Sunday, November 16, 2008

पुस्तकपरिचयः


दृष्टिदानम्
कन्नडमूलम् - डा. दोड्डिरिवेङ्कटगिरिरावः
संस्कृतानुवादः - जनार्दन हेगडे


कार्यालये सम्भवितात् अपघातात् आन्ध्यं प्राप्यते विकासेन । कदाचित् तस्य सुमत्या सह सम्पर्कः भवति । दयाघृणादिभावान् अप्रदर्शयन्ती सुमतिः तस्मै अरोचत । स्वस्य काचित् गतिः भवतु लोकोपवादः मास्तु इति विचिन्त्य विवाहः प्रस्तापितः विकासेन । तावति तस्मिन् अनुरक्ता सुमतिः विवाहं अङ्गीकरोति । यद्यपि विकासदृष्ट्या विवाहः तु केवलं आनुकूल्यार्थं कल्पितः सम्बन्धः सुमतिः कथं तस्य प्रीतिं प्रेम च सम्पादयति इति विषयः अस्याः कथायाः ।

ललितया शैल्या अनूदिता अस्ति कथा जनार्दनहेगडेवर्येण । कथा रमणीया इत्यतः पुस्तकं पठनीयमेव । पठनेन संस्कृतभाषाज्ञानवर्धनम् अपि भवति ।

पुस्तकं samskritabharati.org तः प्राप्तुम् शक्यम् ।

No comments: