Sunday, December 2, 2007

क्षेत्रज्ञः

दक्षिणभारते प्रचलितः कर्णाटकशास्त्रीयसङ्गीतप्रकारः भारतदेशस्य वैविध्यमयसङ्गीतसम्प्रदायस्य एका शाखा । कर्णाटकसङ्गीतस्य द्वौ अंशौ स्तः - कल्पितसङ्गीतं कल्पनासङ्गीतं च । कल्पितसङ्गीतम् इत्यत्र विविधेषु रागेषु अनेकैः वाग्गेयकारैः विरचितानां कृतीनाम् उल्लेखः । एताः कृतयः अमूल्याः सन्ति यतः न केवलं ताः श्रोतुं मधुराः सन्ति परन्तु तासाम् अध्ययनेन सङ्गीतच्छात्राः रागस्वरूप-रागभाव-स्वरसञ्चार-विशेषप्रयोग-विषयान् ज्ञातुं शक्नुवन्ति । कल्पनासङ्गीते अथवा मनोधर्मसङ्गीते गायकः स्वयं नूतनसङ्गीतं सृष्ट्वा तस्य प्रतिभां कौशल्यं च प्रदर्शयति । नूनं कल्पनासङ्गीतमपि कल्पितसङ्गीतेन अतीव प्रभावितं भवति । एवमेव सङ्गीतपरम्परा विकसति ।

यद्यपि शास्त्रीयसङ्गीतस्य सामवेदादारभ्य प्राचीनचरित्रम् अस्ति तथापि १४तम शताब्द्याः आरभ्य एव कर्णाटकसङ्गीतं वर्तमानरूपं समवाप्नोत् । एतस्मिन् समये बहवः वाग्गेयकाराः कर्णाटकसङ्गीतं धन्यं कृतवन्तः । सामान्यतः सर्वे सङ्गीतश्रोतारः "कर्णाटकसङ्गीतत्रिमूर्तिम्" (श्रीत्यागराज-मुत्तुस्वामीदीक्षितर्-श्यामशास्त्री-महाशयान्) जानन्त्येव । अद्यतन सङ्गीतकार्यक्रमेषु अधिकरूपेण तेषां कीर्तनानामेव गायनं भवति । अन्ये केचन आधुनिकवाग्गेयकाराः अपि प्रसिद्धाः सन्ति परन्तु अनेकानाम् उन्नतवाग्गेयकाराणां कृतयः अद्य नैव श्रूयन्ते । ईदृशः एकः महान् वाग्गेयकारः आसीत् क्षेत्रज्ञः ।

आन्ध्रदेशे "मुव्व" इति ग्रामे ~१६००तमे वर्षे क्षेत्रज्ञः (अथवा क्षेत्रय्य) कविः सञ्जातः। तस्य मूलं नाम वरदय्य इति आसीत् । सः क्षेत्रे क्षेत्रे भ्रामन् भ्रामन् गीतानि अगायत्, ततः सः क्षेत्रय्य इति प्रसिद्धोऽभवत् । मुव्व-ग्रामस्य देवस्य गोपालस्य भक्तः क्षेत्रज्ञः तस्य कृतिषु "मुव्वगोपाल" इति मुद्राम् उपयुक्तवान् । सः "पदम्" नाम गीतरूपस्य रचने निपुणः आसीत् । अद्यापि क्षेत्रज्ञस्य पदानि अद्वितीयानि । यद्यपि तेलुगुभाषायां तेन चतुस्सहस्राद् अधिकानि पदानि विरचितानि इति केषाञ्चन मतम्, अद्यपर्यन्तं तानि सर्वाणि न लभ्यन्ते । तस्य पदानां द्वे लक्षणे स्तः - प्रथमं तेषां विलम्बगतिः तथा गमकवैशिष्ट्यम् । अतः तेलुगुभाषाज्ञानरहिताः अपि रसिकाः एतेषां सौन्दर्यम् अनुभवितुं शक्नुवन्ति। द्वितीयलक्षणं तेषां शृङ्गाररसप्राधान्यम् । विशेषतः बहुषु पदेषु विप्रलम्भ(वियोग)शृङ्गाररसः प्रभवति यत्र कथावस्तु परित्यक्तायाः नायिकायाः कामना नायकस्य सङ्गार्थम् । क्षेत्रज्ञस्य नायकः भगवान् मुव्वगोपालः । अतः एतेषु पदेषु मधुरभक्तिभावः वर्तते । नायिकायाः स्पृहा जीवात्मनः परमात्मना सह ऐक्यस्य कामनां द्योतयति इति केषाञ्चन पण्डितानाम् अभिप्रायः । शृङ्गाररसप्राधान्यात् भरतनाट्ये अपि पदानां प्रामुख्यमस्ति ।

उदाहरणार्थं क्षेत्रज्ञस्य ఎవ్వడె (एव्वडे) इति पदस्य अनुवादः अधः लिखितः । अत्र नायिका सख्या सह सम्भाषणं करोति यत्र सा नायकस्य विषये आक्षेपं करोति -
(रागं शङ्कराभरणम् । तालः मिश्रछापु)

कः सः? हे सखि, सः कः?
सः कः (यः) यदाहं शयिता
पुष्पबाणं क्षिप्त्वा मां क्षोभयित्वा गतः - सः कः?

यः दिवा आगत्य बहुधैर्येण मे गृहम्
मम हस्तौ गृहीत्वा आलिङ्गनं कृत्वा
ओष्ठाभ्यां दृढचुम्बनं दत्त्वा गतः - सः कः?

किमहं तस्य सम्पत्तिः? किं तेन परिचितसम्बोधनम् उचितम् ?
यदा मम पुरुषः नगरे नासीत् सायङ्काले
मधुरशब्दान् जपित्वा चुम्बित्वा गतः - सः कः?

नीलमेघश्यामलाङ्गः पीताम्बरधृतः
अहं षोडशसहस्रगोपस्त्रीप्रियः
मुव्वगोपालः इत्युक्त्वा गतः - सः कः, हे सखि, सः कः?।



विंशतितमशताब्द्यां बृन्दा मुक्ता नाम सहोदर्यौ तयोः कार्यक्रमेषु अनेकानि पदानि अतीवरमणीयरूपेण गायतः स्म । तयोः कुटुम्बे अन्याः अपि गायिकाः वादकाश्च आसन् ये पदानां गायने वादने वा प्रबुद्धाः आसन् । परन्तु अधुना बृन्दामुक्तयोः मरणानन्तरं ये क्षेत्रज्ञस्य पदानि गायन्ति ते गायकाः बहुविरलाः । किं कारणम् आधुनिककर्णाटकसङ्गीते एतेषां पदानाम् उपेक्षायाः ? केचन पारङ्गताः वदन्ति पाश्चात्त्यसंस्कृतेः दूरदर्शनस्य च प्रभावात् क्षेत्रज्ञस्य विलम्बगतेः सङ्गीतं श्रोतुम् अद्यतन-सङ्गीतरसिकाणां सहना नास्ति इति । किन्तु एतत् असत्यम् इत्यहं मन्ये । मम अनेकानि मित्राणि सन्ति ये ईदृशसङ्गीतम् आस्वादयन्ति । एतत् सङ्गीतं कठिनमस्ति, तत् गातुं कठिनसाधना आवश्यकी, परन्तु अद्यतन गायकाः ईदृशसाधनां कर्तुम् उत्सुकाः न भवन्ति इति केषाञ्चन विदुषाम् अभिप्रायः । अपि च ईदृशानि शृङ्गारभरितानि पदानि सार्वजनिकवेदिकायां न गातव्यानि इति केचन गायकाः रसिकाश्च चिन्तयन्ति । कारणं यत्किमपि भवेत्, अद्य दुर्भाग्यवशात् वयम् इदम् अद्भुतसङ्गीतं न श्रोतुं शक्नुमः ।

यदि बहवः गायकाः वादकाश्च सङ्गीतकार्यक्रमेषु एतानि पदानि गास्यन्ति तर्हि एव नूतनरसिकाः तैः आकर्षिताः भविष्यन्ति । परन्तु सामान्यतः गायकाः तादृशसङ्गीतमेव गायन्ति यत् श्रोतारः श्रोतुमिच्छन्ति । अतः यद् इदं सङ्गीतं लुप्तं न भवेत् तथा दीर्घकालं रसिकान् आकर्षयेत् तन् न केवलं गायकानां परन्तु सङ्गीतरसिकाणामपि उत्तरदायित्वमस्ति।


-नरेश सत्यनः

No comments: