Saturday, March 8, 2008

सहजं भाषासामर्थ्यम्

प्रायः अस्माभिस्सर्वैः श्रूयते यत् अस्माकम् अपत्यैः सह संस्कृतेन सम्भाषणम् अत्यधिकलाभदायकमिति । बालाः यथा तेषां मातृभाषां जानन्ति तथा एव संस्कृतमपि जानन्तु इति । एतेन न केवलं बालानां भाषाज्ञानाधिक्यं भवति, परन्तु संस्कृतभाषायाः पालन-पोषण-संरक्षणादीनि कार्याण्यपि भवन्तीत्यपि श्रूयते । एतत् कथं शक्यमिति कस्यचित् पुस्तकस्य पठनेन ज्ञातुं शक्नुमः । Language Instinct इति पुस्तके बालानां भाषायाः अवगमनं कथं भवति इति विषयः सम्यक् विवृतः अस्ति । तदनुसृत्य अस्मिन् लेखने अस्माकं प्रस्तुतविषयस्य चिन्तनं कृतमस्ति । किमर्थम् अस्माकं बालैः सह संस्कृतेन वार्तालापः करणीयः इति प्रश्नस्य उत्तरम् अत्र चर्चितमस्ति ।


बालाः कामपि भाषां कथं जानन्तीति विषयः अत्र मुख्यः । उपरिसूचितपुस्तके लेखकः तर्कयति यत् सर्वाः भाषाः निसर्गजाः सन्ति, न कश्चिदपि पिता तस्य अपत्यानां कृते प्राथमिकभाषां पाठयति, बोधयति वा । बालाः दैनन्दिकव्यवहारे यानि यानि वाक्यानि, यान् शब्दान् च शृण्वन्ति केवलं तान् एव अनुवदन्ति इत्यपि न । परन्तु तेषां मनसि भाषायाः उत्पादनार्थं निसर्गजं ज्ञानमस्ति, यस्मात् कारणात् तैः कस्यामपि भाषायां सामर्थ्यं शीघ्रम् एव प्राप्तुं शक्यते । अत्र न केवलं स्वाभाविकज्ञानं, परन्तु दैनन्दिकव्यवहारप्रभावः अपि कारणम् इति अंशः गणनीयः । ते कस्याः अपि भाषायाः वैशिष्ट्यादीनि केवलं व्यवहारात् जानन्ति । परन्तु अधिकतया भाषायां ये नियमाः सन्ति ते व्यवहारप्रभावं विना एव ज्ञायन्ते ।



उदाहरणार्थम्, अस्य पुस्तकस्य लेखकः कांश्चन प्रयोगान् विवृणोति । कश्चन विज्ञानसंशोधकः त्रिवर्षीयान् बालकान् उद्दिश्य विग्रहवाक्यम् एकम् उक्त्वा तस्य समस्तपदम् अपि सूचयति । अनन्तरं सः पुनः अन्यत् विग्रहवाक्यं वदति । एतत् श्रुत्वा ते बालकाः स्वनिर्मितं समीचीनं समस्तपदं वदन्ति । पुनः सः संशोधकः अन्यत् विग्रहवाक्यं वदति । तदनुसृत्य बालकाः पुनः स्वनिर्मितं निर्दोषसमस्तपदं प्रतिवदन्ति । पदवाक्यनिर्माणे यत्र सूक्ष्मनियमाः अनुसरणीयाः तत्र ते तथैव कुर्वन्ति । उदाहरणार्थम् - नूतनसंस्कृत-छात्राः सामान्यतया "जानीमः" इति विशेषक्रियापदरूपम् अज्ञात्वा जानामः इति वदन्ति । परन्तु बालाः नियमान् अश्रुत्वा, केवलं पदप्रयोगं श्रुत्वा, नियमान् अज्ञात्वा एव सहजतया सुलभतया च समीचीनं रूपं वदन्ति ।


केचन जनाः चिन्तयन्ति यत् ते बालाः ईदृशान् विशेषप्रयोगान् पूर्वं कदापि श्रुतवन्तः स्युः इति । परन्तु मातापितरः बालैः सह यदा वार्तालापं कुर्वन्ति तस्मिन् समये तेषां वाक्येषु विशेषसमस्तपदानां प्रयोगाः अधिकतया न श्रूयन्ते एव । तैः लघुवाक्यानि एव उच्यन्ते इति भासते । अतः बालानां भाषायाः अवगमनज्ञानं स्वाभाविकं, निसर्गजं च, न तु व्यवहारप्रभावादिति वक्तुं वयं शक्नुमः ।


एतस्य कथनस्य सारांशः कः ? बालानाम् ईदृशं स्वाभाविकसामर्थ्यं प्रथमषड्वर्षपर्यन्तं भवति । तावत्पर्यन्तं ते अधिकपरिश्रमं विना भाषासामर्थ्यं प्राप्नुवन्ति । वयं केषाञ्चन त्रिवर्षीयबालानां सम्भाषणे व्याकरणस्य अंशान् परिशीलयामः चेत्, व्याकरणशुद्धता सम्यक् एव दृश्यते । येषां भाषाव्यवहारे लिङ्गसहितपदप्रयोगाः सन्ति ते तदन्वितदोषान् न कुर्वन्ति । या भाषा तेषां तृतीयवयसः पूर्वं श्रूयते तस्यां भाषायां तैः नैपुण्यं प्राप्यते । तर्हि षष्ठवर्षादनन्तरं किं भवति ? तेषां भाषाग्रहणशक्तिः न्यूना भवति । यथा मानवशरीरे निसर्गज-स्पन्दनाः (reflexes) एकस्मिन् निर्दिष्टसमये उद्भूय पुनः अदृश्यतां प्राप्नुवन्ति तथा एव मस्तिष्कमपि भाषाज्ञानप्राप्त्यर्थम् एकस्मिन् निर्दिष्टसमये एव योग्यं भवति । सः अवकाशः मनुष्याणां कृते प्रथमषड्वर्षपर्यन्तम् एव अस्ति । तदनन्तरं तैः अधिकतया केवलम् अवगतभाषायाः उपयोगः करणीयः भवति । तदर्थं मस्तिष्के अधिकनैपुण्यं भवति । परन्तु भाषाज्ञानप्राप्तेः कापि अवश्यकता नास्ति इति अतः सा शक्तिः अनन्तरं न्यूना भवति । अस्माकं यौवने, प्रौढवयसि वा नूतनभाषां ज्ञातुम् अस्माभिः शक्यते एव । परन्तु सा शक्तिः बाल्यवयसि यथा भवति तथा न ।


वयं चिन्तयामः ``अस्तु, मम किञ्चित् संस्कृतभाषाज्ञानम् अस्ति, वक्तुमपि शक्नोमि, अज्ञानेन अहम् अनेकान् दोषान् कुर्याम् । मम बालैः सह संस्कृतेन सम्भाषणं करोमि चेत् दोषभरितवाक्यानि एव वदामि, अतः मम बालाः अपि तादृशमेव वदेयुः । एवमेव मम पाठनेन संस्कृतस्य अधोगतिः एव भवेत्'' इति । परन्तु तादृशी स्थितिः न भवति इति भाति । अन्यस्मिन् समये केषुचन प्रयोगेषु केचन मूकबालकाः दृष्टाः येषां मातापितरौ संज्ञाभाषां (sign language) सम्यक् न ज्ञातवन्तौ । तेषां मातापित्रोः संज्ञाभाषा दोषसहिता आसीत् । परन्तु मूकबालकानां संज्ञाभाषायां दोषाः न आसन् एव । यद्यपि मातापित्रोः भाषाशुद्धिः नास्ति तथापि बालकानां वचनानि दोषरहितानि एव भवन्ति । ते अश्रुतपूर्वनियमानपि अनुसृत्य नैपुण्येन एव भाषन्ते । एतत् कथं साध्यमिति पृष्टे सति उत्तरं न लभ्यते एव । परन्तु संक्षिप्तरूपेण वक्तुं शक्नुमः यत् तेषां भाषाग्रहणशक्तिः निसर्गजा एव, अतः अत्यल्पकाले स्वल्पप्रयत्नेन स्वाभाविकतया भाषाज्ञानं, सामर्थ्यं च प्राप्नुवन्तीति ।


यदा काचन भाषा लुप्ता भवति तदा तत्सम्बन्धि-संस्कृतिरपि नश्यति । तस्याः वैशिष्ट्यमपि नश्यति । अतः इदानीं संस्कृतभाषाप्रगत्यर्थं, संस्कृतभाषाभिवृद्ध्यर्थं क्रियमाणेषु कार्येषु बालानां पात्रमपि बहु मुख्यमेव । तेषां मनः भाषाप्राप्त्यर्थं बाल्ये एव सिद्धमस्ति । तैः यस्मिन् प्रकारे भाषा श्रुता भवति तदेव अनुसृत्य ते तस्यां भाषायां प्रावीण्यमपि प्राप्नुवन्ति । अतः संस्कृतस्य विषये अस्माकं स्वल्पा अपि चिन्ता न भवेत् । वयम् अस्माकम् अपत्यानां जननकालात् आरभ्य तान् संस्कृतमाध्यमेन लालयाम, पालयाम, पोषयाम च । ते बाल्यकालतः एव संस्कृतभाषां जानन्तु । एतेन माध्यमेन संस्कृतस्य, अस्माकं संस्कृतेः च प्रगतिः अभिवर्धताम् ।


रचयेम संस्कृतभुवनम् ।


सम्पादिका सौम्या जोयिसा
UPenn स्नातका


* स्थलाभावात् अत्र सम्पूर्णानि विवरणानि न दत्तानि । ये अधिकं ज्ञातुम् इच्छन्ति, ते पुस्तकं पठेयुः ।
Pinker, S. , “The Language Instinct”, Harper Collins Publishers, New York, 1994.

No comments: