Friday, July 18, 2008

अलम् अधिकप्रचारेण

प्रसारमाध्यमानां प्रभावः अगाधः । प्रतिदिनं वयं वृत्तपत्रिकाः अन्तर्जालवार्तापत्रिकाः वा पठामः दूरदर्शनं पश्यामः च प्रायः । एतेषां साहाय्येन देशस्य विभिन्नेषु प्रदेशेषु घटितानां घटनानां विषये ज्ञातुं शक्नुमः । न केवलं देशस्य, परन्तु विश्वस्य कस्मिन्नपि कोणे घटितायाः घटनायाः वार्ताः अपि क्षणेषु एव प्राप्तुं शक्यम् । अस्माकम् अन्यत् इन्द्रियमिव वर्तन्ते एतानि माध्यमानि । एभिः वयं जगत् ईक्षामहे । एतेभ्यः प्राप्ताभिः वार्ताभिः कमपि विषयम् अधिकृत्य अस्माकम् अभिप्रायः रचितः भवति । अतः सुविदितस्य जनसमूहस्य रचनायां प्रसारमाध्यमानां महत् पात्रम् अस्ति ।
अनया महत्या शक्त्या काचित् विलक्षणा स्थितिः जनिता अस्ति । अन्तर्जालादिभिः माध्यमैः सहस्राणां जनानां सम्पर्कं कर्तुं शक्यम् । काचिद्वार्ता शीघ्रमेव प्रसिद्धताम् आप्तुम् अर्हति । सर्वस्य अपि “अहं प्रसिद्धः भवेयम्” इति इच्छा भवति प्रायः । मम वार्ता प्रसारमाध्यमेषु प्रकाशिता भवतु इति सर्वे वाञ्छन्ति । केचन स्युः ये कथञ्चित् अपि प्रसिद्धतां साधयितुम् अभिलषन्ति । तदर्थं विचित्राणि कार्याणि क्रियन्ते कदाचन । प्रसारमाध्यमानि अपि विचित्रायै घटनायै आद्यतां यच्छन्ति । अतः जनाः विचित्रतरं कार्यं कर्तुं प्रयतन्ते । केषाञ्चन चिन्तनम् इत्थं प्रायः -

घटं भिन्द्यात् पटं छिन्द्यात्
कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण
प्रसिद्धः पुरुषो भवेत् ॥

कथञ्चित् प्रसिद्धेन पुरुषेण भवितव्यम् । तदर्थं घटं भिन्द्यात् अथवा पटं (वस्त्रं) छिन्द्यात् । ततोऽपि विचित्रं कार्यं कुर्यात् आवश्यकतायां सत्याम् । रासभस्य (गर्दभस्य) आरोहणं कृत्वा वा प्रसिद्धतां प्राप्नुयात् !! Youtube जालस्थाने विद्यमानानां चलच्चित्राणां दर्शनेन ईदृशाः जनाः सन्ति इति तु प्रमाणितं भवति ।
कदाचित् संस्थाः स्वकार्यस्य प्रचारार्थं माध्यमानाम् उपयोगं कुर्वन्ति । तत्र तु नास्ति दोषः । परन्तु यदि प्रचारः एव संस्थायाः मुख्यः ध्येयः भवेत्, तदर्थमेव अधिकः श्रमः क्रियते चेत् ? सत्यं यत् जनानाम् आकर्षणार्थं प्रचारः आवश्यकः । प्रचारं विना तस्य कार्यस्य लाभम् अधिकाः न प्राप्नुयुः । आसक्ताः अपि अज्ञानात् संस्थायाः कार्यक्रमेषु भागं वोढुं न शक्नुयुः । किन्तु प्रचारार्थं क्रियमाणस्य श्रमस्य काचित् सीमा भवतु । प्रारम्भे अवश्यं प्रचारः क्रियतां परन्तु कार्यस्य एव सर्वदा आद्यता स्यात् । ईषत् अपि साधितं चेत् तस्य प्रचारः करणीयः इति नास्ति । कश्चित् शिशुः यदा प्रथमवारं पद्भ्यां चलति तदा सर्वे तद्दृष्ट्वा आनन्दिताः भवन्ति, प्रोत्साहं कुर्वन्ति च । परन्तु एकवर्षानन्तरम् अपि सः बालः पद्भ्यां चलति इति वार्तां को वा श्रोतुम् इच्छेत् ?
अल्पस्य अपि कार्यस्य प्रचारं श्रुत्वा जनाः जुगुप्सिताः अपि भवेयुः । कथ्यते ननु -
सम्पूर्णकुम्भो न करोति शब्दम्
अर्धो घटो घोषमुपैति नूनम् ।
विद्वान् कुलीनो न करोति गर्वं
गुणैर्विहीनाः बहु जल्पयन्ति ॥

यथा सम्पूर्णः कुम्भः शब्दं न करोति, तथैव ज्ञानी विद्वान् अपि अधिकं गर्वं न करोति । गुणैः विहीनाः एव अर्धः घटः इव अधिकं शब्दं कुर्वन्ति, अधिकं भाषन्ते च ।
कार्यम् उत्कृष्टं चेत् प्रचारः तु भवति एव । यः जनः संस्थायाः कार्यक्रमे भागं वहति सः अन्यान् सूचयति । एवं सूचिताः प्रायः अग्रिमकार्यक्रमे भागं वहन्ति । ते पुनः अन्यान् सूचयन्ति । एवं जनमुखेन प्रचारस्य यावान् प्रभावः भवितुम् अर्हति अन्येन केनापि माध्यमेन तावन्तं प्रभावं साधयितुं कठिनम् । ईदृश्याः viral marketing योजनायाः उदाहरणानि अनेकानि विद्यन्ते । यदा google संस्थया gmail ई-पत्र-साधनम् आरब्धं तदा एवमेव कृतम् । यः कश्चित् तत् प्राप्तुं न अशक्नोत् । केवलं तस्य साधनस्य उपयोक्ता कश्चित् निमन्त्रणं प्रेषयति चेत् एव तत् प्राप्तुं शक्यम् । तथापि अद्य तस्य उपयोगिनः अनेके । अत्र सूक्ष्मः अंशः अस्ति - यदि तस्य साधनस्य उपयोक्त्रे तत् साधनं न रोचते तर्हि सः अन्येभ्यः निमन्त्रणपत्रं न प्रेषयति । तत् साधनम् उत्तमं चेत् एव प्रेषयति ननु ? एवं यदि वस्तु उत्कृष्टं, कार्यक्रमः उत्कृष्टः तर्हि जनमुखेनैव तस्य प्रचारः भवति । तदर्थम् अधिकः प्रयासः न आवश्यकः । विचित्राणि प्रचारकार्याणि न आवश्यकानि । कार्यस्य, सेवायाः च विषये अवधानं दीयताम् ।
अस्माभिः संस्कृतच्छात्राणां प्रोत्साहः करणीयः इति चिन्तयित्वा पत्रिकाप्रकाशनेन यत् प्रथमं पदं स्थापितं तस्य प्रचारः जातः । बहवः अस्मान् प्रोत्साहितवन्तः अपि । तदर्थं वयं कृतज्ञाः । परन्तु तदेव स्मरन्तः अजागरूकाः न भवेम । इदानीम् अनया पत्रिकया एकसंवत्सरः समापितः । बाल्यावस्था अतीता इति मन्यामहे । अग्रे एतस्याः विकासः भवतु । जनानां या अपेक्षा अस्ति तां पूरयितुं प्रयतामहे । तदर्थम् अस्मिन् (व्यासपूर्णिमावसरे) गुरुपूर्णिमावसरे गुरुज्येष्ठानाम् आशीर्वादाः याच्यन्ते । सर्वेषाम् अपि साहाय्यं याच्यते । यदि पत्रिकायाः गुणवत्तां वर्धयितुं भवतां सूचनाः सन्ति, तर्हि कृपया ताः vishvavani [at speaksanskrit [dot] org सम्पर्कसूत्रं प्रति प्रेषयन्तु । यदि भवद्भ्यः पत्रिका रोचते तर्हि भवतां मित्राणि सूच्यन्ताम् !


-- संपादकः
अविनाशः वर्णः

1 comment:

TeachFinance said...

Hi!

I am impressed at your blog. I want to learn sanskrit and I stay in Duabi. Do you supply any learning materials?