Friday, July 18, 2008

मुद्रिकारहस्यम्

(गते अङ्के)
घुण्डीराजः प्रस्तावं स्वीकृतवान् ।
चतुराक्षमाहूय चोक्तवान् - एतत्सर्वं नाधिगच्छामि । शकुन्तला सत्यं कथयति, अथवा राजानं पाशयितुं स्त्रीचरित्रं करोति । यद्येषा न मायां करोति तर्हि न जाने क इदं करोति । कदाचित् कण्व एव स्यात् । दुष्यन्तः शकुन्तलां किमर्थं न स्मरति । सत्यमेव स तां विस्मृतोऽथवा नाटयति । अपीयं सैव शकुन्तला यां स आश्रमे विवाहितवान् । अप्ययं स एव दुष्यन्तः ? यदि नायं स एव दुष्यन्तः, तर्हि कण्वाश्रमं गत्वास्याः कन्यायाः कौमार्यं भङ्क्त्वा को निवृत्तः ? किन्तु सोऽभिज्ञारूपेण मुद्रिकामपि तु दत्तवान् ! सा मुद्रिका कुत्रास्ति ? सम्भाव्यते शकुन्तलां दुष्यन्तस्य राजगृहं प्रस्थितं दृष्ट्वा स एव जनस्तां मुद्रिकामप्यपहृतवानिति । अस्माभिरियं समस्या सर्वप्रकारैश्चिन्तनीया भविष्यति । त्वं गच्छ, राजभवनाद्यथाकथञ्चिदपि ज्ञानं कुरु यदि कतिपयदिवसपूर्वं राजा कण्वाश्रमं गत आसीन्न वेति ।
राज्ञः सारथिश्चतुराक्षस्य परिचित आसीत् । तं सारथिमवलोक्य चतुराक्षोऽपृच्छत् - त्वं राजानं सदैव मृगयार्थं नयसि, कदाचिदृषीणामाश्रमानपि नयसि न वा ।
किमर्थमेवं पृच्छसि ।
केचित् साधवो गतदिवसे भषन्ते स्म यद्राजा मृगयाव्यसनी, न मुनीन् कदापि पश्यति ।
सर्वथा मिथ्यां भषन्ते ते । सिद्धयोगिनो मठे तु स पक्ष एकवारं गच्छत्येव ।
कुत्रायं मठः ?
कण्वाश्रमपथ्येव तु वर्तते । त्रिचतुर्मासपूर्वं राजा कण्वाश्रममपि गतवनासीत् । ऋषिस्तत्र नासीत् ।
कतिपयप्रहरांस्तत्र यापयित्वा स रात्रौ सिद्धयोगिनो मठे शयनमकरोत् । स आश्रमो राजानमत्यर्थमप्रीणात् । तत एव कालाद्राजा तमाश्रमं प्रायशो गच्छति । एते मुनयोऽसत्यं भषन्ते राजा न तान् पश्यतीति ।
दुष्टा एते साधव इत्युक्त्वा चतुराक्षः प्रस्थितः ।
यद्यपि राज्ञः कण्वाश्रमगमनं सिद्धमासीत्, तथापि घुण्डीराजः सूक्ष्मान्वेषणदृष्ट्या कण्वाश्रमं मध्याह्ने गतः । काश्चित् कन्याः स्मेराननाः परस्परं जल्पन्त्यो वृक्षान् सिञ्चन्ति स्म । वस्तुतस्त्वेताः कन्याः स्वभावप्रेरिताः यं कञ्चिदप्याश्रममागच्छन्तं पुरुषमवलोक्य वृक्षसिञ्चनव्याजेन कण्वमुनेर्दृष्टिमन्धीकृत्य सहजभावाननाटयन् । कञ्चित् कालं ताः कन्या मधुरं प्रेक्ष्य घुण्डीराजोऽपृच्छत् - हे सुन्दर्यः, अप्ययमेव कण्वाश्रमः ?
कस्यापरस्याश्रमोऽस्मिन् भीषणवने स्यात् - इति प्रियंवदोष्णं निःश्वस्य शास्त्रीयोपायैर्नयनबाणान् प्रक्षिपन्त्यब्रवीत्_। अहं घुण्डीराजः कण्वर्षिं द्रष्टुमागतः ।



हाय्, हाय्, भवान् घुण्डीराजः ! आः मृतास्मि । भवतो विषये बहु श्रुतम् । चलतु, तत्र लतागुल्मेषु विहरिष्यावः - इति घटमेकतः प्रक्षिप्य प्रियंवदा घुण्डीराजसमीपमागता ।
गन्धर्वविवाहाय इदानीं मम कालो नास्ति ।
यदि न गन्धर्वविवाहश्चेदपरः कश्चिद्विवाहविधिर्भवतु । किन्तु चलतु । भवान् राक्षसविधौ विश्वसिति न वा यत्र कन्येच्छामपृष्ट्वैव बलात् ...ऐँ...
नहि नहि, अहमत्रर्षिं द्रष्टुमागतः ।
यद्येवं तर्हि प्रतीक्षा करणीया भविष्यति । ऋषिर्बहिर्गतः ।
अयं तत्रभवान् ऋषिस्सदैवाश्रमाद्बहिरेव वसति । यदा दुष्यन्त आगतस्तदापि स बहिरेवासीत् ।
शकुन्तलायाः सौभाग्येन अन्यथा अयं वृद्धस्तु नास्मान् कञ्चिदपि द्रष्टुं ददाति ।
सौभाग्यमथवा दौर्भाग्यम् ? अपि न जानीषे दुष्यन्तः शकुन्तलामस्वीकृतवान् ?
अरे दुष्यन्तस्य पितापि स्वीकरिष्यति ताम् । शकुन्तला तं विधुविष्यति । कण्वाश्रमस्य कन्यास्ति, नायं विनोदविषयः । दुष्यन्तसदृशा बहव आगता गन्धर्वविवाहं कृत्वा तदस्वीकरणेच्छवः, किन्तु न कोऽपि मुक्तः । एकवारं कण्ठेऽवलम्बिता चेद्याव?वनं न त्यक्षति । दुष्यन्त आत्मानं किं मन्यते !
घुण्डीराजस्तासां मुखमालोक्याचिन्तयत् - पीतकौशेयवस्त्रकुण्डलादिधारिणीनामासामाश्रमसंवृद्धानां स्वस्थदेहानां कन्यानां मण्डलान्न कश्चित् पुरुष आत्मानं सुखं मोचयितुं प्रभवति ।
सहसैव कण्वर्षिमागच्छन्तमालोक्य कन्या इतो निलीनाः।


(अनुवर्तते)

No comments: