Friday, July 18, 2008

परिसरप्रेमी


सृष्टिकार्यस्य षष्ठे दिने भगवान् मानवसृष्टिं कृत्वा - ‘यत् मया एतावत् पर्यन्तं सृष्टं तत्सर्वं भवतः उपयोगार्थमेव, गच्छतु, अनुभवतु’ इति अवदत् इति बाइबल्-ग्रन्थे लिखितम् अस्ति । प्रातःकाले उत्थाय “विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे” इति चिन्त्यमाणेभ्यः भारतीय-विचारेभ्यः एषः कियान् भिन्नः अस्ति इति चिन्तनं कदाचित् करोति मनः ।
यदा अहं कार्बेट् महोदयस्य कथां प्रथमवारं मम पितामहात् श्रुतवान् तदा एषः अपि भारतीय-विचारान् केवलं कुतूहलदृष्ट्या पश्यत्सु पाश्चात्त्येषु अन्यतमः इति मम चिन्तनम् आसीत् । वयं सर्वे भारते जिम् कार्बेट् राष्ट्रिय-उद्यानस्य (Jim Corbett National Park) विषयं श्रुतवन्तः । अस्मासु केचन तत्र गतवन्तः स्युः अपि । आङ्ग्लभाषीयः जिम् कार्बेट् जन्मनः भारतीयः । नैनीताल-प्रदेशे तस्य वर्धनम् अभवत् । बाल्ये एव सः प्रकृत्याम् अनुरक्तः । यदा सः द्वादश-वर्षीयः आसीत् तदा एव पक्षिणां मृगाणां च विषये तस्य महत् ज्ञानम् आसीत् । कुतूहली, धैर्यवान् च कार्बेट् बालकः सन् अपि दण्डकारण्ये एकाकी एव अहोरात्रं सञ्चरति स्म । तस्मिन् समये नरभक्षकाः व्याघ्राः कुमाऊँ प्रदेशे जनान् पीडयन्ति स्म । तेषां संहारार्थं कृतस्य कार्यस्य अनुभवाः कथारूपेण लिखितम् अस्ति कार्बेट्-महोदयेन । तासु कथासु रुद्रप्रयागस्य नरभक्षकस्य कथा विश्वप्रसिद्धा, बह्वीषु भाषासु अनूदिता च अस्ति । रुद्रप्रयागस्य नरभक्षकव्याघ्रः सम्पूर्णकुमाऊँ प्रदेशं अष्टवर्षाणि यावत् अपीडयत् । शताधिकजनाः हताः तेन । प्रतिदिनं तस्य व्याघ्रस्य वार्ताः जगतः प्रमुख-वार्तापत्रिकासु प्रकटिताः भवन्ति स्म । मृतेषु बहवः बदरीनाथ-केदारनाथ-तीर्थस्थले गच्छन्तः यात्रिकाः आसन् । स्वप्राणान् अगणयन् कार्बेट् व्याघ्रं हन्तुं त्रिवारं प्रयत्नं कृतवान् । अन्ते १९२६ वर्षे सः सफलः अभवत् ।
परन्तु केवलं पीडानिवारणार्थं मृगया करणीया इति तस्य अभिमतम् आसीत् । जीवनस्य परार्धे सः गोलिकास्त्रं (gun) त्यक्त्वा चित्रग्राहकयन्त्रम् उपयुज्य मृगयां कर्तुम् आरब्धवान् । जीवनपर्यन्तं सः तत्रत्यानां जनानां जीवनपरिवर्तनार्थं प्रकृति-संरक्षणार्थं च प्रयत्नं कृतवान् । तस्य मरणादनन्तरमपि बहुकालपर्यन्तं तत्रत्याः जनाः कार्बेट् आगत्य तेषां कष्टनिवारणं करोति इति चिन्तयन्ति स्म । इदानीमपि कार्बेट् महोदयेन लिखितानि पुस्तकानि जनेषु प्रकृति-प्रेम जनयन्ति । कथम् अस्माभिः कृतैः दोषैः व्याघ्राः नरभक्षकाः भवन्ति इति तेषु पुस्तकेषु सः रमणीयशैल्या विवृणोति । भारतीय-आचारविचारेषु ज्ञानं गौरवं च दृश्येते तेन लिखितेषु पुस्तकेषु । तस्य स्मारकरूपेण १९५४ संवत्सरे भारतीयसर्वकारेण तदा उत्तरप्रदेशे स्थिताय अरण्याय जिम् कार्बेट् राष्ट्रिय-उद्यानम् इति नाम दत्तम् ।
लोके साहसिनः सन्ति बहवः । कल्पनासामर्थ्येन रोमाञ्चकारिणीं कथां लेखितुं समर्थाः लेखकाः अपि सन्ति । परन्तु साहसिनः तथा मनोरञ्जक-लेखकाः जनाः विरलाः । जिम् कार्बेट् तेषु एकः ।


--सिन्धूरः गणपतिः

No comments: