Sunday, November 16, 2008

प्रहेलिका

अपदो दूरगामी च साक्षरो न तु पण्डितः ।
अमुखो स्फुटवक्ता च यो जानाति स पण्डितः ॥


पदच्छेदः - अपदः दूरगामी च, साक्षरः न तु पण्डितः, अमुखः स्फुटवक्ता च । यः जानाति सः पण्डितः ।

एतस्य पादाः न सन्ति परन्तु दूरं गच्छति । एषः साक्षरः अस्ति परन्तु पण्डितः न । पुनश्च एतस्य मुखं नास्ति परन्तु स्पष्टतया वदति । कः एषः ? यः एतस्याः प्रहेलिकायाः उत्तरं जानाति सः पण्डितः भवितुम् अर्हति ।



उत्तरम् - पत्रम्

4 comments:

రాఘవ said...

उत्तरम् पत्रमिति वदितमेव :D

Ayurvedanarayanan said...

"अमुखो स्फुटवक्ता च" इत्यत्र सन्धिदोषोस्ति, "अमुखः स्फुटवक्ता च" इत्येव भवेद्, उत्वमत्र प्रामादिकम् ।

Drupada said...

lekhaḥ patraṃ vety uttaram.

yady evam etad, paritoṣikayā kiyān artho labhyate prahelikā-pāragatena janena? ;o)

CH SHIVANAND said...

Sadhu uktam bhavata