भारतदेशस्य भक्तिसम्प्रदायः अति प्राचीनः अस्ति । पुराणकालादारभ्य सङ्गणकयन्त्रादिभिः पूरितेऽस्मिन् कालविशेषेऽपि अयं सम्प्रदायः सर्वत्र व्याप्तः संवर्धितः च प्रवर्तते । श्रीमद्रामायणभागवतादि भक्तिरससंबोधकानि महाकाव्यानि एव अस्य संस्थितेः प्रधाननिदानानि सन्ति । एतादृशान् मूलग्रन्थाननुसृत्य परकालभक्तवर्याः भक्तिवर्धकप्रबन्धान् अनेकासु भाषासु विरचय्य अस्य सम्प्रदायस्य प्रसारणमकुर्वन् । तेषु गोदा, मीरा, भद्राचल-रामदासः, तुकारामः, पुरन्दरदासः, चैतन्यादयः सुप्रसिद्धाः सन्ति । ईदृशेषु भक्तशिरोमणिषु महाकवेः जयदेवस्य नाम वैशिष्ट्येन विराजते । जयदेवः गीतगोविन्दम् इति विख्याताम् अनुपमां पदावलीं व्यरचयत् । अस्य कवेः, अपि च तेन विरचित-गीतगोविन्दस्य विषये संक्षेपेन लिख्यते ।
जयदेवस्य जन्म द्वादशशताब्द्याम् अभवत् । तस्य पितुः नाम भोजदेवः, मातुः नाम रामादेवी इति गीतगोविन्दस्य चरमभागे स एव वदति - ``श्रीभोजदेवप्रभवस्य रामादेवीसुतश्रीजयदेवकस्य...'' । जयदेवस्य जन्मस्थलम् ओडिसा-प्रदेशे अस्ति उत वङ्ग-प्रदेशे इति दीर्घकालपर्यन्तं चर्चाः प्राचलन् । परन्तु इदानीम् अनेकेषाम् ऐतिहासिकानां मतमस्ति यत् ओडिसा-प्रदेशे, पुरी-नगरस्य समीपे केन्दुबिल्वो नाम ग्रामे जयदेवः अजायत । अस्य कवेः जीवनस्य केचन निर्देशाः गीतगोविन्दे एव सन्ति । माधव पट्नायक् नाम षोडशशताब्दीयः लेखकः अपि जयदेवस्य चरितमलिखत् । स्वल्पवर्षीयः एव जयदेवः वेदान्तशास्त्रपारङ्गतः अभवत् । सः विशेषविद्याप्राप्त्यर्थं कूर्मपतको नाम नगरं गत्वा काव्य-सङ्गीत-नाट्यशास्त्रेषु च नैपुण्यं प्राप्तवान् । अनन्तरं तस्मिन्नेव विद्यालये सः काव्य-शास्त्राणि पाठितवान् इत्यपि तत्प्रान्तीय-शिलाभिलेखनतः जानीमः । जयदेवस्य प्रियतमा भार्या पद्मावती पुरीजगन्नाथक्षेत्रे नर्तकी आसीत् । ``जयति पद्मावतीरमणजयदेवकविः...'' इति तस्य पत्न्याः परिचयं स एव गीतगोविन्दे कारयति ।
``श्रीवासुदेवरतिकेलिकथासमेतमेतं करोति जयदेवकविः प्रबन्धम् ।'' इति काव्यस्य मुखबन्धे कविना सूचितमस्ति । इत्थं गीतगोविन्दकाव्यस्य प्रधानविषयाः सन्ति कृष्णेन सह गोपिकानां रतिकेलयः, केशवस्य विरहे राधिकायाः विप्रलम्भज्वरः, अपि च राधामाधवयोः सम्भोगशृङ्गारः । गीतगोविन्दे द्वादशसर्गाः, तेषु २४ गीतानि च सन्ति । एतानि गीतानि अष्टपद्यः इति विख्यातानि, यतः प्रत्येकस्मिन् गीते अष्टपदानि वर्तन्ते । काव्ये त्रीणि मुख्यपात्राणि भवन्ति - कृष्णः, राधा, राधायाः सखी च । अनेकेषां व्रजनारीणाम् अमुख्यपात्राणि अपि वर्तन्ते । काव्यस्यारम्भे श्रीकृष्णस्य गुणातिशयप्रशंसारूपेण शृङ्गाररसरहितगीते द्वे स्तः । अनयोः दशावतारगीतम् अति प्रसिद्धमस्ति । तदनन्तरं काव्यस्य मुख्यभागः प्रारभ्यते । प्रथमतया गोपिकाभिः सह विलासकुतूहलेन नृत्यतः पीताम्बरस्य विषये विरहतापेन पीडितां राधिकां सूचयति सखी (``विहरति हरिरिह सरसवसन्ते नृत्यति युवतिजनेन समं सखि विरहिजनस्य दुरन्ते'') । अनन्तरमसौ सखी दामोदरस्य स्थानं गत्वा ``सा विरहे तव दीना'' इति राधिकायाः विरहवेदनां तस्मै निवेदयति । तच्छ्रुत्वा सोऽपि राधिकां प्रति गच्छति । परन्तु राधा विलम्बेनागतवते कृष्णाय प्रणयकोपेन कुप्यति । तदनन्तरं मदनाग्निदग्धो मुरारिरपि ``प्रिये! चारुशीले! मुञ्च मयि मानमनिदानम्'' इति प्रत्यनुयाचति, पटुत्वेन राधां प्रसादां करोति च । अन्ते सम्भोगनिरतयोः राधामाधवयोः आनन्दानुभवः माधुर्येण वर्णितः । इत्थं प्रेमरसार्द्रशब्दैः गीतैः च राधावल्लभस्य मनोहरत्वं विलासनिपुणतां च विवृणोति महाकविरयम् ।
परन्तु ईदृशस्य प्रणयकाव्यस्य भक्तिसम्प्रदायेन सह कः सम्बन्धः इति प्रश्नः जायेत । शास्त्रज्ञानामभिप्राये जयदेवादिभिः भक्तकविभिः वर्णितशृङ्गाररसः लौकिककामाज्जनितकन्दर्पशृङ्गारः इति न मन्तव्यः । भक्तिशृङ्गारः इत्येतस्य नाम । अर्थात् परमात्मजीवात्मनोः आनुषङ्गिकसम्बन्धः एव नायकनायिकाभावेन भक्तानां मनसि परिणमति इति ते वदन्ति । अनया दृष्ट्या गीतगोविन्दस्य पात्राणि ईक्षामहे चेत् कृष्णः तु परमात्मा । राधिकायाः पात्रं जीवात्मनः प्रतिनिधित्वेन भवति । केशवस्य विरहे राधिकायाः विरहतापः तु भगवतः वियुक्तस्य जीवात्मनः स्थितिं प्रदर्शयति । अस्मिन् दर्शने सख्याः पात्रस्य अपि विशेषतात्पर्यः भवति । एषा सखी सर्वदा कृष्णस्य विषये राधां सूचयित्वा, राधायाः विरहवेदनां हरिं सूचयित्वा च नायकनायिकयोः घटककार्यं करोति । तस्मात् सा सखी परमात्मजीवत्मनोः घटककार्यं क्रियमाणस्य गुरोः वा ज्ञानिनः प्रतिनिधिः इति सूक्ष्मार्थं व्याख्यान्ति केचन साम्प्रदायिकाः । एतादृशः भक्तिशृङ्गाररसः श्रीमद्भागवतपुराणादारभ्य प्रयोगे अस्ति । आधुनिककवीनां कृतिषु अपि ईदृशः शृङ्गाररसः दृश्यते । उदाहरणार्थं सप्तदश-शताब्द्याम् अनेकानि शृङ्गाररसयुक्तपदानि विरचितवतः क्षेत्रय्यस्य विषये विश्ववाण्यामेव एकं लेखनमासीत् ।
बशोली चित्रम् - www.exoticindiaart.com
भारतदेशे गीतगोविन्दस्य व्याप्तिः, प्रबलता च अभ्यधिके स्तः । रचनानन्तरं स्वल्पकाले एव अस्य काव्यस्य कीर्तिः अन्येषु प्रदेशेषु अपि आतनोत् । उदाहरणार्थं द्वादशशताब्द्याम् एव पृथ्विराज-चौहान-नाम्नः राजस्थाननृपस्य राजकविः गीतगोविन्दस्य प्रस्तावं करोति । गुजरात-प्रदेशे अपि एकस्मिन् मन्दिरे जयदेवस्य विषये त्रयोदश-शताब्दीयं शिलाभिलेखनं दृश्यते । जगत्प्रसिद्धे पुरीजगन्नाथक्षेत्रे जयदेवस्य समकालादारभ्य अद्यापि गीतगोविन्दस्य गीतानि अभिनीतानि सन्ति । ओडिसी, मणिपुरी, कथकली, भरतनाट्यम् इत्यादिषु नाट्यपद्धतिषु अभिनयार्थं गीतगोविन्दस्य गीतानि बहुशः उपयुज्यन्ते ।
गीतगोविन्दकाव्यं काश्मीरप्रदेशे बशोली नाम चित्रलेखनशैलीं प्रैरयत् । कर्णाटकसङ्गीत-कार्यक्रमेषु अष्टपदीनां प्रामुख्यता, प्रसिद्धिः च भवतः । ऊत्तुक्काडु वेङ्कटकविः नाम कर्णाटकसङ्गीतपद्धतेः प्रसिद्धवाग्गेयकारः अष्टादशशताब्द्यां जीवति स्म । सः एकस्यां प्रसिद्धकृतौ जयदेवस्य कीर्तिं गायति इत्थं - (पूर्वीकल्याणी रागः) ``पद्मावतीरमणं जयदेव-कविराज-भोजदेवसुत-पद्मपाद-स्मरणं कुरु मानस...'' । अस्य कृतेः चरमपङ्क्तौ ``समान-रहित-गीतगोविन्दकाव्यम्'' इति गीतगोविन्दस्य अनुपमवैशिष्ट्यं प्रकटीकरोति वेङ्कटकविः । चैतन्यः, मीरा इत्यादयः परकाले जाता भक्ताः अपि गीतगोविन्देन विपश्चिताः आसन् ।
काव्यस्य मुखबन्धे जयदेवः गीतगोविन्दं पठितुमस्मान् आह्वयति -
यदि हरिस्मरणे सरसं मनः
यदि विलासकलासु कुतूहलम् ।
मधुरकोमलकान्तपदावलीं
शृणु तदा जयदेवसरस्वतीम् ॥
एतदनुसृत्य सुमनसः सर्वे श्रीपद्मावतीरमणामृतमनुभूय मोदन्तामिति आकाङ्क्षामहे ।
कृष्णः जगन्नाथः