Sunday, November 16, 2008

सुभाषितम्

न वेत्ति यो यस्य गुणप्रकर्षं
स तं सदा निन्दति नात्र चित्रम् ।
यथा किराती करिकुम्भजातां
मुक्तां परित्यज्य बिभर्ति गुञ्जाम् ॥


अन्वयः - यः यस्य गुणप्रकर्षं न वेत्ति, सः तं सदा निन्दति । अत्र चित्रं न । यथा किराती करिकुम्भजातां मुक्तां परित्यज्य गुञ्जां बिभर्ति ।

तात्पर्यम् - यथा व्याधपत्नी गजकुम्भस्थलस्थस्य मौक्तिकस्य मूल्यम् अजानती मौक्तिकं त्यक्त्वा गुञ्जां सञ्चयति तथैव यदि कश्चित् अन्यस्य गुणान् न जानाति तर्हि सः तं अन्यं सर्वदा तिरस्करोति इत्यत्र विचित्रं किमपि नास्ति । रत्नकारः एव रत्नस्य मूल्यं जानाति खलु ।

गुञ्जा - सस्यविशेषः यस्य बीजम् आकर्षकं रक्तवर्णं भवति ।

No comments: