Sunday, November 16, 2008

कोऽस्ति सर्वोत्तमः भारतीयः ?

२००२ तमे वर्षे आङ्ग्लदूरदर्शनसंस्था (बीबीसी) ``१०० सर्वोत्तमाः आङ्ग्लेयाः'' नाम कार्यक्रमं प्रसारितवती । आङ्ग्लेयानाम् इतिहासे जनाः कं सर्वोत्तमं मन्यन्ते इति निश्चयीकर्तुं निर्वर्तितस्य कस्यचित् निर्वाचनस्य परिणामः अस्मिन् कार्यक्रमे प्रसारितः अभवत् । अतीव जनप्रियस्य एतस्य कार्यक्रमस्य निर्वाचने दशलक्षाधिकाः जनाः भागम् अवहन् । एतस्मिन् जनाः अन्तर्जालेन दूरवाण्या च भागं स्वीकर्तुं शक्तवन्तः ।


अन्ते द्वितीयविश्वयुद्धसमये देशस्य प्रधानमन्त्री विन्स्टन्-चर्चिल्-महोदयः सर्वोत्तमः आङ्ग्लेयः इति प्रतिजातः । द्वितीयं स्थानं यन्त्रज्ञः इसम्बार्ड् ब्रूनेल्, तृतीयं स्थानं राजकुमारी डयना च प्राप्नुताम् । न्यूटन् शेक्स्पियर् आदीनां महाङ्ग्लेयानाम् अपेक्षया राजकुमार्याः डयानायाः विवरणं बह्वीः भ्रुवः वक्र्यकरोत् । जनप्रियाः एव उत्तमाः सञ्जाताः इति बहूनाम् अभिप्रायः ।


२००५ तमे वर्षे अमेरिकादेशेऽपि एतादृशः कार्यक्रमः एकः प्रसारितः अभवत् । तत्रापि लिङ्कन् वाशिङ्ग्टन् आदीनाम् अपेक्षया यदा रानल्ड्-रेगन् महोदयः सर्वश्रेष्ठः अमेरिकीयः उद्घोषितः तदापि महान् विवादः महती चर्चा च अश्रूयेताम् । कतिपयेभ्यः मासेभ्यः पूर्वम् आल्झैमर्-व्याधिग्रस्तस्य रेगन्-वर्यस्य मरणात् जनानां मनसि यत् कार्पण्यं सञ्जातम् आसीत् तस्मात् एव सः लिङ्कन्वर्यस्य अपेक्षया सङ्कीर्णरूपेण विजयं प्राप्नोत् इति केचन चिन्तयन्ति ।


तदनन्तरं यदा केनडा फ्रान्स् जर्मनी इत्यादिषु देशेषु एतादृशः कार्यक्रमः प्रचालितः तदापि जनसमूहतः पूर्वानुगुणप्रतिक्रिया उपलब्धा ।


एतस्मात् वयं जानीमः यत् कः सर्वश्रेष्ठः इति विषयस्य स्थिरम् उत्तरं बहुशः किमपि नास्ति । किन्तु एतस्मात् प्रश्नात् यः विमर्शः जनितः सः बोधकः मनोरञ्जकः चापि । अस्य लेखनस्य पठितारः प्रायः कः सर्वश्रेष्ठः भारतीयः इति विषये अधिकाम् उत्सुकतां प्रदर्शयिष्यन्ति ।


सर्वेभ्यः देशेभ्यः भारतस्य इतिहासः अद्वितीयः अपूर्वश्च, यः पञ्चसहस्रवर्षेभ्यः विना अन्तरायम् अनुवर्तते । अस्मिन् सुदीर्घे काले भारतमाता महतः राज्ञः विदुषः ऋषीन् तेजस्विनः तत्त्वज्ञान् बहून् प्रसूतवती । परम् अशोकः हर्षः अक्बर् इत्यादिषु राजसु वाल्मीकिः व्यासः कालिदासः जयदेवः ठाकुरः इत्यादिषु कविषु पिङ्गलः पाणिनिः आर्यभटः भास्करः चरकः सुश्रुतः इत्यादिषु वैज्ञानिकेषु कपिलः पतञ्जलिः बुद्धः महावीरः नानकः गान्धिः इत्यादिषु तत्त्वज्ञेषु कं सर्वश्रेष्ठं मत्वा वृणुयाम ? चिन्तयामि यत् अस्माकं वरणं भारतस्य आत्मतत्त्वं प्रदर्शयेत् यत् तस्य वेदेषु उपनिषत्सु च उल्लिखितम् अस्ति । अपि च वृणुयाम तं यः प्रधानरूपेण तस्य सहदेशवासिनां जीवनेषु प्रगाढं सुपरिवर्तनम् उत्पादितवान् । एतौ अंशौ मनसि निधाय जगद्गुरुम् आदिशङ्कराचार्यं `सर्वोत्तमः भारतीयः' इति पदव्या सत्करोमि ।


चित्रम् - www.chinmayasanjose.org

यदा सः ७८८ तमे वर्षे अजायत तदा भारतस्य महती वैदिकपरम्परा ग्लानस्थितौ आसीत् । भारतस्य सनातनधर्मः यः तस्याः परम्परायाः मूलम् आसीत् सः अन्ततः विविधासु शाखासु भिन्नः भूत्वा तासां परस्परकलहात् दुर्बलः जातः । बहिर्भागतः बौद्धजैनमतयोः समाह्वानं सम्मुखीकृत्य चापि सः क्षीणः जातः ।


अल्पे एव वयसि समस्तशास्त्रपारङ्गतः शङ्करः परिव्राजकरूपेण देशाटनं कृत्वा तस्य अद्वैतसिद्धान्तं जनान् अबोधयत् । ब्रह्मसत्यं जगन्मिथ्यं जीवः ब्रह्मा नापरः इति तत्त्वम् अध्यापयन् देशस्य इतरतत्त्वज्ञान् वितर्कविवादे पराजितवान् । तस्य विजयः आसीत् जनमनहृदयसङ्ग्रामे । उपनिषदां सारः अद्वैतः एव इति प्रमाणीकुर्वन् सः भारतस्य षड्दर्शनेषु वेदान्तस्य प्राधान्यं प्रतिष्ठापितवान् । सः अद्वैतस्य प्रचारणाय भारतस्य चतसृषु दिक्षु चतुरः मठान् अनुष्ठापितवान् । द्वात्रिंशद्वर्षीयस्य तस्य अकालमरणानन्तरं ते तस्य जीवनकार्यं निर्वहन् अद्यावधि वर्तन्ते ।


तस्य प्रभावतः अद्य समग्रभारततत्त्वदर्शनः वेदान्तश्च उभावपि परस्परपर्यायवाचकौ शब्दौ सञ्जातौ । केचन इतिहासज्ञाः मन्यन्ते यत् ऋते शङ्गकरस्य उपस्थितेः भारतस्य आध्यात्मिकपरम्परा बौद्धीयमार्गम् अनुसरिष्यत् इति ।

सः यावदुत्कृष्टः तत्त्वज्ञः तावदेव अद्भुतः कविरपि आसीत् । सामान्यानां जनानां भक्तिभावनां जनयितुं सः अनेकानि स्तोत्राणि गीतानि च रचितवान् । एषु आनन्दलहरी शिवानन्दलहरी सौन्दर्यलहरी इत्यादीनि काव्यानि जगतः रमणीयतमासु काव्यरचनासु परिगण्यन्ते ।


एवमहम् एतं मलयजं महत्कवितत्त्वविदं भारतस्य वरिष्ठं मन्ये । किन्तु एषः तु मम अभिप्रायः एव । वदन्तु भवताम् अभिप्राये कोऽस्ति सर्वोत्तमः भारतीयः ?



राज् कोठारु

No comments: