Saturday, March 8, 2008

कैलास-मानस-सरोवर-यात्रा

कैलासयात्रा करणीया इति अनेकवारं मम पतिः अहं च अचिन्तयाव । यात्रा कठिना अस्ति, बालकाः न गच्छेयुः, उत्तुङ्गशिखरकारणात् श्वासोच्छ्वासाय कष्टाः भवन्ति, ग्रीष्मकाले गमनीयम् इति श्रुतवन्तौ । कथं गन्तुं शक्ष्यावः यतः आवयोः बालकौ स्तः ? ईश्वरानुग्रहेण, बेङ्गलूरुनगरे एकस्य आवासीयविद्यालयस्य पाक्षिकं क्रीडाशिबिरं भविष्यति इति अपठाव । तस्मिन् शिबिरे बालकौ प्रेषयितुं निर्णयं कृतवन्तौ । गुरोः कृपया वृद्धानाम् आशीर्वादैः आवां यात्रारम्भं कृतवन्तौ ।


पार्थिवसंवत्सरे वैशाखमासे नवदेहलीतः काठ्माण्डुनगरम् अगच्छाव । दिनद्वयं तत्रैव श्रीपशुपतिनाथदर्शनार्थम् अवसाव । यात्राधिकारी यात्राविषये महत्सूचनाम् अददात् । अनन्तरं लोकयानैः शतजनाः काठ्माण्डुनगरात् जाङ्गमुनगरं गतवन्तः । मार्गे वयम् अपश्याम यत् प्रशान्तबाग्मतीनदी प्रावहत् । जाङ्गमुनगरं भारतटिबेट्-देशयोः सीमायाम् अस्ति । तत्र अनुज्ञापत्राणां मुद्राकार्यानन्तरं टिबेट्-देशः प्रविष्टः । न्यालम्पत्तने एकं दिनम् अतिष्ठाम । प्रातःकाले श्रेष्ठमिलारेपामुनेः मठं गत्वा, तत् सर्वं दृष्ट्वा, विशेषतः तां महतीं शिलाम् अस्पृशाम, यस्य अधः उपविश्य सः मुनिः महत्तपः चकार ।
शैत्यात् वयम् अकम्पामहि । अहं किञ्चित् श्वासाय क्लेशम् अपि अन्वभवम् । रात्रौ अस्माकं प्रकोष्ठे चतुर्भिः मित्रैः सह वार्तालापम् अकुर्म यत् कथं कैलासपर्वतस्य ५३ किलोमिटर्‌परिक्रमं कुर्यामेति । न्यालम्पत्तने एव मया ज्ञातं यत् न्यालम्प्रत्यागमनपर्यन्तं पटमण्डपे एव शयिष्यामहे इति । तदा अहम् अवदं यदि परिक्रमसमये परिश्रमम् अनुभविष्यामि चमरोपरि उपवेक्ष्यामीति । तदा यात्रास्निग्धः अवदत् "एवं मा कुरु, चलितुं शक्ष्यसि । यदि चमरारोहणं करिष्यसि, तर्हि पुनर्जन्मनि चमरः भविष्यसि'' । तत्क्षणे एव चलिष्यामि इति निर्णयं कृतवती । लघुलोकयानैः न्यालन्नगरात् सागान्नगरं गत्वा सागान्नगरतः पर्याङ्ग्‌-नगरम् आगतवन्तः । समग्रदिनत्रयानन्तरं मानससरोवरतटम् अगच्छाम । अमलं स्तिमितं वैढूर्यवर्णसरोवरं दृष्ट्वा अमोदे ।


मानससरोवरतटे अतीवशैत्यम् आसीत् । तदानीम् अशृणुम अग्रे हिमवर्षा अधिकाभवत् अतः आगामियात्रा दुष्करी भविष्यति इति । यात्राधिकारी अस्मान् उपादिशत् यत् सावधानेन भवितव्यम् इति । शतजनेषु चतुर्दशजनाः ``कथमपि श्वः गमनीयम्'' इति निश्चयम् अकुर्म । शेर्पाजनाः अस्माभिः सह आगमिष्यन्ति इति व्यवस्थाम् अकुर्म । ते अस्माकं परिक्रमार्थं पटमण्डपान् आम्लजनककोशान् (oxygen cylinder) शुष्कफलानि जलकूपीः च आनयन् । तैः विना यात्रा असाध्या अभविष्यत् ।
यमद्वारतः चतुर्दशजनाः पदयात्रारम्भम् अकुर्म । प्रथमदिने सप्तदशकिलोमीटर् अचलाम । औन्नत्यात् मन्दमेव श्वासनं, गमनं, भोजनं, पानं च कृतवन्तः । सूर्यास्तानन्तरमेव पटमण्डपे निद्रां कृतवन्तः । रात्रौ शीतकम् इव आसीत् पटमण्डपे । द्वितीयदिने सूर्योदयसमये ज्ञातं पटमण्डपस्य पृष्ठतः अस्ति बृहान् दिव्यः कैलासपर्वतः । पुनः पुनः साष्टाङ्गनमस्कारं अकुर्व शिवशक्तिजपं च अवदाव ।


एतस्मिन् दिने द्वाविंशतिः किलोमीटर् दूरं पादाभ्यां गतवन्तः अपि च दुष्प्राप दोल्माला पास् पारं गतवन्तः । दोल्माला पास् हिमाद्रेः अतीव उत्तुङ्गं स्थलम् अस्ति । तत्र श्वासोच्छ्वासाय कष्टम् अनुभूतवन्तः । दोल्माला पास् अवतरणानन्तरं रात्रौ पुनः पटमण्डपे अस्वपाम । त्रितीयदिनस्य चतुर्दशकिलोमीटर् पदयात्रा सुलभा आसीत् । त्रीणि दिनानि केवलं शुष्कफलानि जलं च स्वीकृतवन्तः । परिक्रमानन्तरं स्थिरमत्या शीतलमानससरोवरे आवां स्नानं कृतवन्तौ । इदानीमपि चिन्तयामि देवी एव शक्तिं दत्तवती । ईश्वरेच्छासीत् आवयोः यात्रा सम्पूर्णा भूयात् इति । आवां तस्मै शिवाय तस्यै देव्यै च कृतज्ञतां सदार्पयाव । ॐ नमः शिवाय ।

ज्योत्स्ना कलवार्
PSU अध्यापिका

1 comment:

Himanshu said...

ज्योत्स्नावर्ये,

भव्त्याः वर्णनं पठित्वा भृशम् आनन्दः अभवत्| अति अल्पशब्दैः भवत्या सर्वं लिखितम्| अहं स्वयं कैलाशपर्वते मानसरोवरे अस्मि इति अन्वभवम्|

धन्व्यवादाः|

हिमांशुः|