Friday, July 18, 2008

यत्स्वल्पमपि तद्बहु

एकस्मिन् ग्रामे रामः श्यामः इति मित्रद्वयं वसति स्म । रामस्य पिता कृषकः आसीत् । श्यामस्य पिता ग्रामे धनिकतमः व्यापारी आसीत् । रामश्यामौ तयोः बाल्यकाले सर्वदा मिलित्वा एव पठतः स्म क्रीडतः स्म च । प्राथमिक-विद्याभ्यासानन्तरं श्यामः उन्नतविद्याभ्यासार्थं ग्रामात् प्रस्थितवान् । परन्तु निर्धनस्य गृहे परिपोषितः रामः उन्नतविद्यालयं गन्तुं न शक्तवान् । तस्मिन् समये कुटुम्बपोषणस्य दायित्वम् अपि तेन वोढव्यम् आसीत् । अतः सः सर्वकारीय-कार्यालये लिपिकार-वृत्तिं प्राप्य जीवनं निर्वहति स्म ।
कानिचित् वर्षाणि अतीतानि । श्यामः उन्नतविद्याभ्यासं समाप्य एकां संस्थां व्यवस्थापितवान् । श्यामः व्यापारे निपुणः एव । तथापि यथा कथञ्चित् प्रगतिः साधनीया इति मत्वा व्यापारे दुर्नीतेः प्रयोगात् न अपसृतवान् । प्रभृतिकाले तस्य संस्था प्रभूतलाभान् प्राप्य बहुराष्ट्रिय-संस्थायां (multi-national company) पर्यवर्तत । श्यामस्य बन्धुमित्रगणं तस्य धनम् अधिकारं च दृष्ट्वा एव तस्य गौरवं करोति स्म, न तु स्नेहात् । व्यापारकारणतः व्यस्तः सन् श्यामः स्वपुत्रयोः पोषणे श्रद्धां न अददात् । अतः तौ भ्रष्टौ जातौ ।
रामस्य जीवनं तु भिन्नरीत्या प्रचलति स्म । सः कालान्तरं पदोन्नतिं प्राप्य ग्रामाधिकारी अभवत् । ग्रामजनाः तं “सज्जनः धर्मबद्धः” इति अश्लाघन्त । याचकः मित्रं वा शत्रुः वा इति अचिन्तयन् एव सः साहाय्यं करोति स्म । तस्य औदार्यं ग्रामे विख्यातम् । पितुः संरक्षणे संवर्धितौ रामस्य पुत्रौ सदाचारौ आस्ताम् । यद्यपि तस्य गृहे धनलक्ष्मीः बहुवारं न आगच्छत् तथापि संतोषलक्ष्मीः तु सर्वदा अतिष्ठत् ।
परन्तु कदाचित् रामः अनुतापम् अनुभूतवान् - “मम मित्रं श्यामः महाकार्याणि कृतवान् । तस्य नाम जगद्विख्यातम् । मां तु कूपस्थं मण्डूकमिव मम ग्रामजनान् विहाय अन्यः कोऽपि न जानाति । मम जीवनस्य सार्थकता नास्ति । मम निर्धनतायाः कारणात् मम पत्नी पुत्रौ च कष्टान् अनुभवेयुः । ते मनसि मह्यं क्रुध्येयुः” इति विचिन्त्य अखिद्यत ।
केभ्यश्चन वर्षेभ्यः अनन्तरं रामश्यामौ वृद्धौ अभवताम् । कालक्रमेण श्यामस्य भ्रष्टाचाराः विश्वविदिताः अभवन् । तस्य व्यापारः धनं कीर्तिः च क्षीणाः अभवन् । तस्य बान्धवाः वा मित्राणि वा तस्य साहाय्यं न कृतवन्तः । पत्न्या पुत्राभ्याम् अपि तिरस्कृतः सः स्वग्रामं पुनरागत्य एकाकी उषितवान् । रामः तु पुत्रपौत्रैः सह सगौरवं वार्धक्यं यापयति स्म । श्यामस्य अवस्थां ज्ञात्वा रामः अखिद्यत । मित्रं सान्त्वयितुं, तस्य साहाय्यं कर्तुं च सः एकस्मिन् दिने श्यामस्य गृहं गतवान् ।
मित्रं दृष्ट्वा श्यामः अवदत् - “मया दोषः कृतः । अहं धनेन जीवनं सार्थकं भवेत् इति चिन्तितवान् । परन्तु तत् अनृतम् इति आवयोः जीवनं दृष्ट्वा अवगतम् । सन्मार्गे गच्छन् नरः यथाशक्ति स्वल्पमेव साधयेत् अपि तत् बहु । दुष्टान् परितोषयित्वा, भ्रष्टाचारान् कृत्वा, अन्यान् पीडयित्वा महाकार्याणि कुर्याम चेदपि अन्ते कृतानां दुष्क्रियाणां फलानि अनुभवेम एव_।” मित्रस्य वचनैः अनुतापात् निवृत्तः रामः तृप्त्या गृहं गतवान् ।

अकृत्वा परसन्तापम् अगत्वा खलनम्रताम् ।
अनुत्सृज्य सतां मार्गं यत् स्वल्पमपि तद्बहु ॥


-- मैथिली वुटुकुरु

No comments: