-Combination) , वर्गवर्गशास्त्रं(Theory of exponents), बीजगणितं (Algebra) इत्यादयः । अनन्तत्वस्य विषये जैनगणितज्ञानां प्रतिपत्तिः वचनीया अस्ति । ते सर्वाणि अनन्तत्वानि समानानि न अमन्यन्त परन्तु त्रिविध-अनन्तत्वानां विचारम् अकुर्वन् । एतद्रीत्या भिन्नविध-अनन्तत्वानाम् विचारम् आधुनिकगणितज्ञेषु Georg Cantor एव नवदशशताब्द्याम् कृतवान्।


(३) (५०० C.E. - १२०० C.E. पर्यन्तम्)- एतदेव भारतीयगणितशास्त्रस्य "सुवर्णकालः" इति बहूनां गणितैतिहासिकानाम् अभिप्रायः यतः आर्यभटः, भास्करः(I), महावीरः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः सुप्रसिद्धाः गणितनिपुणाः एतद्कालीनाः आसन् । आर्यभटस्य आर्यभटीयं वस्तुतः ज्योतिषशास्त्रग्रन्थम् अस्ति, यस्य गणितपादस्य ३३ श्लोकेषु बहूनि विपुलप्रमेयानि सन्ति । अत्र भुजाज्यायाः(half-chord of an arc or "radius(R)*sine"), कोटिज्यायाः("R*cosine") च लक्ष्यकरणं कृत्वा ज्योत्पत्त्यन्वयाः(Trigonometric relations) बहवः दत्ताः । p सङ्ख्यायाः आसन्नमूल्यम् अपि श्लोकरूपे दत्तमस्ति एवम् -"चतुरधिकं शतमष्टगुणं द्वाषष्ठिस्तथा सहस्राणाम्।अयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः ॥" (आर्यभटीयम्, गणितपादम् १०)(अथ pi = 62832/20000 = 3.1416) अन्यच्च मूल-वर्ग-घन-सङ्कलितानां (Sum of natural numbers, their squares and cubes) विधयः, द्विवर्णसमीकरणस्य इच्छफलं ( Solution of ax - by = c) प्राप्तुं `कुट्टक' इति विख्यातः क्रमः च दत्ताः । ब्रह्मगुप्तस्य ब्रह्मस्फुटसिद्धान्ते, परिलिखितचतुरश्राणां (Cyclic quadrilateral) निर्माणक्रमाः, वर्गप्रकृतिसमीकरणस्य ("Pell's equation") चर्चाः च सन्ति। एतस्य समीकरणस्य परिशोधनक्रमः तु भास्कराचार्येण(११५० C.E.) वर्णितः `चक्रवाल' क्रमः। यूरोप्-देशेषु एतस्य उपज्ञानं सप्तदशशताब्द्याम् एव अभवत् ! भास्कराचार्यस्य सिद्धान्तशिरोमणौ गोलस्य पृष्ठफलस्य, घनफलस्य (Surface Area, Volume of a Sphere) मूल्ये च दत्ते ।



(४) केरलगणितज्ञानां कालः (१६०० C.E. पर्यन्तम्)- भास्कराचार्यः एव भारतदेशस्य अन्तिममहागणितज्ञः इति पूर्वम् अभिप्रायः आसीत् । पञ्चाशत्वर्षपूर्वमेव केरलप्रदेशे रचितानां गणितप्रबन्धानां शोधनम् आरभत । तदन्तरमेव माधवः, नीलकण्ठः, परमेश्वरः, ज्येष्ठदेवः इत्यादीनां गणितज्ञानां महत्प्रमेयानि प्रकाशितानि अभवन् । उदाहरणार्थं भुजाज्यासङ्कलितं, शरसङ्कलितं (Series for R*sine, R*(1-cosine)) च नीलकण्ठस्य तन्त्रसङ्ग्रहे दत्ते । तथा हि p सङ्ख्यायाः सङ्कलितं माधवः दत्तवान् एवं -``व्यासे वारिधिनिहते रूपहृते व्याससागराभिहते। त्रिशरादिविषमसङ्ख्यामत्तमृणं स्वं पृथक् क्रमात् कुर्यात् ॥"(अथ परिधि(circumference)/व्यास(diameter) = pi = 4[1- 1/3 + 1/5 - 1/7 ...] )



उपरिलिखित-गणितसाधनाः विलोक्य अस्माकं मनसि केचन प्रश्नाः जायन्ते। भारतीय-गणितज्ञाः कान् क्रमान् उपयुज्य एतानि प्रमेयानि प्राप्नुवन् ? प्रमेयाणाम् अवगमनार्थं, प्रमाणरूपेण च उपपत्तीः, समाधानानि वा दत्तवन्तः किम्? एतेषां प्रश्नानाम् उत्तराणि ज्ञातुं गणितप्रबन्धानां स्वरूपावगमनम् आवश्यकं भवति । भारते गणितग्रन्थाः द्विविधाः भवन्ति- (१) मूलग्रन्थाः (२) भाष्यानि च । (भारतदेशे न्यायव्याकरणदर्शनादि-अन्यशास्त्रग्रन्थान् अपि एतद्प्रकारेण विभजनं कर्तुं शक्नुमः एव ।) मूलग्रन्थेषु अनेकानेकप्रमेयाणां सङ्ग्रहः भवति । अपि च लघूत्तराणि समाधानानि, कानिचन उचितानि उदाहरणानि च दीयन्ते । परन्तु प्रमेयाणाम् उपपत्तीनां च विचाराः विस्तरेण न भवन्ति । शुल्वसूत्राणि, छन्दस्सूत्रं, आर्यभटीयं, सिद्धान्तशिरोमणिः, तन्त्रसङ्ग्रहः इत्यादयः प्रसिद्धमूलग्रन्थाः ।


भाष्यग्रन्थेषु प्रमेयाणां विचाराः विस्तरेण भवन्ति । साधारणतया उपपत्तयः अपि लिख्यन्ते । अतः भारतीयगणितशास्त्रे भाष्याणां प्रामुख्यम् तु मूलग्रन्थानां सदृशमेव । तस्मादेव गणितज्ञवराः न केवलं मूलग्रन्थान् निर्मितवन्तः, अपि तु पूर्वजगणितज्ञैः लिखित-प्रबन्धानां, स्वयंरचित मूलग्रन्थानां च भाष्यानि अपि लिखितवन्तः । उदाहरणार्थं, भास्करः(I) नीलकण्ठः च आर्यभटीयभाष्यं लिखितवन्तौ, भास्कराचार्यः स्वयंविरचित सिद्धान्तशिरोमणेः भाष्यं लिखितवान् च । दौर्भाग्यवशात् भाष्यग्रन्थानां अनुवादः अधिकतया न कृतः, अतः गणितेतिहासविद्भिः अपि एते ग्रन्थाः सम्यक् न शोधिताः । प्रायः तस्मादेव भारतीयगणितशास्त्रेषु अधिकतया उपपत्तयः न वर्तन्ते इति अभिप्रायः प्रचलने अस्ति ।



लेखनेऽस्मिन् भारतीयगणितार्णवात् कानिचन मौक्तिकानि एव प्रकटीकृतानि । अस्माकं मध्ये भारतीयगणितप्रमेयाणां विषये यावत् ज्ञानं वर्तते तावत् गणितपद्धतेः विषये नास्ति। एतस्याः स्थितेः निवारणाय भाष्यग्रन्थानां शोधनम् अत्यावश्यकं भवति ।



References:

The crest of the Peacock: Non-European roots of Mathematics, George.G.Joseph, Princeton University Press, 2000.

Contributions to the History of Indian Mathematics, Edited by G.G.Emch et.al., Hindustan Book Agency, 2005.



प्रभा मण्ड्यम्
Caltech

डिसेम्बर्-मासस्य पत्रिकायाम्....

"चेतःकर्षणम्" इति पद्यं सन्दीपवर्मणा बेङ्गालीभाषामूलात् अनुवादितम् । बेङ्गालीमूलस्य रचयिता अस्ति ऋषिः श्रीमद्रामप्रसादः । पद्यरचने महत्साहाय्यं दत्तवते धनञ्जयवर्याय अनुवादकः सन्दीपवर्मा हार्दान् धन्यवादान् समर्पयति ।

कैलास-मानस-सरोवर-यात्रा

कैलासयात्रा करणीया इति अनेकवारं मम पतिः अहं च अचिन्तयाव । यात्रा कठिना अस्ति, बालकाः न गच्छेयुः, उत्तुङ्गशिखरकारणात् श्वासोच्छ्वासाय कष्टाः भवन्ति, ग्रीष्मकाले गमनीयम् इति श्रुतवन्तौ । कथं गन्तुं शक्ष्यावः यतः आवयोः बालकौ स्तः ? ईश्वरानुग्रहेण, बेङ्गलूरुनगरे एकस्य आवासीयविद्यालयस्य पाक्षिकं क्रीडाशिबिरं भविष्यति इति अपठाव । तस्मिन् शिबिरे बालकौ प्रेषयितुं निर्णयं कृतवन्तौ । गुरोः कृपया वृद्धानाम् आशीर्वादैः आवां यात्रारम्भं कृतवन्तौ ।


पार्थिवसंवत्सरे वैशाखमासे नवदेहलीतः काठ्माण्डुनगरम् अगच्छाव । दिनद्वयं तत्रैव श्रीपशुपतिनाथदर्शनार्थम् अवसाव । यात्राधिकारी यात्राविषये महत्सूचनाम् अददात् । अनन्तरं लोकयानैः शतजनाः काठ्माण्डुनगरात् जाङ्गमुनगरं गतवन्तः । मार्गे वयम् अपश्याम यत् प्रशान्तबाग्मतीनदी प्रावहत् । जाङ्गमुनगरं भारतटिबेट्-देशयोः सीमायाम् अस्ति । तत्र अनुज्ञापत्राणां मुद्राकार्यानन्तरं टिबेट्-देशः प्रविष्टः । न्यालम्पत्तने एकं दिनम् अतिष्ठाम । प्रातःकाले श्रेष्ठमिलारेपामुनेः मठं गत्वा, तत् सर्वं दृष्ट्वा, विशेषतः तां महतीं शिलाम् अस्पृशाम, यस्य अधः उपविश्य सः मुनिः महत्तपः चकार ।
शैत्यात् वयम् अकम्पामहि । अहं किञ्चित् श्वासाय क्लेशम् अपि अन्वभवम् । रात्रौ अस्माकं प्रकोष्ठे चतुर्भिः मित्रैः सह वार्तालापम् अकुर्म यत् कथं कैलासपर्वतस्य ५३ किलोमिटर्‌परिक्रमं कुर्यामेति । न्यालम्पत्तने एव मया ज्ञातं यत् न्यालम्प्रत्यागमनपर्यन्तं पटमण्डपे एव शयिष्यामहे इति । तदा अहम् अवदं यदि परिक्रमसमये परिश्रमम् अनुभविष्यामि चमरोपरि उपवेक्ष्यामीति । तदा यात्रास्निग्धः अवदत् "एवं मा कुरु, चलितुं शक्ष्यसि । यदि चमरारोहणं करिष्यसि, तर्हि पुनर्जन्मनि चमरः भविष्यसि'' । तत्क्षणे एव चलिष्यामि इति निर्णयं कृतवती । लघुलोकयानैः न्यालन्नगरात् सागान्नगरं गत्वा सागान्नगरतः पर्याङ्ग्‌-नगरम् आगतवन्तः । समग्रदिनत्रयानन्तरं मानससरोवरतटम् अगच्छाम । अमलं स्तिमितं वैढूर्यवर्णसरोवरं दृष्ट्वा अमोदे ।


मानससरोवरतटे अतीवशैत्यम् आसीत् । तदानीम् अशृणुम अग्रे हिमवर्षा अधिकाभवत् अतः आगामियात्रा दुष्करी भविष्यति इति । यात्राधिकारी अस्मान् उपादिशत् यत् सावधानेन भवितव्यम् इति । शतजनेषु चतुर्दशजनाः ``कथमपि श्वः गमनीयम्'' इति निश्चयम् अकुर्म । शेर्पाजनाः अस्माभिः सह आगमिष्यन्ति इति व्यवस्थाम् अकुर्म । ते अस्माकं परिक्रमार्थं पटमण्डपान् आम्लजनककोशान् (oxygen cylinder) शुष्कफलानि जलकूपीः च आनयन् । तैः विना यात्रा असाध्या अभविष्यत् ।
यमद्वारतः चतुर्दशजनाः पदयात्रारम्भम् अकुर्म । प्रथमदिने सप्तदशकिलोमीटर् अचलाम । औन्नत्यात् मन्दमेव श्वासनं, गमनं, भोजनं, पानं च कृतवन्तः । सूर्यास्तानन्तरमेव पटमण्डपे निद्रां कृतवन्तः । रात्रौ शीतकम् इव आसीत् पटमण्डपे । द्वितीयदिने सूर्योदयसमये ज्ञातं पटमण्डपस्य पृष्ठतः अस्ति बृहान् दिव्यः कैलासपर्वतः । पुनः पुनः साष्टाङ्गनमस्कारं अकुर्व शिवशक्तिजपं च अवदाव ।


एतस्मिन् दिने द्वाविंशतिः किलोमीटर् दूरं पादाभ्यां गतवन्तः अपि च दुष्प्राप दोल्माला पास् पारं गतवन्तः । दोल्माला पास् हिमाद्रेः अतीव उत्तुङ्गं स्थलम् अस्ति । तत्र श्वासोच्छ्वासाय कष्टम् अनुभूतवन्तः । दोल्माला पास् अवतरणानन्तरं रात्रौ पुनः पटमण्डपे अस्वपाम । त्रितीयदिनस्य चतुर्दशकिलोमीटर् पदयात्रा सुलभा आसीत् । त्रीणि दिनानि केवलं शुष्कफलानि जलं च स्वीकृतवन्तः । परिक्रमानन्तरं स्थिरमत्या शीतलमानससरोवरे आवां स्नानं कृतवन्तौ । इदानीमपि चिन्तयामि देवी एव शक्तिं दत्तवती । ईश्वरेच्छासीत् आवयोः यात्रा सम्पूर्णा भूयात् इति । आवां तस्मै शिवाय तस्यै देव्यै च कृतज्ञतां सदार्पयाव । ॐ नमः शिवाय ।

ज्योत्स्ना कलवार्
PSU अध्यापिका

संस्कृतेन सम्भाषाणं कुरु....

अस्मिन् वर्षे समग्रे अमेरिकादेशे संस्कृतभारत्या चत्वारि आवासीय-शिबिराणि आयोजितानि सन्ति । प्रथमं मे २३ तः २६ पर्यन्तं पश्चिमतटस्य कुटुम्ब-शिबिरं लोस् आन्जलिस् नगरस्य समीपस्थे पर्वतप्रदेशे भविष्यति । तत्समाप्य, जून् २२ तः २८ पर्यन्तं संस्कृतभारत्याः पूर्वतटस्य वार्षिकयुवशिबिरम् आर्षविद्यागुरुकुले पेन्सिल्वेनिय-राज्ये प्रचलिष्यति । तथा पश्चिमतटे जुलै ९ तः १३ पर्यन्तं युवशिबिरं सान् होसे नगरे भविष्यति । सेप्टेम्बेर् मासे लेबोर्डे सप्ताहान्ते एडिसोन् नगरे पूर्वतटस्य कुटुम्बशिबिरं भविष्यति । आवासीयशिबिरविवरणानि अधिकानि आवश्यकानि चेत्, विश्ववाण्याः सम्पादकयोः सम्पर्कः क्रियताम् ।

सत्यवाक्यस्य विषयः

डिसेम्बर्-मासस्य पत्रिकायां बालादित्येन "सत्यवाक्यम्" इति विषयः सुचर्चितः । लेखने विद्यमानं श्लोकं पुनः वक्ष्यामि प्रथमम् ।


सत्यं ब्रूयात् प्रियं ब्रूयात्
न ब्रूयात् सत्यमप्रियम् ।
प्रियञ्च नानृतं ब्रूयात्
एष धर्मस्सनातनः ॥


तत्र विवक्षितं यत् सत्यकथनं साफल्याय कल्पितञ्चेत् तत् सत्यं वक्तव्यमिति । अप्रियसत्यकथनेन कोऽपि लाभः नास्तीति अभिप्रायः ।

सत्यं नाम पारमार्थिकं सत्यं न । इह दैनन्दिनविषयस्य चिन्तनम् । "एतत् सत्यम्" इति चेत् यत् द्योतितं, तत् व्यावहारिकं, पूर्णं सत्यम् । वक्तुः दृष्टिम् अनुसृत्य सत्यं नापराणाम्, इति न । तथैव श्रोतुः दृष्टिम् अनुसृत्य विषयः सत्यं दर्शयति इति न । सति साधु यत् तत् सत्यम् । ततः यदि "एतत् सत्यम्" इति कथितं तर्हि तत् वक्तुः श्रोतुः वा विवक्षां न अपेक्षते । यानि वचनानि एवं पूर्णं सत्यं न भावयन्ति तानि हेयानि ।

प्रियं किमिति चेत् तत् अनुद्वेगकरं वचनम् । अप्रियवचने उद्वेगः कुत्र जायते ? श्रोतरि । अप्रियकथनेन वक्तर्यप्युद्वेगो भवेत् । परन्तु सः उद्वेगः न गण्यते । तथैव प्रियवाक्यकथनेन वक्ता तुष्येत् । इदानीं उभयोरपि प्रियाप्रियानुभवयोः प्रासङ्गिकता नास्तीति चिन्तयाम ।

यदा कश्चित् विषयः सत्यं प्रतिपादयन्, श्रोतरि दुःखमुत्पादयितुम् शक्नोति, तदा वक्त्रे क्लेशः । सः तस्मिन्नवसरे किं कुर्यादिति प्रश्नः जायते खलु । सत्यं वद इत्युपनिषत् प्रेरयति वक्तारम् । वक्ता सत्यं वक्तुमिच्छति । परन्तु श्लोकोऽयं सत्यस्याप्रियस्य कथनं निवारयति । उदाहरणैः चिन्तनं कुर्मः द्वन्द्वपरिहाराय ।

कुरुक्षेत्रे युधिष्ठिरः `अश्वत्थामा हतः' इति उच्चैः उक्त्वा `कुञ्जरः' इति नीचैः उवाच । तेन द्रोणः पुत्रः अश्वत्थामा हतः इति चिन्तयन् कुञ्जरम् अशृण्वन् सुतरां दुःखितः, पराजितः । धर्मराजोक्तिः निश्चयेन अप्रिया । यदि धर्मराजः पदत्रयमपि उच्चैः अवदिष्यत् तर्हि सत्यम् अभविष्यत् । परन्तु सः कुञ्जरः इति नीचैः वदन् पूर्णं सत्यं न उवाच । ततः वचनम् असत्यमप्रियमिति जातम् । वचनमिदं साफल्याय कल्पितम् । तथापि न वक्तव्यं खलु ।

धर्मराजोक्तिः सत्या वा ? द्रोणः कुञ्जरं तुमुले न शृणुयात् इत्येव युधिष्ठिरस्य भावः । ततः अनृतमुवाच सः इति वक्तुं शक्यते । परन्तु पदत्रये भावे न अनृतमिति वादः । वचनमिदं प्रियं वा ? द्रोणाय कौरवगणाय तु न । जनानां हितार्थाय पाण्डवगणाय तु प्रियमेव । एवं धर्मराजोक्तेः वचनार्हतां साधयितुं शक्नुमः । युधिष्ठिरः प्रियं नानृतमुवाचेति ।

पूर्वमवदं यत् वक्त्रनुभवं न गणयाम इति । वक्तुः अपि प्रास?कता त्वस्त्येव । अतो तस्य अगणनेन पूर्णः विषयः कथं भवेत् ? प्रसङ्गोऽयम् । काचित् महिला धृतनूतनशाटिका पतिमासाद्य सूर्यकान्तिपुष्पमिव कृताभिमुखं पृच्छति कथं भासे इति । नूतनवेषम् अनिच्छन्नप्रियं विवक्षति कान्ताम् । किन्तु स्मितवदनाम् ईक्षमाणः कान्तायाः अनागतकठोरवचनं निवारयितुकामः साधु मत्सुधे साध्विति वदति । यदि सः यथागतभावम् अवदिष्यत् सा खिन्ना अभविष्यत् । तेन सोऽपि दुःखार्धं अन्वभविष्यत् । एवम् उभाभ्यामपि `साधु साधु' इति कथनं प्रियम् । प्रेम्णि च युद्धे च सर्वं नानृतं ननु । अतोऽस्मिन् प्रसङ्गे नानृतम् प्रियं युक्तम् ।

तथापि एतेन प्रियाप्रियसत्यासत्यपरिहारेण न सर्वस्य सान्त्वनं कृतम् । किमर्थम् ?

सुलभाः पुरुषा राजन्
सततं प्रियवादिनः।
अप्रियस्य च पथ्यस्य
वक्ता श्रोता च दुर्लभः॥

हे राजन् सततं प्रियवादिनः पुरुषाः सुलभाः। अप्रियस्य पथ्यस्य च वक्ता श्रोता च दुर्लभः।

प्रियं वदति इति प्रियवादी । ते प्रियवादिनः ।

हे राजन् सततं निरन्तरं प्रियवादिनः पुरुषाः सुलभाः, यत्नेन विना प्राप्याः । अदिष्ट्या, अप्रियस्य पथ्यस्य हितकरस्य, वक्ता श्रोता च दुर्लभः ।

एतम् आधारीकृत्य प्रथमं श्लोकं पुनः गणयामः । प्रियं सत्यं ब्रूयात् । प्रियः जामातुः नामान्तरम् । अतः जामातरं सत्यं ब्रूयात् । अप्रियं सत्यं न ब्रूयात् । यः कोऽपि जामाता न तस्मै सत्यं न ब्रूयात् । अपि च प्रियं जामातरं न अनृतं ब्रूयात् । अनृतं सत्यं इत्येतयोः भेदः कः इति तु उपर्यङ्कितः । ततः जामातरमेव सत्यं ब्रूयात् इति धर्मः सनातनः । इति विपरीतार्थः ।


नरेशः कुन्तूरु
UMD स्नातकः