Sunday, December 2, 2007

विकटकविः

पूर्वं भारतदेशे आन्ध्रप्रदेशे तेनालिरामनाम्ना एकः बालकः वसति स्म । सः प्रज्ञाशाली, परन्तु कुलहीनः, दरिद्रः, इति कारणतः कोऽपि तं न अध्यापितवान् । अतः तस्य माता दुःखिता आसीत् । तेनालिरामः प्रतिज्ञां कृतवान् - ``अहं विद्याभ्यासं करिष्यामि'' इति । सः अनेकान् शिक्षकान् पृष्टवान्, परन्तु अपमानमेव प्राप्तवान् । एकस्मिन् दिने दुःखितं रामं दृष्ट्वा एकः योगी उक्तवान् - ``पुत्र ! धैर्यं मा जहीहि । अत्र समीपे कालीमन्दिरम् अस्ति । तत्र गत्वा मया उपदिष्टं मन्त्रं जप, परन्तु काली माता प्रकटिता भविष्यति चेत् तस्याः भयङ्कररूपं दृष्ट्वा भीतः मा भव । तस्याः वरदानेन त्वं महापण्डितः भवेः'' इति । मन्त्रोपदेशं कृतवान् च ।
अतः रामः वनं गत्वा कालीमातरं सम्पूर्णहृदयेन उपासितवान् । बहुदिनानन्तरं काली माता सन्तुष्टा अभवत् । तेनालिरामस्य पुरतः भयङ्कररूपिणी सा आविर्भूता । परन्तु आश्चर्यम् ! तां दृष्ट्वा तेनालिरामः भीतः न अभवत् । अपि तु हसितुम् आरब्धवान् । माता क्रोधेन पृष्टवती - ``किमर्थं हससि, बालक'' ? ``मातः क्षम्यताम् ! परन्तु भवत्याः सहस्रासु नासिकासु पीनसः (cold) भवेत् चेत् बहुकष्टकरं किल? मम एकस्याम् अपि नासिकायाम् एव भवति चेत् क्लेशः अनुभूयते !'' इति उक्त्वा रामः पुनः पुनः हसितवान् । काली माता अपि हसितवती । रामस्य तीक्ष्णया बुद्ध्या धैर्येण च प्रसन्ना अभवत् । सा उक्तवती - ``पुत्र! चिन्ता मास्तु । त्वं सर्वेषु शास्त्रेषु पण्डितः भविष्यसि । विकटकविनाम्ना प्रसिद्धः भविष्यसि'' । एतत् श्रुत्वा रामः उक्तवान् - ``धन्योऽस्मि मातः ! उत्तमः वरः अस्ति । `विकटकवि' पदस्य अर्थः विदूषकः अस्ति । तथा दक्षिणतः वामं च वामतः दक्षिणं पठामः चेत् अर्थः एकः एव'' !
माता रामस्य धिया अतिप्रसन्ना अभवत्, सा उक्तवती - ``पुत्र ! तव ज्ञानेन कीर्तिं प्राप्स्यसि, राजमन्दिरे त्वं सर्वैः श्लाघितः भविष्यसि । अहम् अन्यम् एकं वरम् अपि ददामि । अत्र पश्य ! मम हस्तयोः द्वे पात्रे स्तः । एकस्मिन् पात्रे ज्ञानपायसम् अस्ति, द्वितीयपात्रे धनपायसम् अस्ति । प्रथमस्य पानेन ज्ञानं लभ्यते, अपरेण धनं लभ्यते । एकं पात्रं चित्वा पायसं पिब'' ।
रामः सन्तुष्टः अभवत् । अचिन्तयत् च - ``द्वे अपि उपकारिणी पायसे स्तः । किं चिनोमि?'' इति । नम्रतया मातरम् उक्तवान् - ``किं पायसं रुचितरम् इति न जानामि । प्रथमं द्वे अपि किञ्चित् किञ्चित् पीत्वा आस्वादयामि'' इति । यावत् माता किमपि वदेत् रामः झटिति तस्याः हस्ताभ्यां द्वे पात्रे स्वीकृत्य पायसे पीतवान्, बालकसहजया लज्जया नमस्कृतवान् ।
काली माता क्रुद्धा अभवत् परन्तु रामस्य मुखं दृष्ट्वा ज्ञातवती यत् - ``एतत् सर्वं मम वरेण अभवत् किल ! रामः मम वरेण एव माम् अपि मोहितवान् ! सः अतीवचतुरः अस्ति'' । ``सुखी भव!'' इति उक्त्वा सा अदृश्या अभवत् ।
कालेन तेनालिरामः श्रीकृष्णदेवरायस्य राजमन्दिरे कविविदूषकरूपाभ्यां कीर्तिं प्राप्तवान् ।

- लावण्या मर्ला

1 comment:

Anonymous said...

Thank you so much for this second issue. It is very helpful for people like myself who are trying to gain further familiarity in Sanskrit.