Sunday, November 16, 2008

कथाश्रावणम्

अमेरिकवासिभ्यः अद्यतनबालकेभ्यः संस्कृतपाठनाय बहुविधोपायाः चिन्त्यमानाः सन्ति । संस्कृतेतरभाषया व्यवहारे सति कीदृशानि रुचिवर्धकानि उपकरणानि रचनीयानि, यैः बालकेभ्यः संस्कृतभाषाशिक्षणं सुलभं सफलं च भवेत् इति विशेषः विचारः अस्ति । बहुभिः जनैः अभिव्यक्तं यत् चतुष्पञ्चवर्षीयबालकेभ्यः संस्कृतेन लिखितानि विविधवर्णमयानि आकर्षकचित्रयुक्तानि कथापुस्तकानि रच्यन्ते चेत्, सुलभतया संस्कृतवातावरणं विना अपि बालकान् संस्कृतं पाठयितुं शक्यते इति ।


पठनम् अजानद्भ्यः चतुर्वर्षीयबालकेभ्यः किमर्थं चित्रसहितकथापुस्तकानि? जनानाम् अभिप्रायः अस्ति यत् चित्रसहितकथापुस्तकानां द्वारा बालकानां भाषाकौशलं पठनरुचिः च वर्धते । विविधचित्रैः आकर्षिताः बालकाः कथापठनं श्रुत्वा, नूतनपदानां ज्ञानं, वाक्यरचनज्ञानं पठने रुचिं च प्राप्नुवन्ति । अतः अमेरिकादेशे बालकानां कृते भाषापाठनाय तादृशानि आङ्ग्लपुस्तकानि बहुत्र लभ्यन्ते । ("Clifford" इति नाम्ना बृहन्तं रक्तवर्णीयं प्रियतमं शुनकं तेन सदृशानि अन्यकथापुस्तकपात्राणि च अत्रत्याः जाताः जनाः सर्वे स्मरेयुः ।) मम पुत्रस्य प्रज्ञावर्धनाय भाषाकौशलाय महत्त्वपूर्णं कार्यं कुर्वन् अस्मि इति विचिन्तयन्तः जनाः तादृशपुस्तकेभ्यः कथाः बालकेभ्यः उच्चैः पठन्ति । लघुबालकाः अपि पुस्तकानां चित्रेषु विद्यमानानां वस्तूनां नामवचनेन भाषाज्ञानवर्धनं प्रदर्शयन्ति । गच्छता कालेन सर्वकारेणापि एषा उक्तिः सर्वत्र प्रसारिता "बालकेभ्यः कथापठनं करोतु" इति (Read to your kids) । अत्र तस्य प्रभावम् अनुभूयमानाः जनाः चिन्तयन्ति संस्कृतपठने अपि आकर्षकचित्रसहितानि कथापुस्तकानि कृतानि चेदेव अस्माकं बालकाः यथा आङ्ग्लभाषां पठन्ति, संस्कृतं पठेयुः इति । अतः तादृशपुस्तकानां रचनं करणीयम् एव । इदानीं तस्य अभावात्, बालसंस्कृतपाठनं बहु क्लिष्टकरम् ।


यदि अन्येषां देशानां कथाश्रावणसम्प्रदायः परिशील्यते, तर्हि सहसा ज्ञायते यत् सर्वत्र लघुबालकेभ्यः कथापठनपद्धतिः नास्ति । अपाश्चिमदेशेषु चित्रसहितानि वर्णमयानि कथापुस्तकानि विरलानि एव । तादृशपुस्तकानि वर्तन्ते चेदपि, केवलम् आङ्ग्लभाषीयानि न तु अन्यभाषीयानि पुस्तकानि । तर्हि तादृशस्थलेषु बालपुस्तकानि विना कथं कस्याः अपि भाषायाः कौशलं लभ्यते? पुस्तकपठने रुचिः कथम् उत्पद्यते?


चित्रम् - www.graphics-folio.com

तादृशस्थलेषु कथाश्रावणं भवति । मातापितरः अथवा गृहसदस्याः प्रसिद्धैतिहासिकाः कथाः, पौराणिककथाः स्वरचिताः काल्पनिककथाः वा श्रावयन्ति । पुस्तकानि विना कौतूहलं प्रदर्शयन्तः बालकाः अनेकाः घण्टाः यावत् उपविश्य श्रुण्वन्ति । कथावाचकः अपि अभिनयं कृत्वा एव कथायाः अर्थं बोधयति । अनेन प्रकारेण कथाश्रावणद्वारा बालकानां भाषाज्ञानं वर्धते ।


यद्यपि अस्मिन् क्षेत्रे अल्पं प्रशोधनं कृतं तथापि प्रकारद्वयेनापि भाषासामर्थ्यं वर्धते इति ज्ञातम् । स्थूलदृष्ट्या द्वयोः पद्धत्योः परिणामाः समानाः । कथाश्रावणानन्तरं, कथापठनानन्तरं वा बालकानां वाक्यानि दीर्घानि जातानि, वचनं धारवाहीभूतं, शब्दसङ्ग्रहः वर्धितः । परन्तु कथाश्रावणम् अनुभूतवन्तः बालकाः सुलभतया साहाय्येन विना श्रुतां कथां अनुवदन्ति । कथापठनम् अनुभूतवन्तः बालकाः चित्राणि दृष्ट्वा एव कथां पुनः वक्तुं शक्नुवन्ति । येभ्यः कथा श्राविता, तैः सम्पूर्णतया कथा अवगम्य, कथाश्रवणसमये ये शब्दाः श्रुताः तेषां पुनर्प्रयोगः अपि क्रियते । येभ्यः कथा पठिता, ते कदाचित् कथायां उपयुक्तान् शब्दान् विस्मृत्य, शब्दस्य दृष्टिविवरणं कुर्वन्ति । कथाश्रावणेन बालकानां जागरितश्रवणकौशलम् (attentative listening skills) अपि वर्धते । अनुभवम् अनुसृत्य अपि कथापठितारः वदन्ति यत् पठनसमये बालकानाम् एकाग्रतचिन्तनं सर्वदा न दृश्यते, किन्तु कथनिकाः श्रावणसमये नैव वदन्ति तथा । अतः यद्यपि केषुचित् अंशेषु कथापठनं कथाश्रावणं च समानौ इति दृश्यते कथाश्रावणेन इतोऽपि अधिकाः लाभाः सन्ति इति भाति । निश्चितम् अस्ति यत् कथापठनस्य स्थाने कथाश्रावणं हानिकरं नास्ति इति ।


तर्हि किमर्थं संस्कृतपाठनाय संस्कृतेन लिखितानि विविधवर्णमयानि आकर्षकचित्रसहितानि बालपुस्तकानि आवश्यकानि? मातापितॄणां कृते कथापठनस्य सौकर्यं भवति । अल्पेन परिश्रमेण स्वल्पेन ज्ञानेन मातापितरः कथाः पठितुं शक्नुवन्ति । संस्कृतशिक्षणक्षेत्रे विविधचित्रसहितानां संस्कृतपुस्तकानाम् इच्छायाः कारणम् इदम् । कथाश्रावणं सुलभकार्यं न । भाषायां सम्भाषणसामर्थ्ये प्राप्ते सति एव लाभदायकरूपेण कथां श्रावयितुं शक्यते । कथाश्रावणाय मातापितृभिः प्रथमं भाषापठनं करणीयम् । तस्य स्थाने विविधचित्रमयानां कथापुस्तकानां पठनेन यः कोऽपि देवनागरिलिपिज्ञः स्वपुत्रं संस्कृतकथां पठितुं शक्नोति । पठनात् बालकाः अग्रे संस्कृतपुस्तकानि पठितुम् उत्सुकाः भविष्यन्ति इति सम्भावना अपि वर्धेत ।


अतः बालकानां कृते नूतनभाषापुस्तकानि निर्मीयन्ताम् । तेन मातापितरः बालकानां कृते संस्कृतपठनाय उत्सुकाः भवेयुः । परन्तु संस्कृतेन नूतनाः भाषमाणाः हरितवर्णीयाः पिपीलिकाः वा अन्यानि उपकरणानि वा दृष्ट्वा एव बालकाः आनन्देन संस्कृतं पठेयुः वदेयुः च इति न चिन्तनीयम् अस्माभिः । अस्माकं परिश्रमेण भाषाश्रावणेन, सम्भाषणेन च अधिकाः लाभाः सन्ति यैः बालकाः संस्कृतभाषासमार्थ्यं प्राप्नुयुः ।


रचयेम संस्कृतभुवनम् ।
सम्पादिका

3 comments:

mana said...

i am not able to read the blog because of the fonts. can u help me?

రాఘవ said...

बाढम्. ननु संस्कृतभाषाप्रचारसमितीभिः प्रकाशितानि वर्णचित्रसहितानि एतावत् पुस्तकानि? ज्ञेयम्!

Preeti S said...

Hi.

This is Preeti from Times of India, Bangalore. I need some inputs for a story on sanskrti and computers, how can i contact you.

Thank you