Friday, July 18, 2008

नरेन्द्रात् विवेकानन्दः

(गते अङ्के)
सत्यान्वेषणाय नरेन्द्रः श्रीरामकृष्ण-परमहंसेन सह मेलितुं दक्षिणेश्वरग्रामं गतवान् । श्रीरामकृष्णः कोऽपि वृद्धः महासंन्यासी भवेत् इति चिन्तयन् कुतूहलेन रामकृष्णस्य गृहं प्राप्तवान् सः । किन्तु तत्र तु कालीकीर्तनानि शृण्वन् उन्मत्तः इव नृत्यन् एकः सामान्यः पुरुषः एव दृष्टः । “एषः वा तत्त्वज्ञानी?” इति नरेन्द्रः आश्चर्येण चिन्तितवान् । तस्य पुरुषस्य समीपं गत्वा “श्रीमन्, भवता भगवद्दर्शनं प्राप्तं किम्?” इति विनयेन पृष्टवान् नरेन्द्रः । श्रीरामकृष्णः झटिति प्रत्युत्तरं दत्तवान् । “आं वत्स । मया भगवद्दर्शनं प्राप्तम् । यथा अहं भवन्तम् इदानीं पश्यन् अस्मि ततोऽपि अधिकया स्पष्टतया भगवन्तं पश्यामि । सर्वे भगवन्तं द्रष्टुं शक्नुवन्ति । तेन सह वक्तुम् अपि शक्नुवन्ति । किन्तु भगवतः विचारं कः वा करोति? सर्वे पत्नी पुत्राः धनम् इत्यादीनां कृते बहूनि अश्रूणि स्रावयन्ति किन्तु भगवतः विषये कस्य वा चिन्तनम् ? यदि भगवद्दर्शनं प्राप्तुं कोऽपि रोदिति निश्चयेन तत् प्राप्स्यते” इति अतीवस्पष्टतया उक्तवान् रामकृष्णः । एतं वृत्तान्तं श्रुत्वा नरेन्द्रः चकितः अभवत् । ततः पूर्वम् एवं विश्वासेन वदन्तं कमपि सः नैव दृष्टवान् आसीत् । गम्यं प्राप्तम् ।

कालेन नरेन्द्रः रामकृष्णस्य अत्युत्तमः शिष्यः अभवत् । किन्तु तत्पूर्वं सः रामकृष्णस्य चरित्रम् अतीव-सूक्ष्मतया परीक्षते स्म । यथा सः बाल्यात् परिशीलनं विना कस्मिन्नपि विषये विश्वासं न करोति स्म तथैव रामकृष्णस्य चरित्रं बोधनानि चापि परिशील्य एव तं गुरुरिति अङ्गीकृतवान् । रामकृष्णः परमहंसः संन्यासी च । तस्य मनः वैराग्यभरितम् । “मम धनाय काचिदपि न प्रीतिः । अपि तु धनस्य अथवा लोहस्य स्पर्शेनापि मम शरीरे काचित् असहनीया प्रतिक्रिया भवति” इति रामकृष्णेन एकदा उक्तम् । एतत् वस्तुतया सत्यम् उत न इति नरेन्द्रः कथं वा जानीयात् ? एकः उपायः तस्य मनसि आगतः । यदा रामकृष्णः अन्यत्र आसीत् तदा तस्य मञ्चे एकं नाणकं नरेन्द्रः गोपितवान् । एतत् अज्ञात्वा रामकृष्णः मञ्चे उपविष्टवान् । झटिति तस्य शरीरं शिला इव शीनम् अभवत् । नरेन्द्रस्य श? भग्ना जाता । यद्यपि रामकृष्णः बाधितः तथापि सः न कुपितः । सः इच्छति स्म तस्य शिष्याः तं परीक्षेरन् इति ।
किन्तु तत्र न केवलं शिष्येण गुरोः परीक्षा अपि तु गुरुणा छात्रस्य परिशीलनम् अपि प्रचलति स्म । कदाचित् रामकृष्णः नरेन्द्रं पृष्टवान् “वत्स! भवतः श्रद्धानिष्ठाप्रगतीः दृष्ट्वा अतीवप्रसन्नः अभवम् । भवते काश्चित् योगशक्तीः ददामि । ताः उपयुज्य इह यत् इच्छति तत् प्राप्नोति । स्वीकरोति वा?” इति । “ताभिः शक्तिभिः मोक्षः प्राप्स्यते किम्?” इति पृष्टवान् नरेन्द्रः । रामकृष्णः अवदत् यत् “नैव । किन्तु मोक्षं विहाय सर्वं लभते” । “तर्हि मह्यं शक्तयः नैव आवश्यक्यः” इति स्फुटीकृतवान् नरेन्द्रः । शिष्यस्य एतेन उत्तरेण अतीव-आनन्दितः गुरुः । योगशक्तिं त्यक्त्वा मोक्षमार्गे चलनं महायोगिनः लक्षणम् ।
गुरुशिष्ययोः सम्बन्धः बहुप्रेमपूर्णः आसीत् । विचित्रः अपि । रामकृष्णः अनक्षरः ग्रामीणः सरलमनाः च । नरेन्द्रः तु अनेकविद्याशिक्षितः नागरिकः तर्कप्रेमी च । यद्यपि नरेन्द्रः शिष्येषु श्रेष्ठः तथापि सः अतिकठिनः अपि ! किन्तु कालेन सः गुरोः चरणयोः संपूर्णतया शरणं याचितवान् । क्रमशः अनेकान् आध्यात्मिकानुभवान् प्राप्तवान् च । गुरोः सन्निधौ शिष्यस्य आध्यात्मिकविकासः प्रवृद्धः जातः । “वत्स! जीवनस्य लक्ष्यं मोक्षः एव । किन्तु ततोऽपि श्रेष्ठा गतिः अस्ति यत् सर्वेषु जीवेषु भगवान् निवसति इति ज्ञानम् । जीवः शिवः इति भावयन् सर्वेषां सेवा करणीया । स एव वेदान्तसारः” इति प्रियशिष्यं नरेन्द्रं शिक्षितवान् सद्गुरुः परमहंसः रामकृष्णः । नरेन्द्रस्य सेवाभावः अभिवृद्धः । भविष्यति तस्यापि एषा एव मुख्यसूक्तिः ।


किन्तु १८८४ वर्षे नरेन्द्रस्य पिता दिवङ्गतः । परिवारस्य संरक्षणं नरेन्द्रस्य दायित्वम् अभवत् । कुटुम्बस्य पोषणे अनेकान् कष्टान् अनुभूतवान् । संसारे ईदृशानि दुःखानि भवन्ति इति सः न जानाति स्म । दैवीकृपया गुरोः आधारेण च कथमपि कुटुम्बपोषणं कृतवान् । किन्तु तस्य मनः संन्यासम् अन्विच्छति स्म । परिवारस्य परिरक्षणार्थं व्यवस्थां कृत्वा गुरोः सन्निधौ अन्यशिष्यैः सह संन्यासं स्वीकृतवान् । १८८६ संवत्सरे रामकृष्णः अपि दिव?तः । तत्पूर्वम् अनौपचारिकरूपेण नरेन्द्रस्य नेतृत्वे शिष्याणाम् एकः स?ः रामकृष्णेन एव रचितः । भविष्यति रामकृष्णमठस्य आधारः अयं स?ः एव प्रायः । गुरुरामकृष्णेन ज्वालितेन वैराग्याग्निना सर्वे शिष्याः कोल्कता-नगरे बारानगरप्रदेशे एकस्मिन् अतीवपुरातने भवने निवसन्ति स्म । तत्रैव तेषाम् आश्रमः । ततः पारिव्रजकरूपेण इतस्ततः युवसंन्यासिनः देशसञ्चारं कुर्वन्ति स्म । नरेन्द्रः अपि लोकसञ्चारनिमित्तम् आरब्धवान् । अनेकानि पुण्यस्थानानि अभिगतवान् । बहून् ग्रामान् दृष्टवान् । अनेकैः पण्डितैः राजभिः सामन्यजनैः सह च मिलितवान् । प्रवासे कदापि विवेकानन्दः इति नाम तेन स्वीकृतम् । काश्मीरतः कन्याकुमारीपर्यन्तं विवेकानन्दस्य यात्रा । अधिकतया पादचालनेन एव तस्य विहारः । अनेके जनाः तस्य अनुचराः अभवन् । वर्षत्रयस्य परिक्रमे भारतस्य पुरातन-संस्कृतिं दृष्टवान् । संस्कृतेः पराभवः अपि तेन दृष्टः । मुख्यतया जनानां दुःस्थितिं, ततोऽपि अधिकतया सामान्यजनान् प्रति समाजस्य धनिकानां शिक्षितानां युवकानाञ्च औदासीन्यं दृष्ट्वा विवेकानन्दः अतीव दुःखितः अभवत् । यत्र यत्र गच्छति स्म तत्र तत्र पुण्यभारतीयसंस्कृतेः ग्लानिरेव दृष्टा । एकत्र पाश्चात्त्यपद्धत्या शिक्षितयुवकानां भारतं प्रति अवाख्या । अन्यत्र लघुचेतसां पण्डितानां प्रजापीडनम् । जातिकुलभेदैः समाजस्य क्षयः । सर्वत्र तमः व्याप्तम् । विवेकानन्दस्य अपारदयास्वभावेन भारतस्य एतस्याः दीनस्थितेः परिहारस्य अन्वेषणम् आरब्धम् । अन्धकारे निम?तस्य भारतस्य सनातनधर्मस्य च पुनर्निर्माणं कथं भवेत् इत्येव तस्य निरन्तरचिन्तनम् । जनाः अभिवर्धनं कथं वा प्राप्नुयुः ? एवं चिन्तने निमग्नः विवेकानन्दः कन्याकुमारीं प्राप्तवान् । हिन्दुमहासमुद्रे एका शिला तेन दृष्टा । यावत्भारतस्य दक्षिणतमा शिला सा । सागरे तरित्वा शिलाम् आरुह्य भरतखण्डम् अभिमुखं कृत्वा उपविष्टवान् । तेन प्रवासे यत् यत् अनुभूतं तत् सर्वं स्मृतवान् । जनानां दुःस्थितिः धर्मस्य पराभवः सहृदयस्य अभावः इत्यादयः सर्वाः चिन्ताः तम् अबाधन्त । सः तीव्रध्याने निमग्नः अभवत् । भारतस्य संपूर्णचरित्रं भविष्यमार्गं च स्पष्टम् आलोचितवान् । समस्यानां परिहारः स्फुटः दृष्टः । भारतस्य दुःस्थितेः कारणं धर्मः न परन्तु धर्मस्य अभावः जनानाम् अविद्या च । पुनः सर्वे धार्मिकाः विद्यापूर्णाः सेवाभाविकाः च भवन्तु । तत्रैव समस्यायाः विमोचनम् । “जीवः शिवः” इति गुरुसूक्तेः अनुचरणेन एव सनातनधर्मस्य अभिवृद्धिः । सर्वे त्यागचेतसा जीवानां सेवां कुर्वन्तु । एतादृशानि चिन्तनानि विवेकानन्दस्य मनसि उद्भूतानि । किन्तु तेषां प्रचारः कथं वा करणीयः ? सः तु समाजे अनामिकः अपरिचितः संन्यासी । तस्य अनुचराः अपि युवकाः । ते प्रचारं कुर्वन्ति चेदपि के तान् श्रोतुम् इच्छन्ति? एकः उपायः तेन चिन्तितः “एतस्मिन् वर्षे अमेरिका-देशे ‘parliament of religions’ इति एकं बृहत् सम्मेलनं भविष्यति । यदि तत्र हिन्दुधर्मस्य प्रतिनिधिरिव गत्वा साफल्यं लभेय तर्हि तस्य प्रभावः भारते निश्चयेन दृश्यते ।” एवं चिन्तयन् अनुचराणां साहाय्येन अमेरिका-देशं प्रति मई ३१ १८९३ दिने यात्राम् आरब्धवान् । तत्र किम् अभवत् सर्वे जानन्ति एव । तां कथाम् अग्रिमा? पश्यामः ।

(अनुवर्तते)


--हरिः चन्दन् मन्त्रिप्रगड

1 comment:

Himanshu Pota said...

अति आनन्ददायका कथा प्रेरणाकारी अपि अस्ति|
अस्याः कथायाः अनुवर्तनस्य अधीरतया प्रतीक्षां करोमि|

हिमांशुः|