Sunday, November 16, 2008

भारतस्य प्रतिनिधिः विवेकानन्दः ।

वाग्देवीं सरस्वतीं मनसा प्रणम्य ``अमेरिका-देशस्य भगिनीभ्रातरः'' इत्युक्त्वा १८९३-तमे संवत्सरे सेप्टेम्बर्-मासस्य ११ दिनाङ्के भाषणम् आरब्धवान् भारतस्य सनातनहिन्दुधर्मस्य प्रतिनिधिः स्वामी विवेकानन्दः । यावत् एतत् वाक्यं तेन उक्तं तावत् झटिति तत्र विद्यमानाः द्वित्रसहस्रं जनाः सर्वे उच्चैः करताडनं कुर्वन्तः उत्थितवन्तः । यदा सर्वे निमिषद्वयानन्तरम् आसनेषु उपविष्टवन्तः तदा विवेकानन्दः भाषणम् अनुवर्तितवान् । अतीव पुरातनस्य हिन्दुधर्मस्य विविधानि मतानि समीकृत्य तस्य सारांशं श्रीमद्भगवद्गीतायाः ``ये यथा मां प्रपद्यन्ते तान् तथैव भजाम्यहम्'' इत्यस्य श्लोकस्य रूपेण प्रदर्शितवान् । एतद् अनुसृत्य ``प्रपञ्चे विविधेषु धर्मेषु मतेषु च कलहः मा भवेत् । अस्याः सभायाः उद्देशः तदेव भवतु'' इत्युक्त्वा समापितवान् । parliament of religions मध्ये दत्तेन एतेन व्याख्यानेन विवेकानन्दः बहु-प्रसिद्धिं प्राप्तवान् । तदनन्तरं सः तस्मिन् सम्मेलने पञ्चषानि भाषणानि दत्तवान् । तस्य भाषणेषु जनानां महती प्रीतिः आसीत् । विवेकानन्दस्य भाषणं श्रोतुम् उत्सुकाः भागिनः आदिनं सम्मेलने उपविशेयुः इति मन्यमानाः सभाधिकारिणः विवेकानन्दस्य व्याख्यानं दिनान्ते आयोजयन्ति स्म । दिनान्ते अपि यदा सः उपन्यासं ददाति स्म तदा प्रकोष्ठः पूरितः भवति स्म । न केवलं धर्मसम्मेलने अपि तु बहिरपि वार्तापत्रिकासु तस्य प्रसिद्धिः प्रवृद्धा । सर्वत्र ``भारतस्य हिन्दुसन्न्यासी'' इति नाम्ना भित्तिपत्राणि दृश्यन्ते स्म ।


चित्रम् - www.vedantaberkely.org

मे-मासे एव सः भारतात् निर्गत्य अमेरिकादेशं प्राप्तवान् । अतीव सुन्दरं तं देशं दृष्ट्वा विवेकानन्दः मुग्धः अभवत् । आकाशं स्पृशन्ति उन्नतानि भवनानि आश्चर्येण पश्यन् मनुष्याणां शक्तिं श्लाघते स्म । विज्ञानस्य उपयोगेन जीवने कियत् सौख्यं भवति इति तेन अवगतम् । चिकागो-नगरं प्राप्य सः ज्ञातवान् यत् धर्मसम्मेलनं सेप्टेम्बेर्-पर्यन्तं न आरभ्यते । सः तु सन्न्यासी । आध्यात्मिकविषयेषु यावत् ज्ञानं तावत् संसारव्यवहारे नैव खलु ! सेप्टेम्बेर्-पर्यन्तं कुत्र निवसेत्? तथा च चिकागो-नगरे व्ययः अधिकः । तत्र जीवनं कठिनमेव । स्वस्यधर्माधिपतेः परिचयपत्रेण विना सम्मेलने प्रवेशः नास्ति इति अपि तेन ज्ञातम् । हिन्दुधर्मस्य तु एकः धर्माधिपतिः न वर्तते । परिचयपत्रं कुतः प्राप्स्यते? अतः सर्वं भगवते समर्प्य चिकागो-नगरात् बोस्टन्-नगरं गतवान् । तत्र हार्वर्ड् विश्वविद्यालयस्य कैश्चन प्राध्यापकैः सह तस्य संपर्कः अभवत् । तेषु प्रोफ़ेसर् जान् रैट् इति महोदयेन सह विवेकानन्दस्य स्नेहः प्रवृद्धः । तस्य महती इच्छा आसीत् विवेकानन्दः धर्मसम्मेलनं गच्छतु इति । ``किन्तु मम समीपे परिचयपत्रं नास्ति'' इति निवेदितवान् विवेकानन्दः । तदा जान् रैट् महोदयः अवदत् ``हे स्वामिन् ! भवतः परिचयः आवश्यकः चेत् सूर्यस्य ज्वालनाधिकारः कुतः इति प्रक्ष्यते इव'' इति । तदनन्तरं विवेकनन्दाय परिचयपत्रमपि दत्तवान् । तस्मिन् लिखितं आसीत् - ``एषः अस्माकम् अमेरिकादेशस्य सर्वेभ्यः विद्वद्भ्योऽपि उत्तमः विद्वान् अस्ति'' । एतत् नीत्वा विवेकानन्दः चिकागो पुनः गतवान् । तत्राऽपि तस्य विचित्रवस्त्रधारणकारणेन अनेकान् अपमानान् अनुभूतवान् । एवं कष्टानि सोढ्वा कथमपि parliament of religions प्राप्तवान् । अद्य अज्ञातः भिक्षुकः श्वः जगत्प्रसिद्धः स्वामी !


सम्मेलनानन्तरम् अमेरिकासमाजे ख्यातिः प्राप्ता । न केवलं विवेकानन्देन अपि तु यावत्भारतदेशेन भारतीयधर्मेण संस्कृत्या च । पार्लिमेन्ट् ओफ़् रिलिजियन्स् द्वारा भारतस्य प्राचीनसंस्कृतेः आधुनिकपश्चिमस्य वैज्ञानिकसंस्कृत्या सह मेलनं संभवम् आसीत् । यस्मिन् काले विज्ञानप्रभावात् धर्मस्य आध्यात्मिकस्य च ग्लानिः वर्तते स्म तदा विवेकानन्दस्य विदेशप्रवासेन अन्धविश्वासरहितायाः पवित्राध्यात्मिकतायाः पुनरुज्जीवनं सार्थकम् अभवत् । तस्य प्रभावः इदानीमपि स्पष्टं दृश्यते ।
लोककल्याणार्थं यावत् आवश्यकता विज्ञानस्य तावत् धर्मस्य अपि इति विवेकानन्देन दर्शितम् । पाश्चात्यसमाजः विवेकानन्दम् आश्चर्येण पश्यति स्म । तदानीन्तन भारतस्य अधोगतिः एव लोकेन दृष्टा । भारतदेशः आङ्लदेशस्य दासदेशः अपि । तादृशे देशे उपयोगकरं किं वा लभ्येत? विवेकानन्दस्य आविर्भावेन अन्यदेशानां भारतं प्रति दृष्टिकोणे परिवर्तनं जातम् । अनेके तत्त्वज्ञाः समाजसेवकाः वैज्ञानिकाः इत्यादयः विवेकानन्दस्य मित्राणि अभवन् ।


सर्ववेदान्तस्य चतुर्विधान् पुरातनान् योगान् लोकाय पाठितवान् विवेकानन्दः । भगवद्गीतायां भगवता बोधितः कर्मयोगः सर्वोपनिषत्सु ऋषिमुनिभिः कथितः ज्ञानयोगः पतञ्जलिमहर्षिणा दर्शितः राजयोगः नारदमुनिना प्रोक्तः भक्तियोगः च विवेकानन्देन आधुनिकभाषया उपदिष्टाः । अमेरिकादेशे आङ्ग्लदेशे युरोपखण्डे च पर्यटनं कुर्वन् प्राचीनं धर्मं जगते पाठितवान् आचार्यः विवेकानन्दः । केषाञ्चन शिष्याणाम् अपि सः आध्यात्मिकशिक्षणं कृतवान् ।


किन्तु तस्य हृदयं तु भारतस्य दीनस्थितेः विषये एव मग्नम् । अत्र अमेरिका देशे धनस्य जलवत् व्ययः तत्र भारते विस्तीर्णं दारिद्र्यम् । यद्यपि राजभवनमिव गृहे अतिथिरूपेण निवसति स्म तथापि स्वदेशस्य परिस्थितिं चिन्तयन् अश्रूणि स्रावयन् शय्यां त्यक्त्वा भूतले एव निद्राति स्म । यत् किञ्चिदपि धनं तेन लब्धं तत् सर्वं भारतस्य अभिवृद्ध्यर्थं व्ययीकरोति स्म । सः इच्छति स्म यत् पाश्चात्यविज्ञानसामर्थ्येन भारतस्य अभिवृद्धिः भवेत् अपि च भारतस्य आध्यात्मिकज्ञानेन अन्यदेशानां कल्याणं भवतु इति । एवं परस्परसाहाय्येन लोककल्याणं भवतु इति ।


चतुर्णां वर्षाणाम् अनन्तरं तस्य मनः भारतं प्रत्यागन्तुम् उत्सुकम् अभवत् । १८९७-तमे संवत्सरे सः आङ्ग्लदेशात् भारतं प्रति यात्रा नौकायानेन आरब्धवान् । निर्गमनात् पूर्वम् एकः सज्जनः विवेकानन्दम् अपृच्छत् ``स्वामिन्, एतावन्तं कालं वैभवपूर्णेषु पश्चिमदेशेषु वासं कृत्वा इदानीं पुनः धनरहितभारतं प्रति भवतः कीदृशः विचारः?'' इति । विवेकानन्दः अवदत् ``अत्र आगमनात् पूर्वं भारते मम प्रीतिः आसीत् । किन्तु इदानीं मम कृते भारतं पुण्यभूमिः अस्ति परमपवित्रतीर्थस्थलम् इव अस्ति च । तस्य प्रत्येकः अणुः अपि मम कृते पवित्रतमः'' इति ।

भारते विवेकानन्दस्य प्रभावः कथम् आसीत् इति अग्रे पश्यामः ।


हरि चन्दन् मन्त्रिप्रगड

No comments: