Saturday, March 8, 2008

सुभाषितम्

न कश्चित् कस्यचिन्मित्रं न कश्चित् कस्यचिद्रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवस्तथा ॥


न कश्चित् कस्यचित्-मित्रम् न कश्चित् कस्यचित्-रिपुः ।
कारणेन हि जायन्ते मित्राणि रिपवः-तथा ॥

न कस्यचित् मित्रं कश्चित् न कस्यचित् रिपुः कश्चित् । कारणेन हि मित्राणि तथा रिपवः जायन्ते । कारेणेन विना कोऽपि अन्यस्य मित्रं वा रिपुः वा न भवति एव । यदि किमपि कारणम् अस्ति, तर्हि एव मित्राणि च शत्रवः च जायन्ते ।

4 comments:

ऋतेश पाठक said...

संस्कृत भाषाया: प्रसारे भवत: प्रयास: महत्वपूर्णमस्ति. अद्य तु संगणके नागरी लिप्या: उपयोग: सुलभ: जात:. तर्हि कथम् भवान् speaksanskrit.org इति अंतर्जाले रोमन लिप्या: प्रयोगं करोति. यदि आंग्लानां कृते अस्य प्रयोग: अनिवार्य: तर्हि द्वौ अपि कथं न प्रयुक्त:? एतादृश: प्रयोग: समीचीन भविष्यति इति चिन्त्यामि अहम्.

भवत:

ऋतेश पाठक
(0091-9213152822)

Deepa said...

Namaste! This is an incredible work - its such a joy to behold this!

This is my first visit to this site. My humble request: It would help beginners like me tremendously if an English translation was included - to help us through.

Hope it will be considered favourably. With many thanks.
Deepa

Speak Sanskrit said...

ऋतेश महोदय,

भवतः मतं योग्यम् एव । परन्तु सर्वे अपि सङ्गणकस्य प्रयोगे निपुणाः न । अन्यच्च सर्वेऽपि संस्कृतभाषां न अवगच्छन्ति ननु ? जालस्थानं तेषामपि उपयोगाय भवेत् । अतः यथा भवता चिन्तितम्, आङ्ग्लभाषायाः प्रयोगः अनिवार्यः एव । द्वयोः भाषयोः जालस्थानस्य रचनां कर्तुं महान् श्रमः आवश्यकः । तदर्थं समयः न प्राप्तः । अस्माभिः भविष्यति तथा करणीयम् इति चिन्तनं त्वस्त्येव ।

Speak Sanskrit said...

namaste dd

Our idea is to teach sanskrit through sanskrit. Hence we have not provided translations. If you need help with any particular word/sentence/article please contact us at vishvavani [at] speaksanskrit [dot] org and we will be happy to help you