Sunday, November 16, 2008

भारत-अमेरिकयोः परमाणुशक्तिसम्मतिः

अनतिदूरे काले भारत-अमेरिकादेशयोः परमाणुशक्तिसम्मतेः कार्याभिवृद्धिः सञ्जाता । अस्याः सम्मतेः प्रगतिः बहुभ्यः वर्षेभ्यः वर्धमाना प्रस्तुतस्थितौ प्रायः निश्चितसत्रे वर्तते । कार्यमिदं कथं प्राचलत्, अस्य कर्तारः के, के च प्रशंसार्हाः इति श्रोतव्यः ज्ञातव्यः विषयः । अस्मिन् लेखने सम्मतेः स्थूलपरिचयकल्पनस्य प्रयत्नः क्रियते ।



दीर्घकालपर्यन्तम्

प्रायः त्रिंशत्वर्षात् पूर्वं भारते इन्दिरागान्धीशासनेन प्रथमपरमाणुपरीक्षा कृता शान्त्यात्मकेन अभिधानेन । किम् अन्ये हिंसात्मक-परीक्षां कुर्वन्ति इति मा प्राक्षीः ! अग्रिमपरीक्षाः तु वाजपेयीशासनेन पञ्चषेभ्यः संवत्सरेभ्यः पूर्वं कृताः । ताभिः परीक्षाभिः भारतीय-वैज्ञानिकाः स्वकार्यसिद्धतायाः कृतसमीक्षणाः तान्त्रिकं वैज्ञानिकं च औन्नत्यं प्राप्नुवन् । तथा विश्वस्य निन्दां श्रुण्वन् भारतः अनुबन्धान् (sanctions) अन्वभूत् । परमाणुपरीक्षया विश्वस्य हानिरेव जायते, इतोऽपि अधिकं शस्त्रस्पर्धा एव फलम् एवमादि बहुविधाः निन्दाः क्षिप्ताः अन्यैः राष्ट्रैः । भारतसर्वकारः राष्ट्रान् परिदेवयन्, स्वक्लेशान् निवेदयन्, भारतीयपरिस्थितेः अवगमनं याचमानः यथाशक्ति अग्रिमविचारस्य उपस्थापनम् अकरोत् । न केवलं सर्वकारः संभाषणे रतः, परन्तु बहवः सामन्यभारतीयाः अपि विवक्षां प्रकटयन्ति स्म । तदा एकस्यां निशायाम् एव अनेके विदुराः जाताः इव आसीत् । परीक्षया कुपिताः अन्ये राष्ट्राः भारतस्य विवरणेन न तु सन्तुष्टाः । तथापि भारतेन प्रारम्भः कृतः । अपि च एतत् कार्यं केवलं वाजपेयीशासनेन सञ्चालितः इति न । तस्मात् पूर्वमपि अन्यानि नारसिंहरायादीनि शासनानि एतादृशकार्येषु शनैः शनैः कार्यप्रगतिं साधितवन्तः । साफल्यात् वञ्चिताः अपि नष्टचेतस्काः नाभवन् । किन्तु क्षमया दीर्घकालं यावत् अन्यान् राष्ट्रान् भारतीयदृष्ट्यभिमुखं कर्तुम् अगतोत्साहानि भारतीयशासनानि यतन्ते स्म ।



नैरन्तर्यम्

अथ अन्यैः राष्ट्रैः अनुबन्धिते भारते सचिव-जस्वन्त्-सिंहस्य अधिकारी-स्ट्रोब्-टाल्बट्-महोदयस्य च संभाषणानि आरब्धानि । सचिवस्य प्रमुखचर्चाविषयाः आसन् भारतस्य परमाणुपरीक्षाकारणानां स्पष्टीकरणं च परमाणुयोजनावबोधनं च । क्रमशः तयोः चर्चाः अभ्यवर्धन्त । ताभिः चर्चाभिः स्ट्रोब्टाल्बट्-महोदये भारतस्य परिस्थितेः अवधारणं सञ्जातं भारतस्यैव दृष्ट्या । एतस्य कल्पनम् अत्यावश्यकाय अभूत् यतः तस्मात् कालात् पूर्वं नैरन्तर्येण भारत-अमेरिकयोः परमाणुशक्तेः संभाषणं नासीत् । टाल्बट्महाभागः गच्छति काले एताः चर्चाः आधारीकृत्य पुस्तकमलिखत् ।


तादृशचर्चा वर्तमानेन मनमोहनसिंहशासनेन अग्रे नीता । मनमोहनमहाभाग-बुष्‌महोदययोः दृष्टिसाधर्म्ये जाते अनयोः देशयोः परमाणुशक्तिसम्मतिः भवितुम् अर्हतीति सिद्धम् । भारतः उपत्रिंशत्संवत्सरानन्तरं परमाणुशक्त्यनुबन्धात् विमुक्तः भवेत्, अन्यैः राष्ट्रैः अनुमोदितशक्तिः स्यात् इति निश्चितमनाः बुष्‌महोदयः स्वशासनाय तस्योद्देशस्य साधनाय अध्वानं दर्शयित्वा भारत-अमेरिकयोः संबन्धस्य प्रगतिम् अकल्पयत् । अपि च सम्मतिरियं विश्वस्य अन्यैः देशैः सहापि भारतस्य नवसंबन्धस्य उद्घाटनं दीपज्योतिरिव अकरोत् । यद्यपि सम्मतिः पूर्णतया एतावत् पर्यन्तं (अस्य लेखनस्य समये) न फलितं तथापि या प्रगतिः कृता सा श्लाघनीया । अस्मात् स्थानात् सम्मतिसिद्धिः भवत्येव इति श्रुतवाक् ।



सत्कृतिः

अनया परमाणुशक्तिसम्मत्या साध्याः अनेके सन्ति । इतः पूर्वं भारतीयवैज्ञानिकाः इतरेषां साहाय्यं विना संशोधनं कुर्वन्तः तान्त्रिकाभिवृद्धिं साधयन्तः स्वकल्पितशक्तिं प्रदर्शितवन्तः एव । विश्वसाहाय्यं विना प्रगतिः शक्यापि, मन्दं भवेत् । अपि च विदितविषयाणां पुनर्वीक्षणं भवति ।


सम्मतेः साफल्यात् भारतीयवैज्ञानिकाः इतरवैज्ञानिकैः संभाषन्ते । परस्परविचारविनिमयं कुर्वते । वर्षाकाले यथा घनमेघेषु त्यक्ततोयेषु अन्तर्भूतेषु सूर्यकिरणानि भुविं स्पृष्ट्वा नवजीवनं कल्पयन्ति तथा सिद्धौ सम्मतिसाफल्ये नष्टानुबन्धाः भारतीयवैज्ञानिकाः पुनरुदितचेतस्काः विश्वासवर्धके प्रशंसनीये कार्ये निमग्नाः भवन्ति । ततः वैज्ञानिकी तान्त्रिकी च अभिवृद्धी सञ्जायेते । तदभिवृद्धेः परिणामः भारतस्य कीर्तिपताका इव राजते । विज्ञानिनः विश्वमञ्चे पात्रत्वं लब्ध्वा ह्रीं विना प्रगतिं प्रदर्शयेयुः ।



दार्ढ्यम्

अद्य विद्यमानायां सम्मत्यां मुख्यांशाः एवं सन्ति । भारतः चतुर्दश परमाणूत्पादककेन्द्राणि अन्ताराष्ट्रियगणस्य परीक्षायै व्यवस्थाप्य परमाण्विन्धनम् उपगन्तुम् अर्हति । एतानि केन्द्राणि विहाय अन्यानि कानिचन केन्द्राणि यथापूर्वं संशोधनायैव । तत्र इतरेषां वीक्षणं न भविष्यति । सर्वेषु केन्द्रेषु स्वेच्छया एव भवितव्यमिति चेत्, इतरेषां देशानाम् अङ्गीकारः न भवत्येव । किञ्चित् प्राप्तुं किञ्चित् दातव्यमिति । सन्धिधर्मः सः । तथापि मूलभूतविषयेषु पुनरुक्तिर्न भविष्यति । तेषु मूलांशेषु वज्रादपि कठोराणीव वर्तन्ते ।


आहुः वामपङ्क्तयः न इति । गतकालेन बद्धशृङ्खलाः ते अमेरिकया कमपि संबन्धं नेच्छन्ति । तेषां मनसि संबन्धराहित्यम् एव दार्ढ्याय । तदसत् । कालाय तस्मै नमः इति गणयन्तः कालमहावाते कुशरा इव आनताः दृढमूलाः जीवन्तः जयन्ते । तरवः स्तम्भाः इव महावातम् अतितर्तुम् असमर्थाः भिन्दन्तः म्रियन्ते । अतः अमेरिकायाः उपस्थितिं दृष्ट्वा सम्मतिम् अदृष्ट्वा विरोधकाराः हानिकारकाः एव । तन्न एतेषां दार्ढ्यम् । परं स्तब्धत्वम् । हन्त हन्तेति वदामि ।


वामपङ्क्तीनां विरोधम् अतिक्रम्य अन्यदेशानां प्रश्नानां समाधानं कृत्वा भारतीयसर्वकारः सम्मतेः अङ्गीकाराय कार्यकरणाय च महता प्रयतते । तथा अस्मिन् अभ्यासे अनेकानि भारतीयशासनानि कार्यरतानि आसन् ।


उच्यते खलु अभ्यासः दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः इति ।



नरेशः कुन्तूरु

No comments: