Sunday, November 16, 2008

मुद्रिकारहस्यम् - ३

पूर्वं...
एका शकुन्तलानाम्नी युवती महाराजदुष्यन्तस्य राजसभायामागत्य राजानमुक्तवती - भवान् मम पतिः, तस्मान्मां भार्यामङ्गीकुरु । राजा दुष्यन्तः तामपाजानीत । शकुन्तला गुप्तचरशिखामणेर्घुण्डीराजस्य साहाय्यमयाचत । सोऽपि प्रस्तावमङ्गीकृतवान् । स सेवकं चतुराक्षमाहूयाब्रवीत् - राजभवनाद्यथाकथञ्चिदपि ज्ञानं कुरु यदि कतिपयदिवसपूर्वं राजा कण्वाश्रमं गत आसीन्न वेति । राज्ञः सारथिश्चतुराक्षस्य परिचित आसीत् । तेन ज्ञातं - त्रिचतुर्मासपूर्वं राजा कण्वाश्रमं गतवनासीत् । घुण्डीराजः सूक्ष्मान्वेषणदृष्ट्या कण्वाश्रमं गतः । तत्र प्रियंवदादिभिः कन्याभिस्सह वार्तालापमकरोत् । सहसैव कण्वर्षिमागच्छन्तमालोक्य कन्यास्ततो निलीनाः ।

इदानीं...


कण्वमुनिर्वृद्ध आसीत्, अतिपाटविकः । वितृष्णवाचा अवोचत् - किं कुर्याम्, ममाश्रम एवंविधं किञ्चित् प्रतिवर्षमेकवारं द्विवारं घटत्येव । मया किं करणीयम् ? नागरिका विलासिनो युवान आगत्य कन्येच्छया आश्रमं परितो भ्रमन्ति । सीत्कुर्वन्ति, सीटीर्वादयन्ति । वर्तमानयुग आश्रमाणामपि शान्त्या निर्वाहो न भवति । पूर्वमेवं नासीत् । कस्यचिदपरस्य विषये किं वाच्यं, स्वयं दुष्यन्तोऽपि शकुन्तलया..., यां मेनका परित्यज्य गता मया च पालिता संवर्धिता च । पाखण्डी विश्वामित्रः, ऋषिम्मन्यो राजगृहं गत्वा महद्धनं प्राप्याप्येकां कन्यां न पालयितुं शक्नोति । किञ्चित्कालपूर्वमेवैकस्मिन् यज्ञे स मया दृष्टः । शकुन्तलाविषयं प्रकृत्य मया स उक्तः - कन्याया विवाहः करणीयः, धनं देहीति । स उक्तवान् - अहं तु तं प्रसङ्गं मनसो विस्मारितवान् ।


मयोक्तम् - भो वृद्ध, अपि न लज्जसे ऋषिः सन्नप्येवं भाषमाणः । मेनकया सहामोदविहाराय भवान्, सन्ततिं च संवर्धयितुमहम् । धूर्तोऽसि त्वम्, तपसः पाखण्डमाचरसि । स्त्रियं दृष्ट्वा कौपीनबन्धनमुन्मुक्तम् । मां पश्य, वर्षेभ्य आश्रमं प्रवर्तयामि, न कदापि एकमपि काण्डमभवत् ।


किन्तु भवानेव ज्ञापयतु श्रीघुण्डीराज, मयागन्तॄणां किं करणीयम् । दुष्यन्तः शकुन्तलां विवाह्य नगरं निवृत्तः । मयाश्रमं प्रतिनिवृत्तेन ज्ञातम् ।


एतेनाश्रमस्य निन्दा प्रवर्तते - घुण्डीराज आह ।


अरे त्यजतु । जनाः सन्ततीरुत्पाद्य अत्र त्यक्त्वा गच्छन्ति । तेषां निन्दा न प्रवर्तते, अहं ताः सन्ततीः पालयामि, मम निन्दा प्रवर्तते । विचित्रो लोकप्रसादः । अत एव मया शकुन्तलां दुष्यन्तगृहं नयन्तः शिष्या उक्ताः - यदि दुष्यन्त एनां न स्वीकरोति, तत्रैवेयं विसर्जनीया, नाश्रमममानेया । चिन्त्यतां घुण्डीराजमहोदय, अहमृषिः, अन्यान्यपि मम कर्तव्यानि सन्ति ।


अपि न सा मुद्रिका लभ्यते या दुष्यन्तेन दत्तासीत् - घुण्डीराजोऽपृच्छत् ।


अरे, अलम् मुद्रिकया । सम्मुखं स्थिता पञ्चहस्ता नारी नाभिज्ञाता, मुद्रिकां कथमभिज्ञास्यति । पुनरपि मया स्पष्टं कथनीयं यन्मुद्रिकात्र न लुप्ता, मार्गे क्वचिद्विलुप्ता । मां तु प्रतीयते - शकुन्तलां पतिगृहं नयद्भिरेतैः साधुभिः सा मुद्रिका चोरिता नगरे च विक्रीता । अद्यैव प्रातस्ते प्रतिनिवृत्ताः । अहं तान् दुष्टान् पृच्छामि - शकुन्तलां दिवसचतुष्टयपूर्वं दुष्यन्तसविधे त्यक्त्वा कुत्रैतावान् कालो यापित इति । श्यालाः न किञ्चिदप्युत्तरन्ति ।


किञ्चित्कालानन्तरं कण्वाश्रमाद्बहिरागच्छन्तं घुण्डीराजं कश्चिन्मुखबद्धं कृत्वा कृपाणं च पृष्ठे स्थाप्य उक्तवान् - तूष्णींभूय चलतु, गुप्तचरमहोदय ! किञ्चिद्दूरं नयनबद्धमेव नीत्वा स एकस्मिन् स्थाने उपवेशितः । मुखबन्धनेऽपगते तेन दृष्टं यदाश्रमकन्या हसन्त्यः परितः स्थिताः । नहीदं कथनीयं भवति यद् घुण्डीराजस्तस्मिन् दिने गन्धर्वविवाहमकृत्वा कण्वाश्रमादागन्तुं न शक्तोऽभवत् ।


कण्वाश्रमे प्रियंवदायाः प्राप्तिं विना न किञ्चिदन्यल्लब्धं घुण्डीराजेन । स्वस्थानं प्रति निवर्तमानेन घुण्डीराजेन राज्ञो रथो दूरतो दृष्टः । स चतुराक्षमाह - कथमत्र राजा, अपि स कण्वाश्रमं गच्छति ? न कण्वाश्रमम्, अपि तु सिद्धयोगिन आश्रमम् । त्रिचतुर्मासेभ्यः स तत्र प्रतिपक्षं एकवारं द्विवारं वावश्यं गच्छति ।


अत्र किञ्चिद्रहस्यमिव प्रतीयते ।


घुण्डीराजो गुप्तं रथादवतीर्याश्रमभवनमारूढः । एको योगीराज एकया सुन्दर्या सहितस्तिष्ठति स्म, अयं च नातिचिरं प्राप्तो दुष्यन्तः करौ बद्ध्वा योगिनश्चरणयोः प्रणतस्तिष्ठति स्म । योगी उवाच - श्रूयते कण्वाश्रमादेका कन्या तव साम्राज्ञीपदलिप्सया राजसभायामागतासीत् ।


सत्यं श्रूयते, किन्तु मया सर्वथा तिरस्कृता ।


बाढम्, बाढम् इत्युक्त्वा सुन्दरीमुद्दिश्य योगिनोक्तम् - तत्स्थानं तु मम मायायै सुरक्षितम् ।


दुष्यन्तः स्मितवान् । स मायामपश्यत् । घुण्डीराजोऽपि मायामपश्यत् । सा हि शकुन्तलायाः सौन्दर्यमतिशय्य विराजते स्म । घुण्डीराजेनावगतम् - यस्माद्राजा एनामधिकसुन्दरीमिच्छति, तस्मादेव शकुन्तलामपजानीते ।


नवम्यां तिथौ यावच्छक्यं धनमत्रानय । तस्यामेव रात्रौ बलिर्भविष्यति । तदन्तरं त्वं निष्कण्टकं राज्यं प्राप्स्यसि ।


यथा गुरोराज्ञा इत्युक्त्वा राजा प्रस्थितः ।


किन्तु सहसैव घुण्डीराजस्य चलनेन ध्वनिरभवत् ।



(अनुवर्तते)

No comments: