Sunday, November 16, 2008

अमेरिकादेशस्य शृङ्गेरी-शारदा-पीठम्

चित्रम् -www.svbf.org

सहस्राधिकवर्षपूर्वं भारते सर्वश्रेष्ठेन श्री-आदि-शङ्कराचार्येण स्थापयितस्य दक्षिणाम्नाय-श्रीशृङ्गेरीशारदापीठस्य विषये वयं सर्वे जानीमः । एतस्मिन् संवत्सरे अमेरिकादेशे श्रीशृङ्गेरीशारदापीठस्य भारतात् बहिः प्रथमकेन्द्रम् उद्घाटितम् अभवत् । श्रीश्रीश्रीभारतीतीर्थशृङ्गेरीशङ्कराचार्याः एतस्मै केन्द्राय अनुज्ञाम् आशीर्वादं च दत्तवन्तः । स्ट्रौड्स्बर्ग्‌नगरे, पोकोनो गिरौ, पेन्सिल्वेन्या प्रदेशे, श्रीशारदापरमेश्वर्याः देवालयस्य कुम्भाभिषेकः जुलै मासस्य १४ दिनाङ्के आयोजितम् आसीत् । जुलै मासस्य १२ दिनाङ्कतः जुलै मासस्य २७ दिनाङ्कपर्यन्तं स्ट्रौड्स्बर्ग्‌देवालये कुम्भाभिषेकमहोत्सवः अचलत् । विशालदेवालयः ३७ प्रहलमितायां भूम्यां निर्मितः अस्ति । देवालये श्रीशारदापरमेश्वर्याः सुन्दरमूर्तिः, श्री-आदिशङ्कराचार्यभगवत्पादस्य मङ्गलमूर्तिः, श्रीचन्द्रमौलीश्वरस्य शोभनमूर्तिः च सन्ति । गणेशस्य, कृष्णस्य, आञ्जनेयस्य, सुब्रह्मण्यस्य, नवग्रहाणां च शुभमूर्तयः अपि सन्ति ।


पञ्चदशवर्षेभ्यः अमेरिकादेशे प्रतिसंवत्सरं कुत्रचित् देवालयस्य शुभारम्भः भवति इति ज्ञायते । किन्तु स्ट्रौड्स्बर्ग् श्रीशारदापरमेश्वर्याः देवालयस्य कुम्भाभिषेकमहोत्सवः अतिश्रेष्ठविरलरीत्या प्राचलत् । भारतात् १७५ पण्डिताः एतत्कुम्भाभिषेकमहोत्सवकार्यक्रमार्थम् आगतवन्तः । अपि च अमेरिकादेशस्य अन्यहिन्दुदेवालयेभ्यः ५० पण्डिताः भागं स्वीकृतवन्तः । अमेरिकादेशे शृङ्गेरीविद्याभारतीसंस्थायाः प्रमुखेन श्रीयज्ञसुब्रह्मण्यमहोदयेन भारते श्रीशृङ्गेरीशारदापीठस्य प्रवर्तकेन श्रीगौरीशङ्करमहोदयेन च अन्येषां साहाय्यं स्वीकृत्य कार्यक्रमः आयोजितः आसीत् । जुलै मासस्य १४ तमे दिनाङ्के प्रातःकाले गुरुवन्दनेन, गणपतिपूजया शुभकार्यम् आरब्धम् अभवत् । अनन्तरं प्रतिष्ठापना, अष्टबन्धनं, प्राणप्रतिष्ठा, जीववाहनम् इत्यादयः विधयः शृङ्गेरीपरम्परानुसारम् अचलन् । शिखरकुम्भाभिषेकशुभमुहूर्तसमये राजगोपुरस्य उपरि उदग्रयानात् पुष्पदलवृष्टिः अपतत् । तस्मिन् सायङ्काले एव स्वर्णरथोत्सवे मङ्गलश्रेण्यर्थं श्रीशारदापरमेश्वरी उपस्थिता आसीत् । भक्ताः सुनादस्वरं श्रुत्वा भजनानि गायन्तः अत्युत्साहेन स्वर्णरथोत्सवकार्यक्रमे भागम् अवहन् । कुम्भाभिषेकदिनानन्तरम् अतिरुद्रमहायज्ञः शतचण्डीयज्ञः कोटिकुङ्कुमार्चनं चतुर्वेदपारायणं च चतुर्दशदिनपर्यन्तं श्रीशारदापरमेश्वर्याः नूतने देवालये सफलं प्राचलत् । अतिरुद्रमहायज्ञे १२१ ऋत्विजः रुद्रप्रश्नम् ११ वारम् ११ दिनेभ्यः उद्गायन्ति स्म, आहत्य १४६४१ वारम् । अनन्तरं रुद्रहोमः ११ पण्डितैः ११ दिनानि यावत् कृतः । एतस्मिन्नेव समये रुद्रशिवाय पूजा पञ्चपण्डितैः क्रियमाणा आसीत् । आहत्य, अतिरुद्रमहायज्ञे १३७ ऋत्विजः भागं स्वीकृतवन्तः । शतचण्डीयज्ञे कोटिकुङ्कुमार्चने चतुर्वेदपारायणे च भारतात् अनेके पण्डिताः भागं गृहीतवन्तः । भगवद्गीताश्लोकस्पर्धा अपि आयोजिता आसीत् । तथा च एकस्मिन् दिने भक्ताः सम्पूर्णभगवद्गीतायाः पारायणं कृतवन्तः ।


इदानीम् अपि भक्ताः पृच्छन्ति ``ईदृशः कुम्भाभिषेकमहोत्सवः अमेरिकादेशे एतस्मिन् काले वस्तुतः प्राचलत् किम् ? भारते अपि ईदृशकार्यक्रमस्य आयोजनं बृहत्कार्यम् एव । भारतात् १७५ पण्डितानाम् आगमनं कथम् आयोजितम् अभवत् ?'' इति । यथा देवी इच्छति तथैव भवति । गुरूणाम् आशीर्वादैः असम्भवमपि संभाव्यते । श्रीशारदापरमेश्वरी महाराज्ञी इव वज्ररत्नमुकुटं धृत्वा, स्वर्णरथे उपविश्य, १७५ पण्डितैः सह, शोभमानदेवालयम् अलङ्करोति स्म । अस्माकं सौभाग्यं यत् सा अमेरिकादेशस्य देवालये सज्जनेभ्यः ब्रह्मविद्यां दातुम् उपस्थिता अस्ति ।



या विद्यादायिनी देवी ऋष्यशृङ्गपुरवासिनी
करुणामयी श्रीमहाराज्ञी सर्वसौभाग्यदायिनी ।
अमितप्रकाशितजननी स्वर्णरत्नसिंहासनेश्वरी
सा पातु मां हे शर्वाणि श्रीशारदा परमेश्वरी ॥१॥

या मोक्षप्रदायिनी देवी काश्मीरपुरवासिनी
ज्ञाननिलया श्रीमहाराज्ञी सर्वमङ्गलकारिणी ।
सद्गतिदर्शिनी-अम्बा तु ब्रह्मविद्यासकलेश्वरी
सा पातु मां हे मृडानि श्रीशारदा परमेश्वरी ॥२॥

या वीणाधारिणी देवी पोकोनोगिरिवासिनी
हंसवाहिनी श्रीमहाराज्ञी-आनन्दामृतदायिनी ।
विश्वभ्रमणकारिणी विद्यालङ्कृतजगदीश्वरी
सा पातु मां हे भवानि श्रीशारदा परमेश्वरी ॥३॥


श्रीशारदापरमेश्वर्यै नमः ।
ज्योत्स्ना कलवार्

No comments: